________________
२५२ एकादशमं षोडशकम्
शुश्रूषाविचारः
एकादशं ज्ञानषोडशकम्
'किं पुनः श्रुतज्ञानस्य प्राक्सम्भवि लिङ्गम् ?' इत्याह
शुश्रूषा चेत्यादि ।
शुश्रूषा चेहाद्यं लिङ्गं खलु वर्णयन्ति विद्वांसः । तदभावेऽपि श्रावणमसिरावनिकूपखननसमम् ॥ ११ / १॥
शुश्रूषा च = श्रोतुमिच्छा च इह = श्रुतज्ञाले आद्यं = प्रथमं लिङ्गं = लक्षणं, खलुशब्दो वाक्यालङ्कारे, वर्णयन्ति = कथयन्ति विद्वांसः = विचक्षणाः । तदभावेऽपि = शुश्रूषाऽभावेऽपि श्रावणं = श्रवणप्रयोजककर्तृत्वं गुरोः शिष्य|विषयमिति गम्यते, असिरायां अवनौ कूपखननसमम् ।' बोधप्रवाहो हि श्रावणस्य फलं उदकप्रवाह इव कूपखजनस्य । स च शुश्रूषासिराऽभावे न सम्भवतीति तत्समत्वेन भ्रममूलश्रममात्रफलत्वमुक्तं भवति ॥ ११/१२||
कल्याणकन्दली
मूलग्रन्थे दण्डान्वयस्त्वेवम् -> विद्वांस इह चाद्यं लिङ्गं शुश्रूषा खलु [ = इति] वर्णयन्ति । तदभावेऽपि श्रावणं असिरावनिकूपखननसमम् ॥ ११ / १ || इयं कारिका श्रावकधर्मविधिवृत्त्यादी [गा. ६९ वृ. ] समुद्धृता ।
श्रवणप्रयोजककर्तृत्वं गुरोः शिष्यविषयमिति । शिष्यः शृणोति, गुरुः तं श्रावयतीति शिष्यस्य श्रवणं प्रति प्रयोज्यकर्तृत्वं गुरोश्च प्रयोजककर्तृत्वम् । तदुक्तं कथारत्नकोशेऽपि सुस्सूसा पढमं चिय लिंगं जंपंति धम्मवंछाए । तदभावे च सत्थत्थसावणं कंठसोसकरं || - [पृ. १०९ / गा. २ ] इति । प्रकृते जिज्ञासापूर्विका शुश्रूषा हि बोधोदकप्रवाहस्याऽक्षयाऽवन्ध्यबीजत्वात् सिरातुल्या । ततः स च = बोधप्रवाहश्च शुश्रूषासिराऽभावे न = नैव सम्भवति । इदञ्च व्यतिरेकत उक्तम् । अन्वये च शुश्रूषोपेतशिष्यं प्रति गुरोः श्रावणं बोधोदकप्रवाहफलकमेवेति दृष्टव्यम् । प्रकृते श्रवणस्य कूपखननतुल्यत्वे शुश्रूषायाश्च सिराकल्पत्वेऽप्यस्ति विशेषो यत् कूपखननविरहे सिरामहिम्ना न स्वच्छस्वादुपथ्यपयः प्रवाहो लभ्यते परं श्रवणविरहेऽपि शुश्रूषामहिम्ना | प्रधानप्रेक्षाप्रवाह प्रापकः प्रगुणः पापप्रक्षयस्तु प्राप्यत एव । इदमेवाभिसन्धाय योगदृष्टिसमुच्चये -> बोधाम्भः स्रोतसश्चैषा, सिरातुल्या सतां मता । अभावेऽस्याः श्रुतं व्यर्थमसिरावनिकूपवत् । श्रुताभावेऽपि भावेऽस्याः शुभभावप्रवृत्तितः । फलं कर्मक्षयाख्यं | स्यात् परबोधनिबन्धनम् ॥ [५३/५४] इत्युक्तम् । दानविंशिकायामपि -> सुस्सूसासंजुत्तो विनेओ गाहगोऽवि एयस्स । न सिराऽभावे खणणाउ चैव कूवे जलं होई ॥