SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ N ATANDARD SOCIA २९० द्वादशं षोडशकम् ॐ द्वादशाङ्गसारः = ध्यानयोगः 8 पश्चात्तु तन्मयता = ध्येयगुणमयत्वं भवति । तथा सूक्ष्माना अर्थानां बन्ध-मोक्षादीनां आलोचनया संवेगः । = मोक्षाभिलाषः स्पर्शज = तत्त्वज्ञान योगः = सम्बन्धश्च भवति ॥१२/१४|| कल्याणकन्दली सिद्धिपरिज्ञानश्च विष्णुपुराणे -> चिन्तयेत्तन्मयो योगी समाधायात्ममानसम् । तावद्यावद् दृढीभूता तत्रैव नृप ! धारणा ॥|| एतदातिष्ठतोऽन्यद्वा स्वेच्छया कर्म कुर्वतः । नापयाति यदा चित्तं सिद्धां मन्येत तां तदा ।। - [६/७/८६/८७] इत्यादिनाउज्वेदितम् । ध्यानसिद्ध्युपाया अपि विष्णुपुराणे -> एतद्रूपप्रत्ययैकाग्यसन्ततिश्चान्यनिःस्पृहा । तद्ध्यानं प्रथमैरङ्गैः षड्भिनिष्पाद्यते नृपः ।।६/७/९१] <- इत्युक्ताः [दृश्यतां-पृ.३३१] । गरुडपुराणे -> तस्यैव ब्रह्मणि प्रोक्तं ध्यानं द्वादशधारणा <- [१/२२७/२४] इत्युक्तम् । द्वादशप्राणायामकालेन धारितचित्तस्य द्वादशधारणाकालावच्छिन्नं चिन्तनं ध्यानमित्यर्थः । मोक्षफलदत्वेन ध्यानमभिमतम, यथोक्तं दशकालिकनियुक्तो अपि -> सज्झाय-संजम-तवे वेआवच्चे अ झाणजोगे अ || जो रमइ, नो रमइ असंजमम्मि सो वचइ सिद्धिं ॥३६६।। - इति । यथोक्तं नारदपुराणेऽपि -> ध्यानात् पापानि नश्यन्ति, ध्यानान्मोक्षं च विन्दति । ध्यानात् प्रसीदति हरिानात् सर्वार्थसाधनम् ।। [पूर्वार्ध-३३/१३९] - इति । ध्यानाद् वेदोदयाङ्कुशो भवति । तदुक्तं निशीथचूर्णी -> थी-पुरिसा झाण-नियमोववासेसु उवउत्ता वेदोदयं धरेंति - नि.भा.३६०२ भाग-३ पृ.२४९] । नियमसारेऽपि -> झाणणिलीणो साह परिचागं कणइ सञ्चदोसाणं - [९३] इत्येवं कुन्दकुन्दस्वामिनोक्तम् । ध्यानानालम्बने तु साधोरवसन्नत्वं -> पुवावरत्तकाले ज्झाणं णो झायति, असुभं झायति | <- [ ] इत्येवं निशीथसूत्रादवसेयम् । अतः संविग्नेन सद्ध्यानयोगाभ्यास आदरणीय एव । -> परमानन्दसम्पन्नं निर्विकारं निरामयम् । ध्यानहीना न पश्यन्ति निजदेहे व्यवस्थितम् ।। - ] इत्यप्यत्रानुसन्धेयम् । अत एव पञ्चसूत्रेऽपि -> झाणज्झयणसंगया <- [१/७] इत्येवं साधुविशेषणमुक्तम् । यथोक्तं उपमितिभवप्रपश्चायां कथायां अपि -> तस्मात् सर्वस्य सारोऽस्य द्वादशाङ्गस्य सुन्दरः । ध्यानयोगः परं शुद्धः स हि साध्यो मुमुक्षुणा ।। - [प्र.८ गा.७२९] इति । वस्तुतस्तु प्रथमं स्वाध्यायपाठो भवति तदनन्तरं स्वाध्याय-भावनाप्रकर्षदशायां ध्यानप्रवृत्तिः, इत्थमेव क्रमोपपत्तेः । तदुक्तं ध्यानशतके -> पुञ्चकयब्भासो भावणाहि झाणस्स जोग्गयमुवेइ । ताओ य नाण-दंसण-चरित्त-वेरग्गनियताओ ।।३०॥ णाणे णिचन्भासो कुणइ मणोधारणं विसद्धिं च । नाणगुणमयियसारो तो झाइ सुनिच्चलमइओ ॥