________________
wભપંચાશિકા,
[श्रीधनपालसाम्प्रतं भगवद्वचनस्यैव प्रभावातिशयमाहमिच्छत्तविसपसुत्ता, सचेयणा जिण! न इंति किं जीवा? । कण्णम्मि कमइ जइ कि-त्तिअंपि तुह वयणमन्तस्स ॥ ३८॥ [मिथ्यात्वविषप्रसुप्ताः सचेतना जिन! न भवन्ति किं जीवाः ।
कर्णयोः कामति यदि कियदपि तव वचनमन्त्रस्य ॥] प्र० वृ०-मिच्छत्तत्ति। हे जिन!-जितरागद्वेष! अमी जीवाः-प्राणिनः सचेतनाः-सचेतसः समस्तहेयोपादेयादिविचारचातुरीधुरीणबुद्धयः किं न भवेयुरिति योगः। अथ कथममी प्रथमचेतसः (सचेतसः) सञ्जातास्तदाह-मिच्छत्तत्ति । तत्र मिथ्याऽवबोधो मिथ्या तस्य भावो मिथ्यात्वं तदेव सम्यग्बोधचैतन्यापहारकारित्वेन विषमिव विषं तेन प्रसुप्ता-विगलितसंवेदनाः यदि किं स्युः अत आह-कण्णम्मि त्ति । यदि तेषां मिथ्यात्वविषप्रसुप्तानां कण्णम्मि-कर्णे कमइ-क्रामति सङ्क्रामति, प्रविशतीति यावत् । किं तत् ? तव प्रवचनं-द्वादशाङ्गीप्रवचनं तदेव रागादिगरलबलदलनकलितत्वेन मन्त्र इव मन्त्रस्तस्य कित्तिअंपि-कियन्मात्रमपि, पदमात्रमपीत्यर्थः । इयमत्र भावना-तावदेव देहिनो मिथ्यावासनावासितचेतसः कृत्याकृत्यविचारे विपरीयन्ति यावद् भगवदुपदेशमन्त्रस्य लेशोऽपि श्रुतियुगले न स्खलितः। प्रविष्टे तु श्रुतिपदं पदमात्रेऽपि भगवत्प्रवचनस्य कस्य नाम चिलातीतनयस्येव भृशं (दुष्ट)चरित्रस्यापि । तस्यापि न सावधवासनाविगमेनोपशमरसः स्फुरति ?। अथवाऽन्येऽपि विषवेगमूर्च्छया प्रसुप्ता भवन्ति तेषां कर्णे यदि गारुडशास्त्रप्रणीतसंस्फुरन्मन्त्रपदानां द्वित्राण्यक्षराणि प्रविशन्ति तदा तदैव ते सचेतनाः-चलनस्पन्दनादिचेष्टावन्तः के न सम्पद्यन्ते । अपि तु भवन्त्येव ॥ इति अष्टत्रिंशत्तमगाथार्थः ॥ ३८॥
हे० वि०-साम्प्रतं भगवद्वाचो मन्त्रशक्तिविधानेन स्तवमाह-(मिच्छत्त त्ति)। गमनिका हे जिन ! मिथ्यात्वविषप्रसुप्ताः-विपरीतार्थश्रद्धानगराघाताः सचेतनाःचैतन्ययुक्ताः किं न भवन्ति ?-न सम्पद्यन्ते ? । अपि तु भवन्त्येवेत्यभिप्रायः। यदि किम् ? यदि कामति-प्रविशति । किम् ? यदपि स्तोकमपि-किमपि। कस्य सम्बन्धि ? त्वद्धचनमन्त्रस्य । किमुक्तं भवति ? यथा विषेण व्याप्तोऽपि कश्चिजीवो विशिष्टमन्त्रेण निर्विषो भवति, तथा मिथ्यात्वव्याप्तोऽपि जीवो भगवद्वचनेन मिथ्यात्वरहितो भवति । इति परमार्थः॥ ३८॥
१ 'कन्नम्मि' इति पाठान्तरम् । २ 'कथं ममाप्रथमचेतसः सजा.' इत्यपि पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org