________________
૧૩૪ ઋષભપંચાશિકા,
[श्रीधनपालअधुना पुनर्भगवत्समयस्यैव दृष्टान्तद्वयद्वारेण परसमयेभ्यो गुरुतरं गौरवमाविकसति
पावंति जसं असमं-जसा वि वयणेहिं जेहिं परसमया । तुहसमयमहोअहिणो, ते मंदा बिंदुनिस्संदा ॥ ४ ॥ [प्राप्नुवन्ति यशोऽसमञ्जसा अपि वचनैः परसमयाः।
त्वत्समयमहोदधेस्तानि मन्दा बिन्दुनिस्यन्दाः ॥] प्र. वृ०- पार्वति त्ति । हे सर्वातिशयसंश्रय ! स्वामिन् ! तानि वचनानि त्वत्समयम होदधेबिन्दुनिस्यन्दा इवेति सण्टङ्कः । तत्र त्वदुपज्ञः समयः त्वत्समयः स एव दुरवगाह गभीरत्वेन परतीर्थिकैरलब्धमध्यत्वात् महोदधिरिव महोदधिस्तस्य ते-तानि सूत्रे प्राकृत त्वात् पुंल्लिङ्गनिर्देशः । वचनानि किंविशिष्टानि? "मंदा' मन्दानि-अल्पविषयत्वेन स्तोकप्र काशकराणि । अत एव तव श्रुतमहोदधेनिजलविद्युषां सीकराणीव । यैः किं स्यादित्याहजेहिं वयणेहिं परसमया जसं पावंति । यैग्रहचारवचनैः चन्द्रसूर्योपरागादिपरिज्ञानलक्षणैः परसमयाः-परसिद्धान्तास्तथाविधबुधजने यशः-श्लाघारूपं प्राप्नुवन्ति । यदि पुनः तदितरै रपि गुणैः प्राप्तप्रतिष्ठा भविष्यन्त्यत आह-'असमंजसा वि' विसंस्थुलालापचापलेन जनिर विद्वजनोत्प्रासा अपि । तानि चैवंविधानि वचनानि त्वदागमसमुद्रस्य बिन्दुनिस्यन्दा इव इदमत्र हृदयम्-यस्य त्वत्समयस्य पारावारस्येवापारस्य निरन्तरं परिशीलनात् पारगामिन श्रुतकेवलिनः प्राणिनामतीतानागतानसङ्ख्येयानपि भवान् (विदन्ति) लीलयैव चोपरि शन्ति । तस्य पुरस्ताद्गणितमात्रपरिज्ञेयस्य ग्रहोपरागादिज्ञानस्य प्रकाशनं यत्किञ्चिदेतत् अत एव तव श्रुतं बहुविषयत्वेन महोदधिरिव। तानि वचनानि कदाचिद् गुरोविंगलिता तद्विन्दुनिस्यन्दा एव, भवन्ति च समुद्रोपकण्ठभूमिषु मृदुपवनप्रेढोलनतरङ्गतरङ्गाच्छीव रासारसम्पातजनिता निस्यन्दाः । इत्येक चत्वारिंशत्तमगाथार्थः ॥ ४१॥
हे० वि०-साम्प्रतं भगवत्सिद्धान्तमहोदधेः परसिद्धान्तानां(न्तेषु?) विभुत्वं प्रतिप दयन् स्तुतिमाह-(पावंति त्ति)।
यैः कैश्चित् वचनैः-वचोभिः परसमयाः-परसिद्धान्ताः यशः-कीर्ति प्राप्नुवन्ति । किंविध अपि ? असमञ्जसा अपि-अघटमानका अपि । ते किम् ? त्वत्समयमहोदधेः-भवत्सिद्धान्त जलधेर्मन्दा-अप्रकृष्टाः बिन्दुनिस्यन्दाः-बिन्दुलवा इत्यर्थः । किमुक्तं भवति ? न जिनमर व्यतिरेकेण अन्यत् किञ्चिदस्ति ज्ञानमिति गर्भार्थः ॥ ४१॥
1 'माविष्करोति' इति प्रतिभाति ।
Jain Education International
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org