________________
विरचिता]
ऋषभपञ्चाशिका. पञ्चलकसायचोरे, सइसंनिहिआसिचक्कधणुरेहा । हुँति तुह चिअ चलणा, सरणं भीआण भवरन्ने ॥ २८ ॥ [प्रत्यलकषायचौरे सदासन्निहितासिचक्रधनूरेखौ ।
भवतस्तवैव चरणौ शरणं भीतानां भवारण्ये ॥] . प्र० वृ०-पच्चलत्ति । हे जगत्रयत्राणप्रवीण! भगवन् ! भवारण्ये भीतानां भवच्चरणावेव शरणम् । भव० इति, तत्र भव एवारण्यं भवारण्यं तस्मिन् भवारण्ये-संसारकान्तारे भीतानां देहिनां तवैव चरणौ-पादौ शरणं-त्राणस्थानम्, नान्यस्य । किंविशिष्टे भवारण्ये? पञ्चलत्ति । प्रत्यला-दक्षास्तथाविधवश्चनप्रपञ्चविपश्चितः कष्यन्ते-हिंस्यन्ते नरकादिगतिष्वात्मानोऽस्मिन्निति कषः-संसारः तस्य आयः-वृद्धिः येभ्यस्ते कषायास्त एव ज्ञानादिसर्वस्वापहरणत्वेन संयमजीवितव्यव्ययहेतुत्वेन च चौराः-तस्कराः यस्मिन् प्रत्यलकषायचौरे । किंविशिष्टौ तव चरणौ ? सइसन्निहिअत्ति । सदा-निरन्तरं सन्निहिताः-समीपस्थाः खड्गचक्रधनूरूपा रेखा ययोस्तौ । अयमर्थः-यथाऽरण्ये प्रत्यलचौरे आयुधवन्तः शरणं भवन्ति तथा भवारण्येऽपि । इति अष्टाविंशतितमगाथार्थः ॥२८॥ हे० वि०-इदानीं भगवञ्चरणशरणत्वविधानेन स्तुतिमाह-(पञ्चलत्ति)।
हे नाथ! भवारण्ये-संसारकान्तारे भीतानां देहिनां तवैव चरणौ शरणं-त्राणस्थानं भवतः, नान्यस्य । किंविधे भवारण्ये ? 'प्रत्यलकषायचौरे' प्रत्यलाः-समर्था ये कषायाःक्रोधादयस्त एव दुःखहेतुत्वात् चौराः-तस्करा यस्मिन् तत् तथा तस्मिन् । उक्तं च
"कम्मं कसं भवो वा कसमाओ सिंजओ कसाया ते । कसमाययंति व जओ गमयंति कसं कसायत्ति ॥१॥"
-(विशेषावश्यके गा० १२२८) तथा किंविधावित्याह-सदा-नियतं सन्निहिताः-समीपवर्तिनोऽसिचक्रधनूरूपा रेखा ययोस्तौ तथा । किमुक्तं भवति? यथाऽरण्ये प्रत्यलचौरे आयुधवन्तः शरणं भवन्ति, तथा भगवञ्चरणावपि ॥ इति गाथार्थः ॥ २८ ॥
શબ્દાર્થ पञ्चल (प्रत्यल) समर्थ, प्रमण.
|संनिहिअ ( सन्निहित )=समीपता, पासे २१. कसाय (कषाय)पाय.
असि (असि)-तरवार. चोर (चौर)-योर. पञ्चलकसायचोरे-समर्थ पाय३५ योर छनचक्क (चक्र)-य. વિષે એવા.
धणु (धनुस् )=धनुष्य. सइ ( सदा )-मेशi.
रेहा ( रेखा )-रेमा
૧ છાયા માટે જુઓ ૮૦ મું પૃષ્ઠ.
રૂષભ૦ ૧૨
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org