________________
२७६ द्वादशं षोडशकम्
8 वसन्तनृपतुल्यदीक्षाविचार: 888
व्दादशं दीक्षाषोडशकम् ज्ञानत्रयं प्राक् (१०/१२) उक्तम् । तद्धावाभावाभ्यां दीक्षाधिकाराऽनधिकारौ प्रतिपिपादयिषुराह -> 'अस्मिन्नित्यादि ।
अस्मिन् सति दीक्षाया अधिकारी तत्त्वतो भवति सत्त्वः । इतरस्य पुनर्दीक्षा वसन्तनृपसन्निभा ज्ञेया ॥१२/१॥
अस्मिन् ज्ञाजत्रये सति दीक्षायाः - विरतिरूपाया अधिकारी = अधिकारवान् तत्त्वतः = परमार्थतो भवति सत्त्वः = पुमान् । इतरस्य = अनधिकारिणः पुनः दीक्षा वसन्तनृपसन्निभा - चैत्रमासपरिहासकृतराजतुल्या (ज्ञेया =) विडम्बनप्रायत्वेज ज्ञातव्या ॥१२/१||
कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> अस्मिन् सति सत्त्वः तत्त्वतो दीक्षाया अधिकारी भवति । इतरस्य पुनः दीक्षा वसन्तनृपसन्निभा ज्ञेया ॥१२/२।।
ज्ञानत्रये = श्रुत-चिन्ता-भावनाज्ञानत्रितये सति एव दीक्षायाः विरतिरूपायाः = सर्वपापविरतिस्वरूपायाः परमार्थतः अधिकारी भवति, मिथ्यात्व-क्रोधकण्डूत्यादिरूपचित्तमुण्डने ज्ञानिन एवं प्रशान्तत्वेन समर्थत्वात्, यथोक्तं पञ्चाशके > दिक्खा मुंडणमेत्थं तं पुण चित्तस्स होइ विण्णेयं । ण हि अप्पसन्तचित्तो धम्महिगारी जओ होइ ।। - २/२] इति ।। इयमपि ज्ञानत्रितयोत्तरकालभावितया चरमावर्ते एव तत्त्वतो भवति, यथोक्तं पञ्चाशकेऽपि -> चरमम्मि चेव भणिया एसा खलु पोग्गलाण परियट्टे । सुद्धसहावस्स तहा विसुज्झमाणस्स जीवस्स ।। ८- [२/३] इति । इतरा त्वचरमावर्तेऽपि भवतीति ध्येयम् ।
धर्मबिन्दौ तु -> अथ प्रवज्याई : [१] आर्यदेशोत्पन्नः, [२] विशिष्टजातिकुलान्वितः, [३] क्षीणप्रायकर्ममलः, [४] तत एव विमलबुद्धिः, [५] 'दुलभं मानुष्यं, जन्म मरणनिमित्तं, सम्पदश्चपलाः, विषया दुःखहेतवः, संयोगे वियोगः, प्रतिक्षणं मरणं, दारुणो विपाक' इत्यवगतसंसारनैर्गुण्यः, [६] तत एव तद्विरक्तः, [७] प्रतनुकषायः, [८] अल्पहास्यादिः, [९] कृतज्ञः, [१०] विनीतः, [११] प्रागपि राजामात्यपौरजनबहुमतः, [१२] अद्रोहकारी, [१३] कल्याणाङ्गः, [१४] श्राद्धः, [१५] स्थिरः, [१६] समुपसम्पन्नश्चेति <- [ध.बि.३/३] विस्तरतः दीक्षाधिकारिनिरूपणमकारि मूलकारैरेवेत्यनुसन्धेयम् । कालपरिहाणिदोषात् एकादिगुणविकलाः अपि बहुगुणसम्पन्ना योग्या एव, यथोक्तं पञ्चवस्तुके -> कालपरिहाणिदोसा एत्तो एक्कादिगुणविहीणा वि । जे बहुगुणसंपन्ना ते जुग्गा हुति नायब्वा ॥३७।। - इत्यपि विभावनीयम् । अनधिकारिणः दीक्षा वसन्तनृपसन्निभा = चैत्रमासपरिहासकृतराजतुल्या = फाल्गुनिकराकानन्तराऽऽगामिशास्त्रीयचैत्रमासोपहसित-वसन्तर्तुकालीन-फाल्गुनपूर्णिमादिवसीय-होलिकापर्वसम्बन्धिनृपतिसमा विडम्बनप्रायत्वेन ज्ञातव्या, तस्य जिनवचनानुपक्रम्यत्वात् । तदुक्तं पञ्चवस्तुके -> न कयाइ खुद्दसत्ता किलिट्टकम्मोदयाओ संभूआ । विसकंटगाइतल्ला धम्मम्मि दढं पयट्ठति ।।८६१।। - इति ॥१२/१॥
E२लायिनी ત્રાણ જ્ઞાનનું નિરૂપણ ૧૧માં પડશકમાં કર્યું. તે જ્ઞાનની હાજરીમાં દીક્ષાની અધિકારીતા અને તેની ગેરહાજરીમાં દીક્ષાની અનધિકારીતાનું પ્રતિપાદન કરવાની ઈચ્છાવાળા મૂલકારથી કહે છે કે – | ગાથાર્થ :- આ ત્રણ જ્ઞાન હોય ત્યારે જીવ પરમાર્થથી દીક્ષાનો અધિકારી થાય છે. બીજાની દીક્ષા તો વસન્તરાવ = હોળીના રાજા જેવી વાગવી [૧૨/૧]
તે દીક્ષાના અધિકારીને ઓળખીએ : ટીકાર્ય :- શ્રુતજ્ઞાન, ચિંતાજ્ઞાન અને ભાવનાજ્ઞાન - આ ત્રણ જ્ઞાન હોય ત્યારે જીવ પરમાર્થથી વિરતિસ્વરૂપ દીક્ષાનો અધિકારી થાય છે. અન્ય = ત્રાણ જ્ઞાનથી શૂન્ય એવા અનધિકારી જીવની દીક્ષા તો ચિત્ર માસે જેની મશ્કરી કરેલ છે તે વસંતરાજ = जोगीना की प्राय: विना २५२५ लावी. [१२/१] ' વિશેષાર્થ :- અહીં ધ્યાન દેવા જેવી વાત એ છે કે મૂળ ગાથામાં ‘વસંતકૃપ’ શબ્દનો પ્રયોગ છે. તેનો યોગદીપિકાકારે “ચૈત્રમાસપરિહાસકૃતરાજ' આવો અર્થ કરેલ છે. કાગળ-ચૈત્ર માસ વસંતઋતુ કહેવાય છે. હોળી-ધુળેટી પર્વ વસન્તઋતુમાં આવે છે. ફાગળ પૂર્ણિમાના દિવસે જૈનેતર લોકો એક વ્યક્તિને હોળીનો રાજા બનાવી તેને ગધેડા ઉપર બેસાડે છે તથા કાળા રંગથી
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org