________________
विरचिता]
ऋषभपञ्चाशिका. પહ ન કરતાં તેના જિજ્ઞાસુને શ્રીવીર-ભક્તામરના ૧૪ મા પદ્યનું સ્પષ્ટીકરણ (પૃ. ૩ર૩૭) જેવા ભલામણ કરે છે.
तुह समयसरब्भट्ठा, भमंति सयलासु रुक्खजाईसु । सारणिजलं व जीवा, ठाणटाणेसु बज्झंता ॥ २९ ॥ [तव समयसरोभ्रष्टा भ्राम्यन्ति सकलासु रूक्षजातिषु ।
सारणिजलमिव जीवाः स्थानस्थानेषु बध्यमानाः ॥] प्र० वृ०-तुह समयत्ति । हे भुवनभानो! भगवन्! जीवाः सकलास्वपि रूक्षजातिषु भ्राम्यन्तीति सण्टङ्कः । जीवाः । 'जीव प्राणधारणे (पा० धा० ५६२) जीवन्ति-देशविधप्राणान् धारयन्तीति जीवाः । तथा रुक्खजाईसु । 'जनी प्रादुर्भावे' (पा० धा० ११४९) जायन्ते-प्रादुर्भवन्ति प्राणिनः एतास्विति जातयो-योनयः पृथिवीकायाद्याः रूक्षा:-ककेशाः क्लेशावेशवैशसविश्रामनपराः, रूक्षाश्च ता जातयश्च रूक्षजातयस्तासु । कतिसङ्ख्योपेतासु ? सकलासु-चतुरशीतिलक्षप्रमाणासु । किंविशिष्टा जीवाः? तुह समयत्ति । तव सम्बन्धी यः समयः-सिद्धान्तः स एव स्वादुः सुन्दरोपदेशामृतपूरपूरितत्वेन तत्तदतिशयकुशेशयसहस्रशोभितत्वेन च सर इव सरः तस्माद् भ्रष्टा-बहिर्भूताः । कुतोऽपि पुण्ययोगात् तं प्राप्यापि परिपतितपरिणामत्वेन सर्वथैव तद्गन्धमात्रेणापि वन्ध्याः । पुनः किंविशिष्टाः सन्तः? ठाणट्ठाणेसुत्ति, स्थानस्थानेषु-योनिषु बध्यमानाः नागपाशैरिव निगडनिकाचितैः प्रस्तावात् कर्मभिः श्लेष्यमाणाः, भवे भवे नवं नवं कर्मराशिमर्जयन्त इत्यर्थः । सुकरो हि सर्वासु चेष्टासु भगवदुपदेशवन्ध्यैः कर्मबन्धः । उपमामाह-जीवाः किमिव भ्राम्यन्ति ? सारि(र)णिजलं व-कुल्याजलमिव । कुतोऽपि तथाविधागाधतडागात्-तटाकात् केनचिदवतारेणोपवाहितं (जलं) सकलासु नागपुन्नागतिलकचम्पकाशोकबकुलसहकारादिषु वृक्षजातिएं भ्राम्यति । किंविशिष्टं सत्? स्थानेषु स्थानेषु आलवालेषु बध्यमानमेकस्मिन् पूरितेऽन्यत्र सञ्चारणाय । अत्र च जीवानां सारणीजलेन रूक्षजातीनां वृक्षजात्या समयस्य सरसा सहोपमानोपमेयम् । इति एकोनविंशतितमगाथार्थः॥२९॥
हे० वि०-साम्प्रतं भगवत्सिद्धान्तभ्रष्टानां दोषकथनमुखेन स्तवमाह-(तुह समयत्ति)। हे नाथ! तव समयसरिभ्रष्टा-भवत्सिद्धान्तनदीविकला भ्रमन्ति-पर्यटन्ति । के ते? जीवाः-प्राणिनः । कासु? वृक्षजातिषु, हीनजातिष्वित्यर्थः । किमिवेत्याह-सारि(र)णिजलं व-कुल्यावारि इव । किंविधाः? बध्यमानाः। कर्मणेति गम्यते । केषु? स्थानस्थानेषु नर
१ सरित्ति पाठो विवरणकारमते इति प्रतिभाति । २ दश प्राणा:
"पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छवासनिःश्वासमथान्यदायुः ।
प्राणा दशैते भगवद्भिरक्ता-स्तेषां वियोजीकरणं तु हिंसा ॥" एतत् पद्यं साक्षिरूपेण निरदेशि श्रीमलयगिरिसूरिभिः जीवाजीवाभिगमवृत्तौ (पत्राङ्के १०३तमे)।
३ तच्चकायेव इत्यधिकः ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org