________________
૧૭૬ अवचूरिचतुष्टयसमेता
[श्रीधनपालध० अ०-अथ कवि जिननी पारणविधि बोलइ । हे नाथ! तस्य श्रेयांसस्य भद्रकल्याणमस्तु येन तव देहो वर्षान्ते-वत्सरावसाने तप:शोषितो निराहारो-भोजनरहितो निर्वापितः-शीतलीकृतः। जिणइं श्रेयांसि ताहरउ वर्षाति-वरिस प्रांति तपि सोसव्यु निरा. हारो-भोजनरहित देह निर्वापिउ-शीतल कीधउ । केनेव ? मेघेनेव । यथा मेघेन वनद्रुमाःअरण्यवृक्षाः ग्रीष्मातपेन शोषिता निराधारा-जलसेकरहिता निर्वाप्यन्ते-शीतलीक्रियन्ते। कुणनी परिइं? मेघनी परिई। जिम मेघि वनवृक्ष-अरण्यनउ वृक्ष ग्रीष्मतापिई सोसव्यु निराधार निर्वाप्यते-सीतल कीजइ ॥ १५ ॥
ने० अ०-पारणविधिमङ्गीकृत्याह-भदं० । भद्र-कल्याणमभूत् । से-तस्य श्रेयांसस्य येन त्वं निर्वापितः-सन्तर्पितः-शीतलीकृतो वर्षान्ते-संवत्सरावसाने । किंविधः सन् ? तपःशोषितदेहो निराहारो-भोजनविकलः। केनेव क इत्याह-मेघेनेव वनद्रुमः-अरण्यवृक्षः । कोऽर्थः ? यथा मेघेन वनद्रुमः तापेन-ग्रीष्मेण शोषितो निराहारो-जलादिपानविकलो वर्षान्ते-वृष्टिपर्यन्ते शीतलः क्रियते तथा भगवानपि येनेति भावः ॥ १५॥
चि० अ०-आद्यपारणकविधिमङ्गीकृत्य स्तुतिमाह-भदं से० । भद्रं-कल्याणं भूयात् 'से' तस्य श्रेयांसस्य, येन त्वं निर्वापितः-शीतलीकृतो वर्षान्ते-संवत्सरावसाने। किंविधः सन् ? तपःशोषितः तथा निराहारो-भोजनविकलः। मेघेनेव वनद्रुमः । कोऽर्थः ? यथा मेघेन वनद्रुमः तापेनग्रीष्मेण शोषितो निराधारो जलादिपानविकलत्वाद् वर्षान्त-वृष्टिपर्यन्ते शीतलीक्रियते तथा त्वमपि ॥ १५ ॥
पू० अ०-आद्यपारणकमाश्रित्याह । येन त्वं संवत्सरान्ते निर्वापितः-संतर्पित इक्षुरसैः । आहाररहितः, अत एव तपसा शोषितः । यथा मेघेन कान्तारपादपो निर्वाप्यते तापेन-ग्रीष्मेण शोषितः वर्षणं-वर्षस्तस्यान्ते वृष्टिं विधायेत्यर्थः । सोऽपि निराधारः, आलवालविकलत्वात् ॥ १५ ॥
ध० अ०-अथ कवि जिननई केवलज्ञान उद्दिसी स्तुति बोलइ । हे नाथ! त्वयि उत्पन्नविमलज्ञाने-केवलज्ञाने सति भुवनस्य-त्रिभुवनस्य मोहो विगलितो-विलयं गतः। हे नाथ! तइ उपनई तई केवलज्ञानि हूंतइं भुवन-त्रिभुवन तणउ मोह-अज्ञानरूप विलय ग्यूं। सयलुग्गयसूरे वासरम्मि गयणस्स व तमोहो । कस्येव ? गगनस्येव । यथा गगनस्य सकलोद्गतसूर्ये वासरे-सम्पूर्णोदयप्राप्ते सूर्ये तमओघो विलयं याति । कुणनि परिइं? गगन-आकशनीपरि । जिम गगन-आकाश रहइं संपूर्ण उदय पामिई सूर्यि इसइ दिवसि तम-पापनउ ओघसमूह विलइ जायइ ॥ १६ ॥
परि' इति ख-पाठः। २'जाई' इति क-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org