________________
१०० ઋષભપંચાશિકા.
[श्रीधनपालये त्वव्यवहारिकराशिमध्यगतत्वेन सर्वथैव मार्गमात्रस्याप्यनभिज्ञा निगोदजीवास्तेषां स्वरूपमाह
अवहीरिआ तए पहु!, निंति निओगिकसंखलाबद्धा । कालमणंतं सत्ता, समं कयाहारनीहारा ॥ ३३ ॥ [अवधीरितास्त्वया प्रभो! नयन्ति निगोदैकशृङ्खलाबद्धाः।
कालमनन्तं सत्त्वाः समं कृताहारनीहाराः ॥] प्र. वृ०-अवहीरअ त्ति। हे प्रभो!-भुवनस्वामिन् ! त्वदवधीरिताः सत्त्वा अनन्तकालं प्रस्तावात् निगोदेषु नयन्तीति सण्टङ्कः । तत्रावधीरिताः-अवगणिताः। केन? त्वया । भगवदवधीरणा च तेषां सामग्रीसाकल्येनैव धर्मोपदेशादिप्रसाददानस्य कदाचिदप्यविषयीकृतत्वम्(त्वात् ?) । किंविशिष्टाः सन्तः? निओगिकत्ति । निगोदैकशृङ्खलाबद्धाः निगोदरूपिणी या एका-संलग्ना शृङ्खला तया निबद्धा-निबिडनियन्त्रिताः। निगोदाः-आगमप्रसिद्धाश्चतुर्दशरज्वात्मकलोकवर्तिनोऽसङ्ख्येया अनन्तजन्त्वाधाराः शरीरविशेषा एव तद्वर्तिनो जन्तवः परमसूक्ष्माः परस्परं सुश्लिष्टा निशातैरपि शस्त्रैश्छेदयितुं, विपुलैरपि सलिलैः प्लावयितुं, प्रहुते(दीप्ते)नापि हुतभुजा भस्मीकर्तुं अशक्याः तथा स्वाभाव्यादेवोच्छासनिःश्वासमात्रकालान्तराले साधिकसप्तदशभवग्रहणप्रवणाः, केवलं केवलिदृश्या एव स्युः । पुनः किंविशिष्टाः? समं कयत्ति । तथा स्थितिसद्भावात् समम्-एककालं वा कृतावाहारानीहारौ यैस्ते तथा । उच्छासनिःश्वासयोरुपलक्षणं चैतत् । एवं च ते कियन्तं कालम् ? अनन्तं, अनन्तान् पुद्गलपरावतोनित्यर्थः । तथाविधाश्च ते कथं भगवदुपदेशयोग्याः? अवधीरणाऽप्यत एव तेषाम् । अथवा अन्येऽपि ये नियोगिप्रमुखाः प्रभुणा राज्ञा तथाविधापराधवशादवगणिता भवन्ति तेऽपि परापरापराधिसंघट्टसण्टङ्केष्वपि निगोदप्रायेषु गुप्तिगृहेषु पतितास्तथाविधाऽयोमयैकशृङ्खलानिबिडनिगडिताः समकालकृताहारनीहाराश्च प्रभूतं कालं गमयन्ति । इति त्रयस्त्रिंशत्तमगाथार्थः ॥ ३३ ॥ हे० वि०-अधुना भगवदनादरदुःखकथनमुखेन स्तुतिमाह-(अवहीरिअ त्ति)।
हे प्रभो!-स्वामिन् ! त्वया-भवता अवधीरिता-अवज्ञाताः सत्त्वाः-प्राणिनो नयन्तिगमयन्ति । कम्? कालम् । कियन्तम्-अनन्तम् । किंविधाः सन्तः? 'निगोदैकशृङ्खलाबद्धाः' निगोदानामेका चासौ शृङ्खला च निगोदैकशृङ्खला तया बद्धाः-क्रोडीकृताः, यद्वा त एव शृङ्खला तया बद्धाः । पुनः किंविधाः ? समम्-एककालं कृतौ आहारनीहारौ यैस्ते तथाविधाः । ननु भगवतः किं समस्त्यवज्ञाकरणं सत्त्वेषु येनेदमुच्यते? नैव, परं ये पुलकितगात्रा भगवन्तं नावलोकयन्ति ते भगवतावधीरिता भण्यन्ते ॥ इति तात्पर्यार्थः॥३३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org