________________
२६६ एकादशमं षोडशकम्
28 वैराग्यकल्पलताविरोधपरिहार: 28 चारे: चरकः = भक्षयिता 'सञ्जीवल्या औषधेश्च अचरकः = अनुपभोक्ता, तस्य चारण = अभ्यवहारणं तस्य विधानतः = दृष्टान्तात् चरमे भावनामये ज्ञाने सति सर्वत्र = सर्वजीवेषु हिता = हितहेतुः वृत्तिः = प्रवृत्तिः; न तु कदाचित् अहिता, समरसापत्त्या = सर्वत्रन्त्रसमूहरूपस्वसमयव्युत्पत्तिकृतसर्वानुग्रहपरिणत्या गाम्भीर्यात् = गम्भीराशयात् । दृष्टान्तश्चायं -> काचित् स्त्री स्वपतिवशीकाराय काश्चित्परिव्राजिकां तदुपायमपृच्छत् । 'तया च किल कुतश्चित्
कल्याणकन्दली चिन्तायोगात् कदापि न । - [२/१४] इति । यत्तु वैराग्यकल्पलतायां -> स्यात् मतावेशश्च चिन्तया <- [९/१०५०] इत्युक्तं तत्तु चिन्ताज्ञानस्य प्राथमिकदशामपेक्ष्य भावनाज्ञानातिव्यवहिता-वस्थामाश्रित्योक्तं, इह तु परिपक्वचिन्ताज्ञानापेक्षयेति न विरोध इति ध्येयम् ॥११/१०॥
सर्वजीवेषु हितहेतुः प्रवृत्तिरिति । यथोक्तं उपदेशपदे -> णाणी य णिच्छएणं पसाहई इच्छियं इहं कज्जं । बहुप बंधजुयंपि हु तहा तहा तयविरोहेण ।।८८७॥ मग्गे य जोयइ तहा केई भावाणुवत्तणणएण । बीजाहाणं पायं तदुचियाणं कुणइ एसो ।।८८८|| - इति । ध्याननिर्बन्धा नृपपत्नी उपदेशपदोक्ताऽत्र दृष्टान्तत्वेन भावनीया । समरसापत्त्या = सर्वतन्त्रसमूहरूपस्वसमयव्युत्पत्तिकृतसर्वानुग्रहपरिणत्या = 'सर्वेषामेव दर्शनानां समीचीनसंवलनात्मकः अनेकान्तवादराद्धान्तः' इति विज्ञानेन भद्रकजीवानां सर्वतन्त्रस्थितानामासन्नदरादिभावेन विशेषेऽपि जिनसेवकत्वाविशेषपरिज्ञानेनोपस्थापितायाः सर्वेषामेवानुरूपतयाऽनुग्रहपरिणत्याः प्राप्त्या । गुरुतत्त्वविनिश्चयवृत्तौ अपि -> सर्वहितावहा समापत्तिः चन्दनगन्धस्थानीया स्वस्वदर्शनग्रहविमुखसहजमाध्यस्थ्यपरिणतिः - [१/३९] इत्युक्तम् । तदुक्तं योगदृष्टिसमुच्चये -> तस्मात् सामान्यतोऽप्येनमभ्युपैति य एव हि । निर्व्याज तुल्य एवाऽसौ तेनांशेनैव धीमताम् ||१०६|| एनं = सर्वज्ञ, तथा -> यथैवैकस्य नृपतेर्बहवोऽपि समाश्रिताः । दुरासन्नादिभेदेऽपि तभृत्याः सर्व एव ते ॥१०७|| - इति । गम्भीराशयात् = अतुच्छपरिणामात् । आदिधार्मिकपुरुषाणामित्थमेवोत्क्रान्तिसम्भवात्, यथोक्तं पूर्वसेवाद्वात्रिंशिकायां-> चारिसञ्जीविनीचारन्यायादेवं फलोदयः । मार्गप्रवेशरूपः स्याद्विशेषेणाऽऽदिकर्मणाम् ।। - [द्वा.द्वा.१२/९] देशनाद्वात्रिंशिकायामपि -> सर्वत्रैव हिता वृत्तिः समापत्त्याऽनुरूपया । ज्ञाने सञ्जीविनीचारज्ञातेन चरमे स्मृता ।। <- [दा.दा.२/१५] इत्युक्तम् । दृष्टान्तवायमिति । योगबिन्दुवृत्तौ त्विदमुदाहरणमेवमाऽऽवेदितं सोपनयम ->
भावार्थस्तु कथागम्यः सा चेयमभिधीयते । अस्ति स्वस्तिमती नाम नगरी नागराकुला ॥१॥ तस्यामासीत्सुता काचिद् ब्राह्मणस्य तथा सखी । तस्या एव परं पात्रं सदा प्रेम्णो गतावधेः ॥२॥ तयोर्विवाहवशतो भिन्नस्थाननिवासिता । जज्ञेऽन्यदा द्विजसुता जाता चिन्तापरायणा ॥३॥ कथमास्ते सखीत्येवं ततः प्राघूर्णिकाऽऽगता । दृष्ट्वा विषादजलधौ, निमग्ना सा तया ततः ||४|| प्रपच्छ किं त्वमत्यन्तविच्छायवदना सखी ? तयोचे पापसद्माऽहं पत्युर्दुर्भगतां गता ॥५॥ मा विषीद विषादोऽयं निर्विशेषो विषात्सखि ! करोम्यनड्वाहमहं, पतिं ते मूलिकाबलात् ।।६।। तस्याः सा मूलिकां दत्त्वा, संनिवेशं निजं ययौ । अप्रीतमानसा तस्य प्रायच्छत् तामऽसौ ततः ॥७|| अभूद् गौरुद्भुरस्कन्धो झगित्येव सा हृदि । विद्राणैष कथं सर्वकार्याणामक्षमो भवेत् ।।८।। गोयूथान्तर्गतो नित्यं, बहिश्चारयितुं सकः । तयाऽऽरब्धो बटस्याऽधः, सोऽन्यदा विश्रमं गतः ।।९।। तच्छाखायां नभश्चारिमिथुनस्य कथञ्चन । विश्रान्तस्य मिथो जल्पप्रक्रमे रमणोऽब्रवीत् ॥१०॥ नात्रैष गौः स्वभावेन किन्तु वैगुण्यतोऽजनि । पत्नी प्रतिबभाषे सा पुनर्नाऽसौ कथं भवेत् ? ॥११॥ मूल्यन्तरोपयोगेन, कास्ते ? साऽस्य तरोरधः । श्रुत्वैतत्सा पशोः पत्नी पश्चात्तापितमानसा ।।१२।। ચારો ચરનાર = ખાનાર અને સંજીવની ઔષધ ન ખાનાર વ્યકિતને તે ખવડાવવાના દાંતથી છેલ્લે ભાવનામય જ્ઞાન હોય ત્યારે સર્વ જીવો વિશે હિતકારી પ્રવૃત્તિ થાય, નહિ કે કોઈને પણ અહિતકારી. આનું કારણ એ છે કે સર્વદર્શનના-ધર્મના સમૂહ સ્વરૂપ જૈનદર્શનની વ્યાખ્યાથી ઉત્પન્ન થયેલી સર્વ જીવો ઉપર અનુગ્રહની પરિણતિ સ્વરૂપ સમરસાપત્તિથી જન્ય ગંભીર ચિત્ત ભાવનાજ્ઞાનવાળા પાસે હોય છે.
ચારિસંજીવનીદષ્ટાંત આ મુજબ છે. કોઈક સ્ત્રીએ પોતાના પતિને વશ કરવા માટે કોઈક જોગણ બાઈને તેનો ઉપાય પૂછો. તગીએ કોઈક મંત્રાદિના સામર્થ્યથી તે પતિને બળદસ્વરૂપ કર્યો. તે સ્ત્રી બળદપતિને ચારો ચરાવતી અને પાણી પાતી રહે |१. मुद्रितप्रती ह.प्रतौ च -> 'सञ्जीबिन्या' <- इति पाठः । २. मुद्रितप्रती 'तथा' इत्यशुद्धः पाठः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org