________________
१४८
सयाशिडा.
[श्रीधनपाल
इदानीं मनुष्यगतिमुद्दिश्याह
अंतो निक्खंतेहिं, पत्तेहिं पिअकलत्तपुत्तेहिं । सुन्ना मणुस्सभवणा-डएसु निज्झाइआ अंका ॥ ४५ ॥ [अन्तर्निष्क्रान्तैः प्राप्तैः (पात्रैः) प्रियकलत्रपुत्रैः।
शून्या मनुष्यभवनाटकेषु निर्ध्याता अङ्काः ॥] प्र० वृ०-अंतो त्ति । हे जगत्पितामह! स्वामिन् ! इह हि संसाररङ्गान्तरे किङ्करीकृतसकलनारकतिर्यड्नरामरविसरसर्वार्थसिद्धाप्रतिष्ठानपर्यवसानप्रसृमराप्रतिहतशासनस्य महामहिनो मोहमहीन्द्रस्य पुरः कर्मपरिणामसूत्रधारेण निरन्तरं चतुर्गतिनाटकान्यभिनीयन्ते । तन्मध्याच्चाभिनीयमानेषु मनुष्यगतिनाटकेषु अङ्काः शून्या नियाता इति सम्बन्धः । तत्र मनुष्यगतिरेव तत्तदवस्थाविशेषानुभूयमानशृङ्गारादिरसात्मकत्वेन नाटकानीव नाटकानि तेषु । साम्प्रतं मनुष्यभवानां नाटकैः सह साधम्यंमाह-तत्रादौ मनुष्यभवस्वरूपमेवाभिधीयते । नरभवेषूत्पन्नेन मया अङ्काः-उत्सङ्गाः सुन्ना-शून्याः निज्झाइआ-निाता दृष्टाः। कैः शून्या इत्याह-पियकलत्त० कलत्राणि पुत्राश्च कलत्रपुत्राः प्रियाश्च, तत्र प्रियकलत्राणिप्रियप्रणयिन्यः, पुत्राश्च-अङ्गजा नन्दनाः तैः । किंविशिष्टैः? पत्तेहि-पात्रैः । कथम् ? कथमपि तथाविधसातावेदनीयोदयात् । प्राप्तैः-लब्धैः स्वोचितगुणगणाधारत्वेन पात्रभूतैस्तैः। शून्या-विरहिता उत्सङ्गा दृष्टाः, तेषामेव क्रीडाव्रीडाविलासयोग्यत्वात् । अथ कथं तैर्विरहितत्वमङ्कानामित्याह-अन्तो निक्खंतेहिं ति । यतस्तैरन्तर-मध्यादुत्सङ्गस्यैव निष्क्रान्तैरायुःक्षयेण निविडभुजपञ्जरान्तरादप्याच्छिद्य दुर्दान्तयमकिङ्करैरपहृतैः । पात्रं हि कलत्रपुत्रादिकं प्रायो न चिरावस्थायि भवति । इदमत्र तात्पर्यम्-मनुष्यजन्मन्युत्पन्नेन मया प्रियकलत्रादिविप्रयोगसमुद्भूतं दुःखमनुभूतमिति । तथा नाटकेष्वपि विष्कम्भकसूचिताभिनेयवस्तुपरिसमाप्तिरूपादयोऽङ्कास्ते च रङ्गाङ्गणमध्यान्निष्कामद्भिः चतुर्विधाभिनयनिपुगैरभिनायकपात्रैः शून्याः स्युः। पात्राणि कलत्रपुत्ररूपाणि भवन्ति । इति पञ्चचत्वारिंशत्तमगाथार्थः ॥ ४५॥
हे० वि०-(अंतो त्ति)। गमनिका-मनुष्यभवनाटकेषु-नरजन्मप्रेक्षणेषु निर्ध्याता:अवलोकिताः । कैः काः? एकत्रोत्सङ्गाः, अन्यत्राधिकारपरिच्छेदाः। किंरूपा निर्ध्याताः? शून्याः-विकलाः । कैरित्याह-एकत्र पात्रैः, अन्यत्र प्राप्तैः, प्रियकलत्रपुत्रैः प्रिया-वल्लभाः, ये कलत्रपुत्रास्तैः । किंविशिष्टैः [पात्रैः किंविशिष्टैः] प्रियकलत्रपुत्ररित्याह-अन्तर्-मध्यानिष्क्रान्तैः निर्गतैः ॥ इति गाथार्थः॥ ४५ ॥
१ 'दथाच्छिद्य' इत्यपि पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org