________________
બષભપંચાશિકા.
[श्रीधनपाल' અર્થાત્ (જે જીવ) ઈસમિતિરૂપ ઉપયોગ પૂર્વક ચાલે, ઉપયોગ પૂર્વક ઊઠે, ઉપયોગ પૂર્વક બેસે, ઉપયોગ પૂર્વક સૂવે અર્થાત્ કામોદ્દીપક શય્યાને ત્યાગ કરે, યતના પૂર્વક ભોજન કરે (નહિ કે માદક પદાર્થો ખાય) અને સંભાળ પૂર્વક બોલે, તો તે પાપ-કર્મ બાંધતો નથી એટલે કે તે સત્વર મોક્ષ પ્રાપ્ત કરે છે.
एवं तावद् भगवन्मार्गानुगमनेन शिवसुखान्वेषिणां क्रमेण तद्योग्यताभिहिता । साम्प्रतं भगवदर्शनमात्रेणैव यद् भवति तदाह
सारि व बंधवहमरणभाइणो जिण! न हुंति पइं दिट्टे । अक्खेहिं वि हीरंता, जीवा संसारफलयम्मि ॥ ३२ ॥ [शारय इव बन्ध-वध-मरणभागिनो जिन! न भवन्ति त्वयि दृष्टे ।
अक्षैरपि हियमाणा जीवाः संसारफलके ॥] प्र०वृ०-सारि बत्ति । हे जिन! रागादिजयनशील! स्वामिन् ! अमी जीवाः त्वयि दृष्टे बन्धवधमरणभागिनो न भवन्ति। तत्र बन्धो रज्वादिभिः, वधो लकुटादिभिः, मरणं-प्राणच्यावः, बन्धश्च वधश्च मरणं चेत्यादि द्वन्द्वः। एतद्भाजनं जीवा न भवन्ति । क सति? त्वयि (दृष्टे, त्वयि) देवत्वबुद्धावारोपितायामित्यर्थः। किंविशिष्टा जीवा? 'अक्खेहिं वि हीरन्ता' अक्षैः-इन्द्रियैः, अपिशब्दस्य भिन्नक्रमत्वात् हियमाणा अपि-कृष्यमाणा अपि । क? 'संसारफलयम्मि' संसार एव चतुरन्तत्वात् फलक इव फलकस्तस्मिन् । इह च बन्धवधमरणानि यद्यपि मनुष्यजातावपि सम्भवन्ति तथापि तिर्यगादियोनिसम्बन्धीन्येव गृह्यन्ते । इतरग्रहणे को दोष इति चेत् , उच्यते-अत्रैव पूर्वापरविरोधः स्यात् । कथमिति चेदुच्यते-पश्य च । इह किल भाविभद्राणां भव्यप्राणिनां भगवति विशुद्धा देवत्वबुद्धिः परमार्थतो भगवदर्शनमभिधीयते सैव च सम्यक्त्वम् । तन्मात्रेण च नरकतिर्यग्गती परं निरुध्येते, न तु देवमनुष्यगती अपि । तथा च गाथोत्तरार्धे अक्षैः-इन्द्रियैः संसारफलके हियमाणा अपि-मनुष्यदेवादिगतिषु भ्राम्यमाणा अपीत्युक्तम् । अतः कथं सम्यक्त्वाङ्गीकारेण मनुष्यदेवादिगतिसम्बन्धिवधबन्धादिनिरासः? तियेनरकगतिसम्बन्धिनां तु वधबन्धादीनामङ्गीकृतसम्यक्त्वानामयुक्तता एव । तथा च धर्मदासगणिः
"सम्मत्तम्मि उ लद्धे, ठइयाई नरयतिरिअदाराई। दिवाणि माणुसाणि य, मुक्खसुहाई सहीणाई ॥१॥"-आर्या
-(उपदेशमालायां गा० २७०)
१छाया
सम्यक्त्वे तु लब्धे स्थगितानि नरकतिर्यग्द्वाराणि । दिव्यानि मानुषाणि च मोक्षसुखानि स्वाधीनानि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org