________________
388 नानातन्त्रानुसारेण ध्यानमीमांसा 88
२८९ निर्मुक्त: प्रवाहो ध्याजमुच्यते ॥ ( ) अध्ययनं = स्वाध्यायपाठ: तयोः अभिरतिः = अनवरतप्रवृत्तिः प्रथमं = आदौ दीक्षासम्पन्नस्य भवति ।
कल्याणकन्दली यत्तद् ध्यानम् [२१/९] इत्युक्तम् । ध्यानविचारे 'ध्यानं = चिन्ता-भावनापूर्वकः स्थिरोऽध्यवसायः' इत्युक्तम् । योगशास्त्रे श्रीहेमचन्द्रसूरिभिः -> मुहर्त्तान्तर्मन:स्थैर्य ध्यानं छद्मस्थयोगिनां - [४/११५] इत्येवमुक्तम् । कार्तिकेयानुप्रेक्षायामपि -> अंतोमुत्तमेत्तं लीणं वत्थुम्मि माणसं गाणं । झाणं भण्णदि समए <- [४७०] इत्युक्तम् । लीनं = लयं प्राप्त = एकत्वं गतं = एकाग्रताप्राप्तमिति तद्वृत्तौ शुभचन्द्रो व्याचष्टे । आवश्यकनिर्युक्तौ अपि -> अंतोमुत्तकालं चित्तस्सेगग्गया हवइ झाणं <- [१४६३] इत्येवं श्रीभद्रबाहुस्वामिभिः प्रोक्तम् । अध्यात्मतत्त्वालोके न्यायविजयेनाऽपि -> ध्यानं पुनः। स्याद् ध्रुवमामुहूदिकाग्रसम्प्रत्ययलक्षणं तत् <- [६/१९] । तत्त्वार्थटीकायां श्रीसिद्धसेनगणिनाऽपि -> एकाग्रचिन्तानिरोधो ध्यानम् । अग्रं = आलम्बनं एकं च तदग्रञ्च इत्येकाग्रं - एकालम्बनमित्यर्थः । एकस्मिन्नालम्बने चिन्तानिरोधः । चलं चित्तमेव चिन्ता, तन्निरोधस्तस्यैकत्राऽवस्थापनमित्यर्थः <-[९/२७] इत्युक्तम् । तत्त्वार्थसूत्रं तु-> स्थिरसंहननस्यैकाग्रचिन्तानिरोधो ध्यानम् <- [९/२७] इत्येवम् । > विशुद्धञ्च यदेकाग्रं चित्तं तद् ध्यानमुत्तमम् - [८/७२८] इति उपमितिभवप्रपञ्चायां सिद्धर्षिगणी । ध्यानं शुभचित्तैकाग्रतालक्षणं [१/६] इति अष्टकवृत्तिकारः । -> ध्यानं = अन्तर्मुहूत्तकालमात्रमेकाग्रचित्तता - [प्र.८९] इति आचारपदीपे प्रोक्तम् । -> ध्यानं = अन्तर्मुहर्त्तमात्रकालमेकाग्रचित्ताध्यवसायम् | ८- [प्र.२६५] इति आत्मप्रबोधे निरूपितम् । 'ध्यानं = ध्येयविषया एकप्रत्ययसन्ततिः' [१४/८] इति वीतरागस्तोत्रविवरणे प्रभानन्दसूरिः । पातञ्जलयोगसूत्रे -> तत्र प्रत्ययैकतानता ध्यानम् <- [३/२] इत्युक्तमिति तु प्राक् [पृष्ठ ५८] प्रोक्तमेव ।। तत्त्वानुशासने नागसेनाचार्येणापि -> एकाग्रचिन्तनं ध्यानं <- [३८] इत्युक्तम् । टीकाकृतापि अध्यात्मसारे -> स्थिरमध्यवसानं यत्तद्ध्यानं - [१६/१] इत्युक्तम् । योगभेदद्वात्रिंशिकायां च -> उपयोगे विजातीयप्रत्ययाऽव्यवधानभाक् । शुभैकप्रत्ययो ध्यानं सूक्ष्माभोगसमन्वितम् ।। ८-[द्वा.द्वा.१८/११] इति प्रोक्तम् । कूर्मपुराणेऽपि -> देशावस्थितिमालम्ब्य बुद्धेर्या वृत्तिसन्ततिः । वृत्त्यन्तरैरसंस्पृष्टा तद्ध्यानं सूरयो विदुः ।। [११/४०] - इत्युक्तम् । योगसारसङ्ग्रहे विज्ञानभिक्षुणाऽपि -> तत्र देशे ध्येयाकारवृत्तिप्रवाहो वृत्त्यन्तराऽव्यवहितो ध्यानम् <- [अंश २ पृ.