________________
अवचूरिचतुष्टयसमेता
[श्रीधनपालत्वयि गृहे अवतारस्तत्र उन्मुखे-सम्मुखे सति सर्वार्थसुरविमानस्य सर्वः-समस्तो लष्टत्वाभिमानः-प्रधानत्वाहङ्कारो नष्टः-प्रलयं गतः, एतेन समृद्धिसौभाग्यं नष्टमित्यर्थः ॥ ५॥
पू० अ०-सर्वार्थाख्यसुरविमानस्य लष्टत्वाभिमानो नष्टः त्वयि नाभिकुलगृहावतारोन्मुखे ॥ ५ ॥
ध० अ०-अथ कवि स्वामी अवतरिया पूठिई कल्पद्रुम स्वरूप बोलइ । हे जगद्गुरो! जगत-विश्व तणउ गुरु-पिता छं । त्वयि जगति-विश्वे चिन्तादुर्लभमोक्षसौख्यफलदे अपूर्वकल्पद्रुमे अवतीर्णे सति कल्पतरवः-कल्पवृक्षा हित्था इव-लज्जिता इव प्रोषिता-अभावं प्राप्ताः । हे स्वामी! तई विश्व माहि चिंतातीत दुर्लभ मोक्षसौख्य दाईइ अपूर्व कल्पवृक्षि अवतरिइं हूंतई कल्पवृक्ष लाज्यानि परिई अदृष्ट हूआ ॥ ६ ॥
ने० अ०-भगवति समुत्पन्ने किं जातमित्याह-पइं०। त्वयि जगति अवतीर्णे अपूर्वे कल्पद्रुमे-विशिष्टशाखिनि । किम् ? हित्था इव-लज्जिता इव । उपमायां इवशब्दोऽत्र । हे जगद्गुरो ! कल्पतरवःप्रोषिता-अभावमापन्नाः। किल कालेनैव ते विनष्टाः, परं कविनोत्प्रेक्ष्यन्ते । 'चिन्तादुर्लभमोक्षसौख्यफलदे' चिन्तया दुर्लभं यन्मोक्षसौख्यं तदेव फलं तद् ददाति यः स तस्मिन् ॥६॥
चि० अ०-भगवति समुत्पन्ने कि जातमित्याह-पई चिंता० । हे जगद्गरो! जगति त्वयि अवतीर्णे अपूर्वकल्पद्रुमे-विशिष्टशाखिनि। किम् ? 'हित्था इव' हियि-लजायां तिष्ठन्तीति हीस्था इव-सलज्जा इव । 'हित्था' इति देश्यः (शब्दः)। कल्पतरवः प्रोषिता-अभावमापन्नाः । कलिकालेनैव ते विनष्टाः, परं कविना एवमुत्प्रेक्ष्यन्ते । 'चिन्तादुर्लभमोक्षसौख्यफलदे' चिन्तादुर्लभमोक्षसौख्यं फलं तदेव तद् ददाति यः स तथा । अत एव अपूर्वकल्पद्रुम इति ॥ ६ ॥
पू० अ०-त्वयि चिन्तातीतदुर्लभमोक्षसौख्यफलदेऽवतीर्णे हीस्थाः-सलज्जा इव प्रोषिताः-तिरोबभूवुः ॥ ६॥
ध० अ०-अथ कवि जिनना माहात्म्य द्वारिं स्तुति बोलइ । हे नाथ ! तव जन्मनि अस्यां अवसर्पिण्यां सूसमदूस(सुषमदुःष)माख्येन तृतीयारकेण कालचक्रस्य एकस्मिन् पार्श्वे कनकमयेनेव स्फुरितम् । हे जिन ! ताहरइ जन्मि इणई अवसर्पिणीकालि सूसमदूसम नामा त्रीजई अरई कालचक्रनइ एकई पासई सुवर्णनी परिइं स्फुरिउ-जलहल्यूं । जिम कालचक्रनउ एक आरउ अति सर्वोत्तम शोभइ तिम कालचक्र इजि(ति?) कालूं चक्र तिहां त्रीजइं अरई तइं अवतरिई सुवर्णनी परि अत्यंत शोभा पामी ॥ ७ ॥
ने० अ०-इदानीं जन्माधिकृत्य स्तुतिमाह-अर० । हे नाथ ! तव जन्मनि अरकेण-कालसंज्ञिकचक्रेण तृतीयकेन अस्यामवसर्पिण्यां स्फुरितं-विलसितम् । क्व ? कालचक्रैकपार्श्वे । काल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org