________________
२६५
* परतन्त्रोक्तस्य सद्वचनस्याऽप्रतिक्षेप्यता ॐ सुयुक्तिचिन्तनसम्बन्धात् कदाचिदपि काले न भवति । दृष्टजय-प्रमाणरूपसिद्धान्तसद्भावो हि विद्वान् सर्व स्वपरतन्त्रोक्तमर्थ स्थाजाऽविरोधेन प्रतिपद्यते, न त्वेकान्ततस्तत्र विप्रतिपद्यते इति । तथा चाह सम्मतौ महामतिः -> निययवयणिज्ज-सच्चा सव्वणया परवियालणे मोहा | ते पुण अदिहसमओ विभयह सच्चे व अलिए वत्ति' - ॥(१/२८)॥११/१०॥
कल्याणकन्दली राहित्यस्योक्तत्वात् प्रकृते च हेत्वपेक्षया ईषद् असत्पक्षपातस्याभिहितत्वात् । यद्वा प्राक् 'क्षीयमाणं क्षीणं' इति नयेनाभिनिवेशराहित्यस्योपदर्शितत्वात् अत्र च स्वरूपतोऽसत्पक्षपातस्याऽऽवेदितत्वात् । यद्वा पूर्वं उदयापेक्षयाऽभिनिवेशवैकल्यस्याविष्कृतत्वात् इह च प्राधान्येन सत्तापेक्षयाऽसत्पक्षपातस्य प्रदर्शितत्वात् । यद्वा पूर्वं तत्तत्तन्त्रोक्ताहिंसादिपदार्थे पदार्थगोचरत्वेनाsसद्ग्रहराहित्यस्य विवक्षितत्वात् अत्र च तत्तत्तन्त्रोक्तत्वेनांऽशतोऽसद्गृहसाहित्यस्य सम्भावितत्वात् । यद्वा पूर्वं प्रज्ञापनीयत्वादिगुणापेक्षयाऽभिनिवेशराहित्यस्य विवक्षितत्वात्, इह तु स्वीयशास्त्ररागापेक्षयांशतो दर्शनग्रहस्येष्टत्वादिति न विरोधलेशोऽपि । एतेन -> श्रुतज्ञानात् विवादः स्यात् <- [९/१०५०] इति वैराग्यकल्पलतावचनमपि व्याख्यातमिति ।
दृष्टनयप्रमाणस्वरूपसिद्धान्तसद्भावो हि = विभाविततत्तत्सुनय-सप्तभङ्ग्यादिप्रमाणात्मकराद्धान्तपरमार्थ एव विद्वान् सर्वं स्वपरतन्त्रोक्तं अर्थ स्थानाविरोधेन = तत्तन्नयनिक्षेपादिविरोधपरिहारपूर्वं प्रतिनियतविवक्षापुरस्कारेण प्रतिपद्यते । 'परतन्त्रोक्तमपि यत् शब्दतोऽर्थतो वा जिनवचनाऽविरोधि दृष्टं तत्सर्वं प्रामाणिकमेवेति ज्ञेयम् । यथा -> आपदां कथितः पन्था इन्द्रियाणामसंयमः । तज्जयः संपदां मार्गो येनेष्टं तेन गम्यताम् ।। पञ्चैतानि पवित्राणि सर्वेषां धर्मचारिणाम् । अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् ।। - [ ] इत्यादि । न चैतेष्वप्रामाण्यं युक्तं, जिनवचनाऽबाधितार्थत्वात् । न चान्धपरम्परापतितत्वेनाsप्रामाण्यमेतेषाम्, सर्वस्यैव सुन्दरार्थस्य दृष्टिवादमूलत्वेनाऽतथात्वात् । वक्त्रविश्वासेनाऽविकल्पतथाकाराऽयोग्यत्वेऽपि विकल्प्य तथाकारेऽनौचित्याऽभावात् । इत्थं विकल्पेनैव सम्यग्दृष्टिपरिगृहीतत्वात् सम्यक्श्रुतत्वोपपत्तेश्च । परप्रणीतत्वेन तदभ्युपगमे एकान्तभयञ्चाज्ञानविजृम्भितमेव, यदुक्तं मूलकारैरेव उपदेशपदे -> जं अत्थओ अभिन्न अण्णत्था सद्दओ वि तह चेव । तंमि पओसो मोहो विसेसओ जिणमयवियाण ॥६९३।। - इति प्राक् [पृ.१०३] दर्शितमेव । अत एव न तु = नैव एकान्ततः तत्र = परतन्त्रोक्तार्थे विप्रतिपद्यते, द्वादशाङ्ग्याशातनापत्तेरिति प्रागुक्तमेव [४/११] । इत्थश्च परतन्त्रोक्तत्वेनाऽपि रूपेण न सद्वचनस्य प्रतिक्षेप्यता किं पुनः परसम्प्रदायाभ्युपगतत्वादिना रूपेणेति मध्यस्थतया विभावनीयम् ।।