४५] इति योगदर्शनानुसारेणोक्तम् । यत्तु 'ध्यानं निर्विषयं मनः' [सां.सू.६/२५] इति साङ्ख्यसूत्रे मैत्रेय्युपनिषदि [२/२] स्कन्दोपनिषदि [१०] च प्रोक्तं तत् निर्विकल्पकध्यानापेक्षया नानाविषयविनिर्मुक्तत्वाऽपेक्षया शुद्धपुरुषस्वरूपातिरिक्ताऽविषयकत्वापेक्षया वा बोध्यम् । 'रागोपहतिर्ध्यानम् [३/३०] इति सांख्यसूत्रं तु कार्यकारणयोरभेदविवक्षयेति व्यक्तं विज्ञानभिक्षुरचिते साङ्ख्यप्रवचनभाष्ये । यदपि ज्ञानार्णवे शुभचन्द्रेण -> एकचिन्तानिरोधो यस्तद् ध्यानं <- [२५/१६-पृ.२५६] इत्युक्तं तदपि एकालम्बनतया प्रत्ययान्तरविमुक्तं सदृशप्रत्ययप्रवाहमेव ध्यानतया द्योतयति । नागसेनाचार्येणापि तत्त्वानुशासने -> एकाग्र-चिन्तारोधो यः परिस्पन्देन वर्जितः । तद् ध्यानं निर्जराहेतुः संवरस्य च कारणम् ।। - २/२४] इत्युक्तं तदपि स्थिरचिन्तनप्रवाहमेव द्योतयति । अत एवं तत्त्वानुशासने एव -> एकाग्रचिन्तनं ध्यानम् -[२/६] इत्युक्तम् । अमृतचन्द्रेणापि तत्त्वप्रदीपिकाभिधानायां प्रवचनसारवृत्ती -> एकाग्रसञ्चेतनलक्षणं ध्यानम् - [२/१०२] इत्युक्तम् । बृहद्रव्यसङ्ग्रहे > अप्पा अप्पम्मि रओ इणमेव परं हवे झाणं - [५६] इत्युक्तं नेमिचन्द्रेण । मण्डलब्राह्मणोपनिषदि तु -> सर्वशरीरेषु चैतन्यैकतानता = ध्यानम् - [१/ १] इत्युक्तम् । त्रिशिखब्राह्मणोपनिषदि तु => 'सोऽहं चिन्मात्रमेवेति चिन्तनं ध्यानमुच्यते <- [३१] इत्युक्तम् । ज्ञानार्णवे -> वदन्ति योगिनो ध्यानं चित्तमेवमनाकुलम् - [४०/१७] इत्यप्यग्रे प्रोक्तम् । > इष्टे ध्येये स्थिरा बुद्भिः या स्यात् सन्तानवर्तिनी । ज्ञानान्तराऽपरामृष्टा सा ध्यातिानमीरिता ।। -[२/४०] इत्यादिलक्षणान्तराणि तत्त्वानुशासनादवगन्तव्यानि । वेदान्तसारकृत् सदानन्दस्तु -> तत्राद्वितीयवस्तुनि विच्छिद्य विच्छिद्यान्तरिन्द्रियवृत्तिप्रवाहो ध्यानम् - [३१-पृ.९२] इत्याह । -> ध्यानं = चिन्ता -[यो.सूत्र १/४८] इति वाचस्पतिमिश्रः तत्त्ववैशारद्यां ज्याचष्टे । योगवार्तिककृतो विज्ञानभिक्षोरप्यत्रैव निर्भरः । तचिन्त्यम् ।
वस्तुतस्तु ध्यानं न केवलं मानसपरिणामविशेषरूपमेव, कायिकादिभेदेन त्रिविधस्य ध्यानस्याऽभ्युपगमात् । तदुक्तं आवश्यकनिर्युक्तौ -> जिणदिळं झाणं तिविहेऽवि जोगंमि <- [१४६७] । ध्यानञ्च धारणासिद्ध्यनन्तरं परैः प्रतिपाद्यते । धारणाઅને એક સરખા જ્ઞાનનો અન્યજ્ઞાનરહિત જે પ્રવાહ હોય તે ધ્યાન કહેવાય છે.” તે ધ્યાનના પ્રસ્તુતમાં બે ભેદ વિવક્ષિત છે, - ધર્મધ્યાન અને શુક્લધ્યાન. અધ્યયનપદનો અર્થ છે સ્વાધ્યાયનો પાઠ = પારાયણ, દીક્ષાસંપન્ન જીવ પ્રારંભમાં ધ્યાન અને અધ્યયનમાં
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org