________________
१०६
६ - प्रायश्चितद्वारम् । आलोचना-गुरुद्वारम् ।
[गाथा-५० "आयरिया०" ति, व्याख्यासाधुना श्राद्वेन वा,- नियमतः
प्रथमम् स्व-गच्छे आचार्यस्य, तद-ऽ-योगे उपा-ऽध्यायस्य, एवम् प्रवर्तिनः, स्थविरस्य गणा-ऽवच्छेदिनो वा
पुरतः आलोचनीयम् । + एवम् तद-5-भावे साम्भोगिके एक-सामाचारिके गच्छा-ऽन्तरे
आचार्या-ऽऽदि-क्रमेण आलोच्यम् । 1 तेषामऽ-भावे इतरस्मिन् अ-साम्भोगिके संविग्न-गच्छे, स एव
क्रमः। २ तेषामऽप्यऽ-भावे गीता-ऽर्थ-पार्श्व-स्थस्य पुरः ।
तद-ऽ-भावे गीता-ऽर्थ-सारूपिकस्य पुरतः । + तद-ऽ-भावे गीता-ऽर्थ-पश्चात्कृतस्य पुर आलोच्यम् ।
अत्र
सारूपिकः-शुक्ला-ऽम्बरः, मुण्डः, अ-बद्ध-कच्छः, रजो-हरणरहितः, अ-ब्रह्म-चर्यः अ-भार्यः, भिक्षा-ग्राही । सिद्ध-पुत्रस्तु-स-शिखः, स-भार्यः । पश्चात्कृतस्तु-त्यक्त-चारित्र-वेषो गृह-स्थः ।
ततः,
पार्श्व-स्था-ऽऽदेरऽपि गुरुवद् वन्दना-ऽऽदि-विधिः कार्यः,
विनय-मूलत्त्वाद् धर्मस्य । + यदि तु पार्श्व-स्था-ऽऽदिः स्वम् हीन-पुण्यं पश्यन् न वन्दनम्
कारयति,
तदा तस्य निषद्यामाऽऽरचय्य, 'प्रणाम-मात्रं कृत्वा,आलोच्यम्। 1. फिट्टा-वन्दनम् ।
[गणा-ऽवच्छेदिनो वा पुरत आलोचनीयम् । =] (નોંધઃ અહીં આ લખાણ બંધ બેસતું જણાતું નથી)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org