________________
२ - वृद्धिद्वारम् । चिन्ता - कर्ताऽधिकारी विशेषतः । [ गाथा-९
चैत्या-ऽऽदीन्= आदि-शब्दात्-चैत्य-प्रदेश-प्रमार्जना- 53ऽदि-ग्रहणम् । अथवा, + अन्यम्= चैत्या-ऽऽदि-परिचारक-देवा-ऽर्चक
प्राहरिका-ऽऽ'दिकम्, दुःस्थितम् स्व-स्व-व्यापारा-5-समर्थम्,
अल्पा-ऽऽ-जीविकया वा दुःखितं सन्तम्, चिन्तयेत् । देवा-ऽऽदि-द्रव्योद्ग्राहणीं तु सततम् चिन्तयेत्, यतः- देवा-ऽऽदि-द्रव्यस्याऽतिशयेन वृद्धिः स्यात् । वि-पक्षे दोषमाऽऽह :अन्यथा उक्त-चिन्ता-ऽ-भावे तु, उक्त-वृद्धि: नैव । इयमऽत्र भावना :
देव-गुर्वोः व्यवहारतः अर्हच्-छासनस्य मूलत्वात् पूर्वम् यथा-ऽवसरम् विवेकिना स-परिकर-चैत्य-चिन्ता कार्या । तत्राऽपि जीर्ण-चैत्योद्धार-विषया विशिष्ट-फल-दा । यदा-ऽऽह :अप्पा उद्धरिओ चि अ, उद्धरिओ तह य तेहिं णिय-वंसो । अण्णे य भव्व-सत्ता अणुमोअंताओ जिण-भवणं ॥१॥ खवियं णीया-गोयं, उच्चा-गोयं च बंधियं तेहिं । कु-गति-पहो णिविओ,सु-गइ-पहो अजिओ तह य ॥२॥
3 कचवरा-ऽस्थि-तन्तु-जाला-ऽऽध-पनयनेन विशोधनम् । 4 'आदि'-शब्दतः कर्म-कर-लेख्यक-वणिक्पुत्र-भण्डारि-ग्रहणम् । 5 ["चिन्ता" इति शेषः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org