________________
૧૧૮ ષભપંચાશિકા
[श्रीधनपालनयाः क्षणेन विपक्षं विमुखं करंति-कुर्वन्तीति योगः। तेन नीयते-गम्यते प्रमाणप्रतिपन्नस्य वस्तुनो घटादेविषयीक्रियते तदितरांशानपेक्षेण येन परामर्शविशेषेण प्रतिपत्तुरभिप्रायविशेषेणांशः सदादिमयः स च व्यासतोऽनेकविकल्पः, समासतो द्वेधा-द्रव्यार्थिकः पर्यायार्थिकश्च । द्रव्यमेव वस्तु, न पर्यायाः, तेषां तन्मतेनावस्तुत्वात् । अत एव द्रव्याण्यर्थोsस्येति द्रव्यार्थिकोऽयमुच्यते । पर्यायनयस्य तु पर्याया एव वस्तु, न द्रव्यं, तस्य तन्मतेनावस्तुत्वात् । अत एव पर्याया अर्थोऽस्येति पर्यायार्थिकोऽसावुच्यते । यदाहुः परमर्षयः
"तित्थयरवयणसंगहसविसेसपत्थारमूलवायरणी। दवढिओ अ पजवणओ असेसा विगप्पा सिं ॥१॥"
-सम्मतितके (गा० ३) तत्र द्रव्यार्थिकस्त्रिधा-नैगमः, सङ्ग्रहो, व्यवहारश्च । तत्र नैके गमा-अवबोधमार्गा यस्य स निपातनान्नैगमः । तथा अशेषविशेषरहितं सत्त्वद्रव्यत्वादिकं सामान्यमानं यः सङ्गहाति स सङ्ग्रहः । तथा सहीतान् सत्त्वद्रव्यादीनान् विधाय न तु निषिध्य यः परामर्शविशेषस्तानेव विभजते स व्यवहारः। द्वितीयः पर्यायार्थिकः पुनश्चतुर्धा-ऋजुसूत्रः, शब्दः, समभिरूढः, एवम्भूतश्च । तत्र ऋजु-अतीतानागतकालक्षणकौटिल्यवैकल्यात् प्राञ्जलं सूत्रयति योऽभिप्रायः स ऋजुसूत्रः । तथा काल-कारक-लिङ्ग सङ्ख्या-पुरुषो-पसर्गभेदेन ध्वनेरर्थभेदो यः प्रतिपद्यते स शब्दः । तथा पर्यायशब्देषु व्युत्पत्तिभेदेन भिन्नमर्थं यः समभिरोहति स समभिरूढः । तथा यः शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियाविष्टमर्थ (शब्द) वाऽनन्यत्वेनाभ्युपगच्छति स एवम्भूतः। एवममी सर्वेऽपि समुदिता नैगमादयः सप्त महानया येषामेकैकस्यैकैकं शतमनुगामिनां नयानाम् । इह वचननिर्णयप्रस्तावे बहु वक्तव्यं तच्च ग्रन्थगौरवभीरुभिर्नादृतम् । तत एते त्वत्प्रवचनान्तःपातिनो नयाः क्षणात् विपक्षवैमुख्यमारचयन्ति । किंविशिष्टाः सन्तः ? वाईहिं ति-वादिभिः परिगृहीताः सहजनिजप्रज्ञाऽवज्ञातवाचस्पतिमतिविभवैस्तथाविधाद्भुतवादलब्धिसम्पन्नादिभिः परिगृहीताः स्वपक्षाविपक्ष स्थापनेन परपक्ष विपक्ष] विक्षेपाय प्रयुक्ताः । एवंविधाश्च ते किं कुर्वन्तीति अत आह-कुणंति विमुहं ति प्रतिपक्षं साङ्ख्य-सौगतादिकुतीथिसार्थ क्षणेन-अक्षेपेण विमुहं-विमुखं विगलितप्रतिभाप्रागभारत्वेन वादकथापराअखं कुणंति-कुर्वन्ति । पुनः किंविशिष्टास्ते नयाः ? अनुन्नसंलग्गा-अन्योन्यसंलग्नाः, परस्परं कार्यकरणप्रवीणाः । अन्योन्यनिरपेक्षत्वे तु तेषां दुर्नयत्वमेव स्यात् । यदुक्तं परमर्षिभिः
१ आचार्यवर्यश्रीसिद्धसेनदिवाकराः। २ छाया
तीर्थकरवचनसाहसविशेषप्रस्तारमूलव्याकरणी। द्रव्यास्तिकश्च पर्यवनयश्च अशेषा विकल्पाः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org