________________
विरचिता ]
पपश्चाशिका.
૩
तत्रोर्ध्व-स्वर्गादिषु अधः- तिर्यगूनरकादिषु । क्व सति । तव प्रवचने पूर्वोक्तस्वरूपे गृहीतेज्ञानश्रद्धानानुष्ठानैः सम्यगासेविते सति उहुं-ऊर्ध्वं तथाविधशुभसंसारसुलभेषु स्वर्गादिषु जीवा यान्ति । तस्मिन्नेव पूर्वोक्तवैपरीत्येन विमुकम्मि-विमुक्ते अहो - अधो गच्छन्ति, लेशतोऽप्यपरिशीलिते हि भगवदुपदेशे तथाविधयतित्वमप्याप्ताः, किन्तु दैववशादासाद्य पुनर्दुष्कर्मनिर्मन्थिताः परित्यजन्ति । तेषां पुनः का गतिरित्याह- इयं तावदेकान्ततः परित्यक्तभगवत्प्रवचनानां गतिरुक्ता । साम्प्रतमन्वयव्यतिरेकाभ्यां भगवत्प्रवचनाङ्गीकारपरिहारयोः फलं प्रतिपिपादयिषुराह - धर्मशुक्लध्यानाधीनचेतसामसुम तामसत्यजीवहिंसापरिमितपरिग्रहादिविमुक्तानां सुलभाः स्वर्गादिगतयः, आर्तरौद्रवासनावासितचेतसामसुमतां मायामृषादिभिः पञ्चेन्द्रियवधपिशिताशनापरिमितपरिग्रहादिभिश्च सुलभाः तिर्यग्नरका - दिगतयः । अत्रैवोपमामाह- किंविशिष्टा जीवाः ? कूवयरहट्टत्ति । तत्र कूपः - अवटस्तस्मिन् अरघट्टः काष्ठघटितः सलिलोदञ्चनयन्त्रं तत्र घटीमाला मृन्मयाः प्रणीता एव तत्सन्निभाःतुल्याः । क्व सति ? सलिले गृहीते विमुक्ते च । अयमर्थः - यथा ताः सलिले गृहीते ऊर्ध्वकूपस्योपरितमं प्रदेशं तत्र तथा यन्त्रप्रयोगात् प्राप्नुवन्ति तस्मिन्नेव सलिले परित्यक्ते अधःकूपस्यैवान्तराले व्रजन्ति तद्वत् । अत्र च पानीयप्रवचनयोः कूपारघट्टघटीजीवानां च परस्परमुपमानोपमेयता । इति त्रिंशत्तमगाथार्थः ॥ ३० ॥
हे० वि० - साम्प्रतं भगवत्प्रवचनगृहीतमुक्तगुणोत्त ( णान्त ) रकथनमुखेन श्लाघामाह( सलिलि बत्ति ) । गमनिका -
हे नाथ ! सलिल इव प्रवचने - आचाराङ्गादिभेदभिन्ने तव सम्बन्धिनि गृहीतेकक्षीकृते जीवाः - जन्तवः ऊर्ध्वम् - उपरिभागे गच्छन्ति - व्रजन्ति, विमुक्ते त्वधो - न्यक् गच्छन्ति । किंविधा जीवाः ? 'कूपारहट्टघटीसन्निभाः । कोऽर्थः ? यथा कूपारघट्टघट्यो या जलं गृह्णन्ति ता ऊर्ध्वं व्रजन्ति, याश्च मुञ्चन्ति ता अधो यान्ति, तथा जीवा अपि प्रवचने गृहीते सति मुक्के च द्रष्टव्या इत्युपदेशः ॥ ३० ॥
શબ્દાર્થ
सलिले ( सलिले) = ४.
EET (9)=024.
पवणे ( प्रवचने) = प्रवथन, सिद्धान्त.
तुह (तव ) = तारो.
गहिए (गृहीते ) = ड रेस.
उहुं (ऊर्ध्व )=अथे.
अहो (अधः ) = नये.
विमुक्कम्मि ( विमुक्ते ) = छोटी हीधेस. वयंति ( व्रजन्ति ) = Mय छे.
Jain Education International
नाह ! ( नाथ ! ) = डे स्वाभी।
कूचय (कूपक) = पो.
अरहट्ट ( अरघ ) = मरघट्ट, रेंट, हुवामांथी पाणी आढ
વાનું યંત્ર.
घडि (घटी ) = नानो घडो, नानी गागर. संनिह (सन्निभ ) = सभान, तुझ्य कृवयरहट्टघडिसंनिहा - हुवानी गरघट्टना
समान.
| जीवा ( जीवाः ) = वो, प्राणीओ.
For Private & Personal Use Only
ઘડાના
www.jainelibrary.org