________________
विरचिता]
ऋषभपश्चाशिका. तदेकतानत्वेन दत्तावधानाः। यदि पुनस्ते मार्गमुखा एव भविष्यन्तीत्यत आह । बुधाः 'बुध अवगमने' (पा०धा० ८५८) बुध्यन्ते-अवगच्छन्ति यथाऽवस्थिततया तत्त्वमिति बुधा-विद्वांसःसिवसुहाई-मोक्षसुखानि गवेषयन्ति। इयमत्र भावना-किल यएव तथाविधं किमप्यद्भुतं प्रयोजनमचिरेण साधयन्ति त एव प्रयोजनार्थिभिरभिगम्यन्ते, इह तु वैपरीत्यम् । ये किलाक्षेपेण मोक्षं नयन्ति शाक्यादयस्तानपहाय प्रत्युत तद्विलक्षणं भवन्तं विद्वांस आश्रयन्ति । अथ च य एव त्वत्प्रवचनाश्रिता निःश्रेयससुखान्यभिलषन्ति त एव तत्त्वतस्तत्त्वज्ञाः। शाक्यादीनां तु परमार्थतः स्वयममुक्तत्वेन तन्मार्गलग्नानां परेषां मोक्षसम्भवः कथम् ? येन [चाति]दुःखतरेण क्रियाकाण्डताण्डवेन तैमुक्तिरभिहिता तेनैव चेत् स्यात् , ततः को नाम न निवृत्तिमुपेयात् ? । तथाहि सौगतमतानुगतानां पश्य कीदृशी अक्लेशसाध्या मुक्तिः
"मृद्वी शय्या प्रातरुत्थाय पेया, मध्ये भक्तं पानकं चापराह्ने।
द्राक्षाखण्डं शर्करा चार्धरात्रौ, मोक्षश्चान्ते शाक्यसिंहेन दृष्टः॥१॥" इयं साङ्ख्यादीनामपि मुक्तिप्रस्तावे बहु वक्तव्यं तदिह ग्रन्थगौरवभयानोक्तम् । सोऽयं लीलया मोक्षनयनप्रकारः परेषाम् । एवंविधे चास्मिन् रजःपर्वराज्याभिषेक इव केवलपरिहासमात्रफले कथं मनीषिणां मनो रज्यतां नाम ? । अतः स्थाने क्लेशावेशसाध्यान्यपि सर्वज्ञोपज्ञतत्त्वेषु तान्यपि शिवसुखानि त्वन्मार्गलग्ना एव विपश्चितः प्रार्थयन्ते । इति एकत्रिंशत्तमगाथार्थः ॥ ३१ ॥ हे० वि०-साम्प्रतं भगवदुक्तक्रियादुष्करताकथनेन स्तवमाह-(लीलाइत्ति)
हे नाथ! लीलया-हेलया नयन्ति-प्रापयन्ति मोक्ष-शिवं अन्ये-हरिहरादिसम्बधिनस्तीर्थिकाः, तथा न त्वं, कष्टसाध्यत्वात् त्वक्रियानुष्ठानस्य । यद्यप्येवं तथापि तव मार्गलग्ना-भवन्मार्गस्थिताः मृगयन्ति-निभालयन्ति बुधा-अवगततत्त्वाः । कानीत्याहशिवसौख्यानि-मोक्षकल्याणानि । किमुक्तं भवति? ये बालिशास्ते तत्र लग्नाः नावगततत्त्वाः । निन्दाद्वारेण स्तुतिरियम् ॥ इति गाथार्थः ॥ ३१॥
શબ્દાથે लीलाइ ( लीलया )=ीसापूर्व, मनायासे.
तुह (तव)-तारा. निति (नयन्ति) नय छे.
मग्ग (मार्ग )=भाग, २स्तो. मुक्खं (मोक्ष)-मोक्षे.
लग्ग (लग्न) दादा, डायस, अन्ने (अन्ये )=मीन.
मग्गलग्गामार्ग बागेसा. जह (यथा)-म. तिथिआ (तीर्थिकाः )-तार्थिी, शनारी.
मग्गंति (मृगयन्ते ) गवेषे छ, शोधे छे. तहा (तथा )=तम.
बुहा (बुधाः) वियक्ष नो, या माणुसो. न (न)-नलि.
सिव (शिव) मोक्ष. सुमं (त्वं )-तुं.
सुह (सुख)-सुभ. तहवि (तथापि )=तोप.
सिवसुहाई-मोक्षनां सुमोन. . 'मातृमुखा' इति पाठान्तरम् । २ 'भावार्थः' इति पाठान्तरम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org