________________
विरचिता]
ऋषभपञ्चाशिका. "दोहि वि नएहि नीअं सत्थमुलूएण तहवि मिच्छत्तं । जं सविसयप्पहाणत्तणेण अन्नुन्ननिरविक्खं ॥१॥” ति
__ -विशेषावश्यके (गा० २१९५) अत्रोपमामाह-नयाः क इव ? महागय व-महागजा इव भद्रजातीयत्वेन मदमन्थरगमनाः सांयुगीनाः प्रधानदन्तिन इव, तथा विधत्ते विपक्षप्रतिपन्थिनामनीकमेकहेलया प्रवृत्ताः क्षणेन हतविग्रहमेव पश्चान्मुखं विक्षिपन्ति । किंविशिष्टाः सन्तः ? वाईहिं ति वाजिभिः-तुरङ्गमैः परिगृहीताः-कृतपरिक्षेपाः । विधीयते हि समितिभूमिषु मंत्तानां गजानां तथाविधातिगूढाभिमर्मर(?)प्रहारपरिहारतुरङ्गमपूरैः परिक्षेपः । इति चत्वारिंशत्तमगाथार्थः ॥ ४०॥ हे० वि०-इदानीं नयप्रभावप्रतिपादनद्वारेण स्तवमाह-(वाईहिं ति)। हे नाथ! तव नयाः नैगमसङ्ग्रहरव्यवहार३ऋजुसूत्र४शब्द५समभिरूढ६एवम्भूत७रूपाः क्षणेन-स्तोककालेन कुर्वन्ति विमुखं-परामुखं प्रतिपक्ष-विपक्षं, नयवादाम्भोधेदुरवगाहत्वात् । क इवेत्याह-महागजा इव-प्रधानद्विपा इव । किंविधा नयाः? किंविधा महागजाः इति श्लेषमाह-वादिभिः-वचनकुशलैः परिगृहीताः-परिवारिताः, महाग. जास्तु वाजिभिः-तुरङ्गमैः, तथाऽन्योन्यसंलग्नाः-परस्परं मिलिताः, मिथः सापेक्षा इत्यर्थः । अयमत्र भावार्थः-कैश्चित् कुवासनाग्रहग्रस्तैरयःशलाकाकल्पा नया अभ्युपगताः । जैनैश्च पुनः सर्वनयसमूहमयं जिनमतमिति प्रतिपन्नम् । तस्मात् युक्तमन्योन्यसंलग्ना इति विशेषणमिति । साम्प्रतं प्रसङ्गागतमिति सङ्क्षिप्तरुचिविनेयानुग्रहाय लेशतो नयस्वरूपमुपवर्णयामः। तत्रानन्तधर्मात्मकं वस्तु स्वमतविशिष्टं नयन्ति-गोचरयन्ति संवेदनं समारोपयन्ति इति नयाः, वस्त्वेकदेशपरामर्शा इत्यर्थः । तथा चोक्तं (श्रीसिद्धसेनदिवाकरैः)“एकदेशविशिष्टोऽर्थो, नयस्य विषयो मतः”
-न्यायावतारे (श्लो० २९) इति । ते च अनन्तधर्माध्यासितत्वात् वस्तुनोऽनन्ताः। तथापि सर्वत्र प्रसिद्धत्वात् सप्त भेदा वर्ण्यन्ते, अन्येषां तेष्वेवान्तर्भावात् । तत्रापि चत्वारोऽर्थसमर्थकाः त्रयश्च शब्दद्वारकाः इति । साम्प्रतं एकैकमतमुपवर्णयामि(मः) । नैगमास्तावत् विचार्यन्ते । निगम्यन्ते-विविक्तं परिच्छिद्यन्ते इति निगमाः घटादयोऽर्थास्तेषु भवो नैगम इति । अयं हि सत्तालक्षणमाह
१ छाया
द्वाभ्यामपि नयाभ्यां नीतं शास्त्रमुलूकेन तथापि मिथ्यात्वम् ।
यत् स्वविषयप्रधानत्वेन अन्योन्यनिरपेक्षम् ॥ २ मतङ्गजानां' इत्यपि पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org