३१।। - इति । → सज्झाएण पसत्थं झाणं - [३३८] इति उपदेशमालावचनेन ध्यानकारणत्वादपि स्वाध्यायस्य प्राथम्यं युक्तम् । अत एवं -> सज्झाय-ज्झाणसंजुते [१८/४] इति क्रम उत्तराध्ययने प्रदर्शितः । निशीथचूर्णावपि -> सज्झाय-झाणनिरएसु ८ - [भा.३-पृ.२४५] इत्युक्तम् । न चैवं प्रकृते 'अध्ययनध्यानाभिरतिः' इत्येवं वक्तव्यं स्यादिति वक्तव्यम्, अल्पाक्षरत्वात् ध्यानस्य पूर्वनिपातः, यद्वाऽभ्यर्हितत्वात्पूर्वनिपातः, यथोक्तं महाभारते -> ज्ञानाद् ध्यानं विशिष्यते - भीष्मपर्व-३६/ १२, गीता-१२/१२] । यद्वा पश्चानुपूर्व्या अपि प्रज्ञापनाक्रमोऽस्तीत्येतत्सूचनार्थं 'ध्यानाध्ययनाभिरतिः' इत्येवमुल्लेखः । तदक्तं निशीथचूर्णी -> समए तिबिहा आणुपुब्बी - पुचाणुपुब्बी, पच्छाणुपुब्बी, अणाणुपुब्बी - [भाग-३ पृ.४०४] । ध्यानसिद्धयेऽध्ययनात् न प्रमदितव्यमिति उपदेशोऽपि प्रदर्शितः, यथोक्तं तैत्तिरीयोपनिषदि -> स्वाध्याय-प्रवचनाभ्यां न प्रमदितव्यम् <- [१/११/१] इति । मनुस्मृतावपि -> स्वाध्याये नित्ययुक्तः स्यात् <- [३/७५] इत्युक्तम् । नृभवादपि सम्यग्ज्ञानस्य दुर्लभत्वं प्रसिद्धमेव, यथोक्तं अग्निपुराणेऽपि -> नरत्वं दुर्लभं लोके, विद्या तत्र सुदुर्लभा <- [३/३३७] इति । पश्चात् तु तन्मयता = ध्येयगुणमयत्वं भवति । ततश्च स तत्स्वरूपमाप्नोति । तदक्तं ज्ञानार्णवे -> अनन्यशरणं साक्षात् तत्संलीनैकमानसः । तत्स्वरूपमवाप्नोति, ध्यानी तन्मयतां गतः ।। - [३९/३२] इति । यथोक्तं भगवद्गीतायां अपि -> देवान भावयताऽनेन ते देवा भावयन्तु वः - [३/११] इति । इत्थमेवोन्मनीभावप्राप्तेः तदुक्तं योगशास्त्रे સતત પ્રવૃત્તિવાળો હોય છે. પછી તો ધ્યેય વસ્તુના ગુણમય બને છે. તથા બંધ-મોક્ષ વગેરે સૂક્ષ્મ પદાર્થોની વિચારણાથી મોક્ષાભિલાષા उत्पन्न थाय छ भने त्यस्पर्शनानो= drianननो संच = साम थाय छे. [१२/१४] વિશેષાર્થ :- વિષયના સંબંધથી એક જ વિષયમાં જે જ્ઞાન રહેતું હોય તેમ જ તે જ્ઞાનમાં તે વિષયના એક સરખા જ આકારનું અવગાહન થતું હોય, તો તેવા જ્ઞાનની જે ધારા હોય છે તે જ ધ્યાન કહેવાય છે. તે જ્ઞાનધારામાં વિષયાન્તરનો સંચાર | હોતો નથી. દા.ત. માત્ર પરમાત્માનો સતત વિચાર ચાલતો હોય ત્યારે તે વિચાર વિષયના સંબંધથી પરમાત્માસ્વરૂપ એક આલંબનમાં રહેલો કહેવાય. પરમાત્માનું વીતરાગરૂપે ધારાવાહી દઢ ભાન થાય ત્યારે વિષયતાસંબંધથી પરમાત્મામાં રહેલ તે જ્ઞાન સદશપ્રત્યય For Private & Personal Use Only Jain Education Intemational www.jainelibrary.org
SR No.004834
Book TitleShokshaka Prakarana Part 2
Original Sutra AuthorHaribhadrasuri
AuthorYashovijay of Jayaghoshsuri
PublisherDivya Darshan Trust
Publication Year2000
Total Pages250
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy