________________
विरचिता] ऋषभपश्चाशिका.
૧૭૩ 'वञ्जरिअ' ति देशीभाषया कथितोऽशेषलोकव्यवहारो येन स तथा । विद्याः-शब्दविद्यादयः लिखितगणितादिकाश्च, शिल्पं-कुम्भादीनि, व्यवहारः-परिणयनादीनि ॥१०॥
चि० अ०-अधुना राज्यप्रतिपालनविधिमाश्रित्य स्तुतिमाह-दावियः । यासां प्रजानां त्वं स्वामी-प्रभुर्जातः-सम्पन्नः, ताः प्रजाः-लोकाः कृतार्थाः-कृतकृत्या इति । किंविधः ? 'दर्शितविद्याशिल्पः' दर्शितानि विद्याः-शब्दविद्यादिका लिखितादिकाश्च शिल्पानि-कुम्भ(कारा)दीनि च येन स तथा । 'वजरिअ' त्ति देशीयभाषया कथितोऽशेषलोकव्यवहारः-परिणयनादिको येन स तथा ॥ १०॥
पू० अ०-दर्शितविद्याशिल्पः । 'वज०'-व्याकृतोऽशेषजनानां व्यवहारो येन ॥ १० ॥
ध० अ०-अथ कवि जिननी दीक्षाविधि बोलइ । हे धीर! यथा त्वं नियमधुरं-दीक्षाग्रहणपरिणामं प्रतिपन्नः तथा कोऽन्यो जीवः?। परीपह-उपसर्गे करी अक्षोभ्य !। हे धीर! स्वामिन् ! जिम तई नियमधुर-दीक्षा लइवानउ परिणामु आश्रयु तिम कुणि अनेरइं आश्रयु ? अपि तु कुणिहि नाश्रयु । किंविशिष्टस्त्वम् ? 'बन्धुविभक्तवसुमतिः' बन्धु-भरतेश्वर बाहुबलि प्रभृति सउ पुत्रनइं विभक्ता-विहिंचि आपी वसुमती-पृथ्वी छइ जीणइं तई । पुनः किं ? वत्सरं-संवत्सरं यावत् अविच्छिन्नो दत्तो धननिवहो-धनसमूहः। वच्छर-संवत्सर जाण अविच्छिन्न-निरंतर दत्त-दीधउ धननिवह-धनसमूह छइ ॥ ११ ॥
ने अ०-दीक्षामङ्गीकृत्य स्तुतिमाह-बंधु । हे धीर!-महाप्रभाव! यथा त्वं नियमधुरंप्रव्रज्याग्रहणपरिणामं प्रतिपन्नवान् तथा कोऽन्यः? । न कश्चिदासीत् । कीदृशः ? 'बन्धुविभक्तवसुमतिः' बन्धूनां-पुत्रादीनां सामन्तादिभ्यो (दीनां ?) वा विभागीकृता वसुमतिः-क्षितिर्येन । वत्सरं-वर्ष यावद(वि)च्छिन्नो-निरन्तरं दत्तः, लोके(भ्यः) इति गम्यते, धननिवहो (येन) स तथा ॥११॥ - चि० अ०-अथ दीक्षाकल्याणकमधिकृत्य गाथाद्वयेन स्तुतिमाह-बंधु० । हे धीर!-महाप्रभाव! यथा त्वं नियमधुरं-प्रव्रज्याग्रहणपरिणामं प्रतिपन्नवान् , तथा कोऽन्यः ?। न कश्चिदित्यर्थः। कीदृशः ? 'बन्धुविभक्तवसुमतिः' बन्धूनां सुसामन्तादीनां (वा) विभक्ता-विभागेनार्पिता वसुमती येन स तथा । अत्र च समासान्ताकच्प्रत्ययस्य प्राप्तस्यापि प्राकृतत्वात् एवाभावः। 'वच्छरं' वर्षे यावत् अविच्छिन्नं दत्तः लोकेभ्यः इति गम्यते, धननिवहो येन स तथा । धीर! इति सम्बोधनेन व्रतग्रहणादारभ्य वर्ष यावत् श्रुत्परीषहसहनं वर्षसहस्रं च यावत् वाक्संयमं च सूचितवान् । न खलु आहारव्याहारविरहितैरेतद्विधैर्दिनमपि स्थातुं न शक्यते ॥ ११ ॥
५ 'कथेवंजर-पजरोप्पाल-पिसुण-संघ-बोल-चव-जंप-सीस-साहाः' इति (सिद्ध०८-४-२) सूत्रेण कथंतोर्वजरादेशः सिद्ध्यति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org