________________
૧૨૦ રષભ પંચાશિકા.
[श्रोधनपालसामान्यमवान्तरसामान्यानि च द्रव्यत्व-गुणत्व-कर्मत्वादीनि । तथा अन्त्यविशेषानसाधारणरूपलक्षणानवान्तरविशेषांश्च घटादीन् अभिप्रेतीति नैगमयति ॥ छ ।
अधुना सङ्ग्रहाकूतमुपवर्णयामि-तत्र सङ्गह्णातीति समस्तविशेषप्रतिक्षेपद्वारेण सामान्यरूपतया सकलं वस्त्विति सङ्ग्रहः । अयं हि सत्तालक्षणं महासामान्यं समर्थयति, न स्तम्भेभकुम्भाम्भोरुहादीन् विशेषानिति सङ्ग्रहः ॥ छ॥
साम्प्रतं व्यवहाराभिप्राय उच्यते-व्यवह्रियते लौकिकैरनेनाभिप्रायेणेति व्यवहारः। अयं तु मन्यते यदेव लोकव्यवहारपथमवतरति जलाद्याहरणसमर्थ घटादिकं तदेव पारमार्थिकं वस्तु, न सामान्यं अन्त्यविशेषा वा पारमार्थिका इति व्यवहारः॥ छ ।
साम्प्रतं ऋजुसूत्राभिप्रायः कथ्यते-तत्र अतीतस्य विनष्टत्वात् अनागतस्य अलब्धात्मलाभत्वात् खरविषाणादिभ्योऽवशिष्यमाणतया नार्थक्रियानिवर्तनक्षमत्वमर्थक्रियाक्षमं च वस्तु तदभावात् तयोर्न वस्तुत्वं (इति) ऋजुसूत्रः । तदिदमर्थस्वरूपनिरूपण निपुणानां मतमुपवर्णितम् ।
अधुना शब्दद्वारकाणां मतमुपवर्ण्यते । इदं साधारणमाकूतं यदुत शब्द एव परमार्थः, नार्थः, तस्य तत्प्रतीतौ प्रतीयमानत्वात् स्वरूपवदिति ॥ छ ।
साम्प्रतं प्रत्येकमतं कथ्यते-तत्र शब्द्यते-आहूयते अनेनाभिप्रायेणार्थः इति शब्दः। अयं हि मन्यते रूढितो यावन्तो ध्वनयः कस्मिंश्चिदर्थे प्रवर्तन्ते यथा इन्द्र-शक-पुरन्दरादयस्तेषामपि एकोऽर्थो वाच्य इति ॥ छ ।
साम्प्रतं समभिरूढमतमुच्यते-सम्-एकीभावेन ह्युत्पत्तिनिमित्तमास्कन्दयति शब्दप्रवृत्तौ योऽभिप्रायः स समभिरूढः । अयं हि पर्यायशब्दानां प्रतिविभक्तमेवार्थमभिगम्यते। तद्यथा-इन्दनादिन्द्रः, शकनात् शक्रः, पूर्दारयतीति पुरन्दरः॥ छ ।
साम्प्रतं एवम्भूताभिप्रायः प्रतिपाद्यते । तत्र एवंशब्दः प्रकारवचनः, ततश्चैवम्-यथा व्युत्पादितस्तं प्रकारं भूतः-प्राप्तो योऽभिप्रायः स एवम्भूतः । अयं हि यस्मिन्नर्थे शब्दो व्युत्पाद्यते स व्युत्पत्तिनिमित्तमर्थो यदैव विवर्तते तदैव तं शब्दं प्रवर्तमानमभिप्रैति, न सामान्येन । यथोदकाद्याहरणवेलायां योषिदादिमस्तकारूढो विशिष्टचेष्टावानेव घटोऽभिधीयते, न शेषः, घटशब्दव्युत्पत्तिनिमित्तशून्यत्वात् पटादिवदिति ॥ छ । ___एतावभिप्रेत्य धर्म समर्थयन्तः। शेषधर्मस्वीकारतिरस्कारपरिहारद्वारेण प्रवर्तमाना नया भण्यन्ते । यदा तु सावधारणाः सन्तः वस्तु समर्थयन्ति तदा दुर्णयतां भजन्ते । दुर्णयत्वं च यथा भवति तथा ग्रन्थगौरवभयादस्माभिर्नोच्यते ग्रन्थान्तराद् विज्ञेयमिति कृतं विस्तरेण । प्रकृतं प्रस्तुमः ॥ ४०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org