________________
विरचिता ]
ऋषभपञ्चाशिका.
૧૭૫
विहरता तूष्णींभावेन । यो हि किल मौनीभवति सोऽन्योपदेशविधौ असमर्थः । त्वया पुनरित्थम्भू तेनापि उपशामिताः - समतां नीताः । अथवा किमत्र चित्रम् : सत्पुरुषा:- सज्जनाः अभणन्त एववचनमकुर्वन्त एव कार्य - समीहितं साधयन्ति-निष्पादयन्ति परस्य - आत्मव्यतिरिक्तस्य ॥ १३ ॥
चि० अ० - छनस्थावस्थाविहारमङ्गीकृत्याह स्तुतिम् उवसामिया० । हे भगवन् ! त्वया उपशामिता - उपशमं नीता अनार्या- म्लेच्छा देशेषु । किंविधेन त्वया ? ' प्रपन्नमौनेन' । यो हि मौनी स्यात् सोऽन्यानुपदेष्टुमसमर्थः त्वया पुनरित्थम्भूतेनापि उपशामिताः । अथवा किं चित्रम् ? सत्पुरुषाः - सज्जनाः अभणन्त एव परस्य कार्य साधयन्ति ॥ १३ ॥
पू० अ० - छद्मस्थावस्थामधिकृत्य गाथाद्वयमाह । प्रस्तावादनार्यदेशेषु प्रशमं नीता अनार्यजनाः, कृतमौनस्यापि भगवतस्तथाविधजगद्विलक्षणाकृतिदर्शनादेव तेषां मनः प्रशान्तता जाता इत्यर्थः । स्वभावश्चायमुत्तमानाम्-अभाषमाणा एव परस्य कार्यं साधयन्ति ॥ १३ ॥
ॐ X उर्दू
ध० अ० – अथ कवि जिनना चरणकमलनी सेवाफल तणईं दर्शन द्वारिई स्तुति बोलइ । हे नाथ! तव मुनेरपि आश्रितौ नमि-विनमी खेचराधिपती जातौ । हे नाथ! तुझ मुनिन आश्रया कच्छ - महाकच्छना पुत्र नमि-विनमी क्षत्रियकुमार खेचराधिप-विद्याधरना नायक हुआ । ए वातनूं आश्चर्य कांई नहीं । यतः 'गुरुआण चलणसेवा न निto होइ इयावि' महतां चरणसेवा कदापि नैव निष्फला स्यात् । मोटा तणी चरणसेवा कदापि - कुह ( इ ?) कालि निष्फल ने हुइ ॥ १४ ॥
० अ० - भवच्चरणसेवाफलमाह - मुणि० । मुनेरपि - व्रतिनोऽपि तवालीनौ - भवदाश्लिष्टौ नमि-विनमी-कच्छ-महाकच्छपुत्रौ खेचराधिपौ जातौ । गुरूणां - महतां चरणसेवा - पादपर्युपासना नैव - निष्फला भवति कदाचनापि ॥ १४ ॥
चि० अ० ननु यदि आत्तमौनस्य भगवतो दर्शनादेव मनःप्रसादादयः स्युः, तदा किं तदुपासना विशिष्टं फलं भवति न वेति आशङ्का आह-मुणिणो वि० । मुनेरपि तव आलीनौ-त्वदेकतानतया समाश्रितौ नमि-विनमी खेचराधिपौ जातौ, यतो गुरूणां पादसेवा न कदाचिदपि निष्फला - फलविकला भवतीति ॥ १४ ॥
1
पू० अ० - ननु यदि आत्तमौनस्य दर्शनमात्रादेव मनः प्रसादादयः स्युः, तत् किं तदुपासनात् किमपि विशिष्टतरमपि फलं सम्भाव्यमुतैताव देवेत्याशङ्कयाह । मुनेः - लोकोत्तरमार्गप्रतिपन्नस्यापि । लीनौ - त्वदेकतानतया समाश्रितौ नमि-विनमी खेचराधिपौ जातौ । यतो गुरूणां विश्वमहनीयमहिम्नां पादसेवा न कापि फलविकला भवति ॥ १४ ॥
१ छायाऽर्थं दृश्यतां ६१तमं पृष्ठम् ।
Jain Education International
妖
ॐ
34
२ 'नजि हुई ' इति ख- पादः ।
For Private & Personal Use Only
www.jainelibrary.org