१७ / ३ || <- इत्युक्तम् । न्यायविजयेनाऽपि अध्यात्मतत्त्वालोके -> असत्यमुष्मिन् | श्रुतमप्यपार्थमिवोषरायां भुवि बीज वापः । सति त्वमुष्मिन् परसाधनानि कर्मक्षयायाऽसुलभानि न स्युः ॥ - [३ / १०१] | इत्युक्तम् । अमुष्मिन् = तत्त्वावबोधश्रवणाभिलाषे । इयञ्च शुश्रूषा सम्यग्दर्शनस्याप्याद्यं लिङ्गम् । यथोक्तं मूलकारैरेव योगबिन्दौ -> शुश्रूषा धर्मरागश्च गुरुदेवादिपूजनम् । यथाशक्ति विनिर्दिष्टं लिङ्गमस्य महात्मभिः <- ।। २५३ || पञ्चाशके च सुस्सूस धम्मराओ गुरुदेवाणं जहासमाहीए । वेयावच्चे नियमो सम्मद्दिट्ठिस्स लिंगाई ॥ <- [३ / ५] इत्युक्तम् । सम्बोधप्रकरणेऽपि -> परमागम-सुस्सूसा अणुराओ धम्मसाहणे परमो । जिण - गुरुवेयावच्चे नियमो, सम्मत्तलिंगाई || <- [३/६२] इति प्रोक्तम् । | दर्शनप्रतिमायामपि शुश्रूषानिवेशः सम्मतः, यदुक्तं श्रावकप्रतिमाविंशिकायां सुस्सूस धम्मराओ गुरुदेवाणं जहासमाहीए । | वेयावच्चे नियमो दंसणपडिमा भवे एसा ॥ <- [विं.विं.१०/४], श्रावकधर्मविधौ सुस्सूस धम्मराओ गुरुदेवाणं जहा
રતિદાયિની
ધર્મશ્રવણની પહેલાં સંભવે એવું શ્રુતજ્ઞાનસંબંધી લિંગ શું છે ? એવી શંકાનું સમાધાન કરતાં મૂલકારથી જણાવે છે કે, ગાથાર્થ :- વિદ્વાનો અહીં શુશ્રૂષાને = સાંભળવાની ઈચ્છાને પ્રથમ લિંગ તરીકે વર્ણવે છે. શુશ્રૂષા ન હોવા છતાં સંભળાવવું તે પાણીની સેર વગરની જમીનમાં કૂવો ખોદવા જેવું છે. [૧૧/૧]
श्रुतज्ञानना लक्षाने अशीखे
Jain Education International
ટીકાર્થ :- સાંભળવાની ઈચ્છા એ શ્રુતજ્ઞાનનું પ્રથમ લક્ષણ છે-એવું વિચક્ષણ પુરુષો કહે છે. સાંભળવાની ઈચ્છા ન હોવા છતાં શિષ્યને ગુરુ સંભળાવે (અર્થાત્ શ્રવણના પ્રયોજક કર્તા ગુરુ બને) તે સેર જલપ્રવાહ વગરની જમીનમાં કૂવો ખોદવા જેવું છે. જેમ જલપ્રવાહ કૂવો ખોદવાનું ફળ છે. તેમ જ્ઞાનનો પ્રવાહ વગેરે ધર્મ સંભળાવવાનું ફળ છે. શુશ્રૂષા = ધર્મેશ્રવણની ઈચ્છા એ સિરાસ્થાનીય છે. (જેમ જે જમીનમાં પાણીની સેર = જલધારા ન હોય અને તે જમીનમાં કૂવો ખોદવામાં આવે તો જલપ્રવાહ નીકળતો નથી. તેમ) ધર્મશ્રવણવિષયક ઈચ્છાસ્વરૂપ સેર ન હોય તો બોધપ્રવાહ વગેરે સંભવી ન શકે. માટે સાંભળવાની १. मुद्रितप्रती 'बोधप्रवाहादिश्रावणस्य' इत्यशुद्धः पाठः ।
For Private & Personal Use Only
=
www.jainelibrary.org