तथा चाह सम्मती = सम्मतितर्कग्रन्थे महामतिः श्रीसिद्धसेनदिवाकरसूरिः - 'निययेति । श्रीअभयदेवसूरिकता तद्व्याख्या चैवं -> निजकवचनीये = स्वांशे परिच्छेद्ये सत्याः = सम्यग्ज्ञानरूपाः सर्व एव नयाः सङ्ग्रहादयः परविचालने = परविषयोत्खनने मोहाः मुह्यन्तीति मोहाः = मिथ्याप्रत्ययाः, परविषयस्यापि सत्यत्वेनोन्मूलयितुमशक्यत्वात्, तदभावे स्वविषयस्याप्यव्यवस्थितेः । ततश्च परविषयस्याभावे स्वविषयस्याप्यसत्त्वात् तत्प्रत्ययस्य मिथ्यात्वमेव, तव्यतिरिक्तग्राहकप्रमाणस्य चाभावात् । तस्मात् तानेव नयान्, पुनः शब्दस्यावधारणार्थत्वात्, न इति प्रतिषेधो विभजनक्रियायाः, दृष्टः समयः = सिद्धान्तवाच्यमनेकान्तात्मकं वस्तुतत्त्वं येन पुंसा स तथा, स न विभजते सत्येतरतया स्वेतरविषयमवधारयमाणोऽपि तथा तान न विभजते अपि वितरनयविषयसव्यपेक्षमेव स्वनयाभिप्रेतं विषयं सत्यमेवावधारयतीति यावत् । 'ग्राह्यसत्याऽसत्याभ्यां ग्राहकसत्यासत्ये' इत्येवमभिधानम् । तच दृष्टानेकान्ततत्त्वस्य विभजनं 'स्यादस्त्येव द्रव्यार्थत' इत्येवंरूपम् - कां.१ गा.२८ वृ.पृ.४२९] । तदुक्तमेतदनुसारेण देशनाद्वात्रिंशिकायां -> आद्येऽविरुद्धार्थतया मनाक् स्यात् दर्शनग्रहः । द्वितीये बुद्धिमाध्यस्थ्यવિચારવાના કારણે, કોઈ પણ કાળે થતો નથી. નય અને પ્રમાણ સ્વરૂપ સિદ્ધાન્તનો હાર્દ જેણે જોયેલો-ગેલો હોય તેવો વિદ્વાન પોતાના ધર્મશાસ્ત્ર કે બીજાના ધર્મશાસ્ત્રોમાં કહેલ બધા અર્થને સ્થાનવિરોધને દૂર કરીને સ્વીકારે છે. [પરસ્થાનનિયોગથી = અયોગ્ય સ્થાને અયોગ્ય અપેક્ષાથી અર્થને જોડવાથી જે વિરોધ વગેરે દોષ આવે તેનો પરિહાર કરવા પૂર્વક સ્વસ્થાનનિયોગથી | = યોગ્ય સ્થાને યોગ્ય અપેક્ષાથી અર્થને જોડવાથી તે તે સ્વ-પરદર્શનપ્રદર્શિત સર્વ અર્થનો સ્વીકાર પ્રમાણ-નયના રહસ્યને જાણનાર વિદ્વાન કરે છે.] તેવો વિદ્વાન પરદર્શનોક્ત પદાર્થને વિશે એકાન્તથી વિપ્રતિપત્તિ = વિવાદ કરે નહિ. સન્મતિતર્ક ગ્રંથમાં મહાબુદ્ધિશાળી શ્રી સિદ્ધસેન દિવાકરસૂરિજી મહારાજે કહેલ છે કે – “સર્વ નય પોતાના વાર્થ વિશે સત્ય હોય છે. પરનયવિષયનો તિરસ્કાર કરવામાં આવે તો મૂઢ = મિથ્યા છે. જેને સિદ્ધાન્ત = જૈનદર્શનના પ્રમાણ-નયના હાર્દ જાણેલ ન હોય न यति ' नय सायो, ने नय मोटो छ' शत नयोन विमान ३ छ." <- [११/१०]
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org