________________
૧૪૬
ઋષભપંચાશિકા.
[ श्रीधनपाल
मनुभूतमिति योगः । अधुना तस्यैव स्वरूपमाह - सीउण्हत्ति । शीतोष्णवृष्टिधारानिपातदुःखम् । निपातशब्दः प्रत्येकमभिसम्बध्यते । तद्यथा - शीततौं शीतनिपातदुःखं, उष्णत उष्णनिपातदुःखं, वर्षासु वृष्टिधारानिपातदुःखमनुभूतं, सोढमित्यर्थः । तच्च किंविशिष्टम् ? सुष्ठु - अतिशयेन तीक्ष्णम् । अथ कस्य योनावित्याह — तिरिअत्तणम्मि- तिर्यक्त्वेऽपि, तिर्यग्गतौ समुत्पन्नेनेत्यर्थः । तिर्यञ्चो हि शीतातपवृष्टिकष्टान्यपि दुष्टकर्मभिस्तस्यां योनौ विनिपातिता निराश्रयतया तथा तथा तपस्विनः सहन्त एव । अथ किंविशिष्टेन मया ? नाणावर - णत्ति । ज्ञानावरणसमुच्छादितेनापि ज्ञानावरणाभिधेन कर्मणा सम्-सम्यक् उत्-प्राबल्येन छादितेन आवृतेनेति यावत् । ननु विद्यमानेष्वपि मोहनीयादिकर्मसु किमित्यत्र ज्ञानावरrt विशेषतः समुपादानम् ? उच्यते । संम्भवन्त्येव तिर्यग्योनिगतानामङ्गिनां निखिला - न्यपि कर्माणि, किन्त्वनन्यतुल्यसमुल्लासस्य ज्ञानावरणस्य तेषु परा काऽपि प्रतिष्ठा, अतस्तस्योपादानम् । अपिशब्दोऽत्र विरोधालङ्कारद्योतकः । अतो यः किल नानाप्रकारैरावरणैराच्छादितो भवति स कथं शीतातपादिभिरभिभूयते (इति) १ । इति चतुश्चत्वारिंशतमगाथार्थः ॥ ४४ ॥
1
हे० वि०- ( सीउण्हत्ति ) । तिर्यक्त्वेऽपि अनुभूतं - सेवितं शीतं च उष्णं च वर्षधारानिपातश्च शीतो० तेभ्यस्तैर्वा दुःखं स्ववेदनानुरूपम् । किंविधं तत् ? सुतीक्ष्णं - दुःसहं तथाऽत्रापि मयेति गम्यते विशेषणस्यान्यथाऽनुपपन्नत्वात् । किंविधेनेत्याह-ज्ञानावरणसमवच्छादितेनापि । को भावार्थः ? यो हि पटाद्यावरणसमवच्छादितो भवति तस्य शीतादिजन्यं दुःखं न सम्भवति । मया तु ज्ञानावरणसमवच्छादितेनापि अनुभूतम् । किमिति ( ज्ञानावरणसमुच्छादित इति ) प्रायेण प्रभूतज्ञानावरणीयस्य कर्मणः तिर्यक्त्वे एव सम्भवात् । इति गाथार्थः ॥ ४४ ॥
सी (शीत) = डी.
उन्ह (उष्ण) = २भी.
શબ્દાર્થ
| gfart (geftqvi )=eid da. | अणुभूअं (अनुभूतं )=अनुलवायुं. fakeraufin (A)=fâaugui. नाणावरण ( ज्ञानावरण) - ज्ञानावरण. समुच्छाइएण ( समुच्छादितेन ) = अत्यंत माछाहित. अवि ( अपि ) = पा.
TE ( a )=92216.
धारा (धारा )= धारा.
निवाय ( निपात ) = निपात, पडवुं ते. 'दुक्ख (दुःख )=हु:५. सीउण्हवासधारानिवायदुक्खं ठंडी पडवाथी, गरभी पडवाथी तेभन परसाहनी धारा पडवाथी थतुं हु:.
१ 'सम्प्रत्येव' इत्यपि पाठः ।
૨ આને માટે જીઓ ૬૮ મા પૃષ્ઠનું ટિપ્પણ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org