________________
चिरचिता] ऋषभपञ्चाशिका.
૧૭૯ ने० अ०-अधुना तापसागममुद्दिश्य स्तुतिमाह-गहिय० । स्थगितः-अधाकृतो मुखरगोवदनद्युतिर्येन । कैः ? प्रथमतापसैः-कच्छ-महाकच्छवजैर्जटाधारिभिः । कीदृशो मुखरागः ? 'गृहीतव्रतभङ्गमलिनः' गृहीतं यद् व्रतं भगवता सह तस्य भङ्ग:-अनासेवनारूपः तेन मलिनःकलुषितः । नूनं-निश्चितम् । किंविधैः ? दूरादवनतैः । क सति ? तव दर्शने-भवदवलोकने । प्रथमे-आद्ये ॥ १९॥
चि० अ०-जिनेन सह प्रबजितानां सामन्तादीनां समवसरणोपगतानां वक्तव्यतामाह-ग. हिय० । हे त्रिभुवनगुरो! प्रथमदर्शने प्रथमोत्पन्नतापसैः कच्छ-महाकच्छवजैः, दूरम्-अत्यर्थे, अवनतैः नूनं-निश्चितम् , स्वस्य-मुखरागो-मुखच्छाया स्थगितः--अन्तरितः, यतो गृहीतव्रतभङ्गमलिनः। अयमाशयः-तैस्त्रपाभङ्गमन्थरैः स्वमुखं दर्शयितुमसमर्थैः प्रणामव्याजेनावनतिरङ्गीकृता ॥ १९ ॥
पू० अ०-तव प्रथमदर्शने प्रथमोत्पन्नतापसैः कच्छ-महाकच्छवजैः दूरम्-अत्यर्थमवनतैनूनं खस्य मुखच्छाया स्थगिता, यतो गृहीतव्रतभङ्गेन मलिना-कलुषा । अयमाशयः-न तैर्भक्त्या भगवान् नतः, किन्तु तथा जगज्जनसमक्षं भगवता समं व्रतमादाय निःसत्त्वैस्तापसत्वमङ्गीकृतमिति त्रपया स्वमुखं दर्शयितुमसमर्थैः प्रणामव्याजेन नतिराश्रिता ॥ १९॥
ध० अ०-अथ कवि तीहं तपस्वीनइ समागमि किसिउ हुओ ते वात कहइ छ।। हे नाथ ! तैस्तापसैः परिवेष्टितेन त्वया क्षणं कुलपतेः शोभा व्यूढा । हे स्वामी ! तेह तपस्वीए परिवेष्टित-वीटिइं तई क्षण एक कुलपति-मूलगा तपस्वीनी शोभा वही, पछइ तेहे तपस्वीए दीक्षा लीधी। किंविशिष्टेन त्वया ? विकटांशस्थलघोलमानजटाकलापेन । विकटविस्तीर्ण जे अंशस्थल-खवा(भा?) तिहां घोलमान-हींडोला समान नटासमूह छई ॥२०॥
ने० अ०–तापसागमे भगवान् किंविधो जातः-तेहिं । तैस्तापसैः परिवेष्टितेन-परिवारितेन । चः पुनरर्थे । त्वया व्यूढा-धृता स्तोककालं शोभा-श्रीः । कस्य ? कुलपतेः । पश्चात् ते प्रव्रज्यां जगृहुरित्यभिप्रायः। किंविधेन त्वया ? 'विकटांसस्थलघोलमानजटाकलापेन' ? विकटौविस्तीर्णी यावंसस्थलौ तयो?लमानौ जटाकलापौ-जटाप्राग्भारौ यस्य तेन ॥२०॥
चि० अ०-तत्समागमेन भगवान् किंविधो जात इत्याह-तेहिं । तैः तापसैः परिवेष्टितेन-परिवारितेन त्वया श्रीकुलपतेः शोभा व्यूढा-धृता क्षणं-स्तोककालं पश्चात् ते प्रव्रज्यां जगृहुरित्यर्थः । किंविधेन त्वया ? विकटांसस्थलघोलमानजटाकलापेन ॥ २० ॥
पू० अ०-तैः परिवेष्टितेन त्वया क्षणं पश्चात् भगवदुपदेशेन श्रमणलिङ्गस्याङ्गीकृतत्वात् कुलपतेः'तापसाचार्यस्य शोभा व्यूढा-प्राप्ता । विकटौ-विस्तीर्णौ यौ स्कन्धप्रदेशौ तयोः प्रेकन् जटाकलापो यस्य ॥२०॥
'बोलइ' इति ख-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org