________________
७०
४ - गुण-द्वारम् । सागरश्रेष्ठि दृष्टांतः ।
[ गाथा-२३-२४
-
तथा हि, :
“ साकेत-पुरे सागर-श्रेष्ठी परमा-5ऽर्हतो वसति स्म । तस्मै सु-श्रावकत्वात् तत्रत्य-श्रावकैः सम्भूय, चैत्य-द्रव्या-ऽधिकारो दत्तः । " प्रोक्तं च "चैत्य-कर्म-कृतां सूत्र-धारा-ऽऽदीनाम् भोजनमास-देया-ऽऽदि-चिन्ताऽपि भवता कार्या ।" इति । " सोऽपि दुष्कर्म-वशात् लोभा-ऽऽर्तः सूत्र-धारा- ऽऽदीनाम् न रौप्यं ददौ, किन्तु सम-ऽर्ध- धान्य- गुड- तैल- घृतवस्त्रा-ऽऽदिकम् चैत्य-द्रव्येण-सङ्गृह्य, तेभ्यः मह-ऽधैं 'ददत्, शेषं च स्वयं गृह्णाति स्म । " एवम् रूपका-ऽशीति-भाग-रूपाणाम् काकिणीनाम् एक-सहस्रः लोभेन सङ्गृहीतः । ततः, अर्जितं कर्म अनाऽऽलोच्य, स मृतः । " सिन्धु-नदी-तटे सम्प्रदाग-थल-पर्वते जल-मानुषीभूय, समुद्रा-ऽन्तर्जल-चरोपद्रव-निवारक अण्ड-गोलिका-ग्रहणाऽर्थम जात्य-रत्न-ग्राहक-प्रयुक्त वज्र-घरट्ट-पीडन-महा-व्यथया मृत्वा तृतीय-नरके नारकोऽजनि । " नरकादुद्-वृत्तश्च- महा मत्स्यः पञ्च-धनु-शत-मानः म्लेच्छकृत-सर्वा-ऽङ्गच्छेदा-ऽऽदि-कदर्थनया मृतः, चतुर्थ-नरके ।
एवम् एक-द्वया-ऽऽदि-भवा-ऽन्तरितः, नरक-सप्तकेऽप्युत्पेदे । (सोंघु) (मोंघु) [भावा-ऽर्थ-स्त्व-ऽयम्- समुद्रे अन्तस्तलं यावद् गत्वा, ये जात्य-रत्नानि गृहीतुमिच्छन्ति, "तेषाम्- जल-चराणामुपद्रवो न स्याद् ।" इत्य-ऽर्थम्-जल-मानुषाणामऽण्ड-गोलकानाम्ग्रहणा-ऽर्थं च प्रयतन्ते, ते तान् जल-मानुषान् धृत्वा, तेषामऽण्ड-गोलक-द्वय-ग्रहणा-ऽर्थम् तान् वज्र-मय-घरट्टकेषु पीडयन्ति, महा-व्यथां चोत्पादयन्ति, तथा-प्रकारको जल-मानुषो जातः, इति ।। दत्ते डे०। मह-ऽर्घतया दत्ते, लाभं च । डे.
x +
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org