SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ ૧૩૬ ષભપંચાશિકા. [श्रीधनपालઆવા વનિવાળે એક શ્લોક ન્યાયાચાર્ય ન્યાયવિશારદ મહોપાધ્યાય શ્રીયશવિજયગણિ त मध्यात्मसार (५० ६, दो० १८८) भां ५५ गोयर थाय छे. २मा रह्यो ते दो:-- पूर्णः पुण्यनयप्रमाणरचनापुष्पैः सदास्थारसै. स्तत्त्वज्ञानफलः सदा विजयते स्याद्वादकल्पद्रुमः । एतस्मात् पतितैः प्रवादकुसुमैः षड्दर्शनारामभू भूयः सौरभमुद्रमत्यभिमतैरध्यात्मवार्तालवैः ॥" इदानीमनादिनिधनभैरवभवगहने निरन्तरं परिभ्रमन्तः कथञ्चित् युगसमिस न्यायेन प्राप्यापि पुण्यप्राग्भारलभ्यं भगवन्तं पुनर्दुष्कर्मनिमन्थितवीर्या ये परिहरन्ति तेषा गतिमाह पइ मुक्के पोअम्मि व, जीवेहिं भवन्नवम्मि पत्ताओ। अणुवेलमावयामुहपडिएहि विडंबणा विविहा ॥ ४२ ॥ [त्वयि मुक्ते पोत इव जीवैर्भवार्णवे प्राप्ताः। अनुवेलमापदामुखपतितैर्विडम्बना विविधाः ॥] प्र०वृ०-पइ त्ति । हे विश्वजनीन! भगवन् ! अमीभिर्जीवैर्भवार्णवे विविधा विडम्बनाप्राप्ता इति योगः। तंत्र भव एव जन्मजरामरणरोगशोकादिसलिलसम्भृतत्वेन समुल्ललत्तत्त दुदग्रकुग्राहग्रामसङ्कुलत्वेन प्रसृमरोल्बणकषायवडवानलकरालान्तरालत्वेन चार्णव इवा र्णवस्तस्मिन् पत्ताओ-प्राप्ताः। काः प्राप्ता इत्याह-विडम्बणा-विडम्बनाः वक्ष्यमाणलक्षणाः चतुष्टयगतिसम्बन्धिन्यः। किंविशिष्टाः? 'विविहा' विविधाः-नानाविधा विविधप्रकारा इतियावत् । अथ कथम् ? 'अणुवेलं' अनुवेलं-प्रतिक्षणम् । कैः? जीवैः । किंविशिष्टैरत आह-आवय त्ति आपन्मुखं पतितैः । तत्रापदो जल-ज्वलन-चौरनरपतिजनितास्तन्मु खपतितैः । व सतीत्याह-पइ मुक्के-त्वयि मुक्ते सति । अयमाशयः-न खलु भगवदङ्गी कारेण सम्यगासेवितधर्ममार्गाणामापदः परापतन्ति । साम्प्रतमुपमामाह-त्वयि कस्मिन्निव विमुक्त ? इत्याह-पोअम्मि व' पोत इव-यानपात्रे इव । यथा केनचिदात्मवैरिणस्तथाविधागाधजलधिमध्यमध्यासीनाः पोतं परित्यजन्ति । परित्यक्ते च तस्मिन् तैर्विविधा, नानारूपाः विडम्बना-यातनाः मजनोन्मजनक्रूरमकरादिजलचरकरालदंष्ट्राक्रकचदारणा दिकाः प्राप्यन्ते । किंविशिष्टैस्तैस्तदाह-आवया०आपगामुखपतितैः-तरङ्गिणीप्रवेशप्रदें। शगतैः। तरङ्गिण्यो हि दुरापातघातवेगास्तरङ्गिणीनाथमापतन्त्यः प्रत्यासन्नवर्तिनं क्षिति धरशिखरमपि जर्जरयन्ति, किं पुनर्मानवादीन् ? । इति द्वाचत्वारिंशत्तमगाथार्थः ॥ ४२ ॥ , 'पगामुख०' इति पक्षान्तरे। २ 'सच' इत्यपि पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004848
Book TitleRushabh Panchashika
Original Sutra AuthorDhanpal Mahakavi
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages314
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy