________________
निरचिता ]
ऋveपञ्चाशिका.
चक्रं - द्वादशारकोत्थं तस्यैकवासौ पार्श्वश्च तस्मिन् । [स] उत्प्रेक्षते कनकमयेनेव । अयमर्थ:यथा कृष्णचक्रे कनकमयः अरकः शोभते, तथा काललक्षणेऽपीति ॥ ७ ॥
1
चि० अ० - जन्मकल्याणकद्वारेण स्तुतिमाह- अरएणं० । इह चाहतां पञ्चस्वपि कल्याणकेषु सर्वलोकप्रकाशकं निमेषमात्रं कालमुल्बणं तेजःपटलमुन्मीलति एतदेव कविरुत्प्रेक्षते । हे नाथ ! तव जन्मनि अस्यामवसर्पिण्यां तृतीयेन कालसंज्ञकेन अरकेण कनकमयेनेव स्फुरितं विलसितम् । क ? 'कालचक पार्श्वे' द्वादशभिः अरकै र्विशतिकोटा कोटीसागरोपमप्रमाणं कालचक्रं तस्यैकपार्श्वे । अयमर्थः - यथा कृष्णचक्रे कनकमयोऽरकः शोभते, तथा काललक्षणेऽपीति । पुनः प्रकारान्तरेणाह - स्फुरितमितरारकविलक्षणं किमप्यद्भुतं तेजो धृतम्, अत एव स्वर्णनिर्मितेनेव, कल्याणकाद्युत्सवविकलं तु शेषं कालचक्रमन्वर्थाभिधानमेव, तत्र भगवजन्मसमयपरिवर्तमानं कालशकलं तदानीमद्भुत तेजः कलितत्वेन सकलेऽपि कालचके कथं न स्फुरतु ? ॥ ७ ॥
૧૭૧
पू० अ० - अर्हतां पञ्चखपि कल्याणकेषु निमेषमात्रं कालं तेज उन्मीलति एतदेवाह । तव जन्मनि कालचक्रैकदेशवर्तिना तृतीयारकेण स्फुरितं - तेजो धृतम्, अत एव काञ्चननिर्मितेनेव ॥ ७ ॥
ॐ M ॐ
ध० अ० - अथ कवि अभिषेकविधि अंगीकरी बोलइ । हे स्वामी ! त्वं जन्मानन्तरं यत्र गिरौ सुरैरभिषिक्तः । तूं जन्म्या पूठि सुरेन्द्रादिके जीणइ पर्वति अभिषेकु । हे नाथ ! त्वं यत्र गिरौ शिवसौख्यसम्पदं प्राप्तः । हे स्वामी ! जिहां तरं शिव-मोक्षनी संपद्-लक्ष्मी पामि । तौ द्वावपि अष्टापदशैलौ वर्तते । ते बिन्हइ अष्टापद पर्वत वर्तई । अष्टापद शब्दि सुवर्ण कही एह कारण सुवर्णनउ पवर्त मेरु जाणिवउ । तिहां जिन रहई जन्माभिषेक उ । जिहां मोक्षलक्ष्मी पामिउ तेहइ आठि पावडियारे करी अष्टापद कहीइ । तौ द्वावपि पर्वत गिरिकुलस्य - पर्वत समूहस्य शीर्षामेली - शिरोमुकुटौ ज्ञेयौ । ते मेरु पर्वत अनइ अष्टापद पर्वत अनेरा पर्वत समूहना मस्तकनई अष्टापद सुवर्णसंबन्धीया मुकुट जाणिवा ||८||
ने० अ० - -अभिषेक विधिमुररीकृत्याह - जम्मि० । यत्र त्वं अभिषिक्तः - स्त्रापितः सुरैः, यत्र च शिवसौख्यसम्पदं प्राप्तः तौ द्वावपि अष्टापदशैलौ वर्तते । एकत्र अष्टापदं - स्वर्ण तन्मयः शैलः, अन्यत्र अष्टापदानि - जीवविशेषा यत्र स तथोक्तः । किंविधौ ? शीर्षामेलो - शिरः शेखरकौ । कस्य गिरिकुलस्य - पर्वतसमाजस्य ॥ ८ ॥
चि० अ० - अभिषेक स्तुतिमुररीकृत्य स्तुतिमाह - जम्मि तुमं० । यत्र त्वमभिषिक्तः - स्नापितः । कैः ? सुरैः । यत्र च शिवसौख्यसम्पदं प्राप्तः । तौ द्वावपि अष्टापदशैलौ वर्तेते । एकत्र अष्टापदं-सुवर्ण तन्मयः शैलो मेरुः, अन्यत्र अष्टौ पदानि यत्र स तथोक्तः । किंविशिष्टौ ? 'शीर्षापीड' शिर:शेखरौ । कस्य ? 'गिरिकुलस्य' पर्वतसमाजस्य । अत्र प्राकृतत्वात् द्विवचने बहुवचनम् ॥ ८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org