________________
२४६ दशमं षोडशकम्
ॐः खलानां ज्ञानामृतमपि विषायते
'श्रुण्वन्नित्यादि ।
यस्य तु दुरुपशमो विषयाभिलाषः स फलाभावादज्ञान्येवेति तदयोग्यत्वप्रतिपादनायाह -> श्रुण्वन्नपि सिद्धान्तं विषयपिपासातिरेकतः पापः । प्राप्नोति न संवेगं तदापि यः सोऽचिकित्स्य इति ॥१०/१४॥ श्रुण्वन्नपि सिद्धान्तं अर्थतः तीर्थकरोक्तं सूत्रतो गणधरग्रथितं विषयपिपासायाः = रूप-रस-गन्ध-स्पर्शशब्दाभिलाषस्य अतिरेकतः = उद्रेकात् पापः सङ्क्लिष्टाध्यवसायः तदापि = सिद्धान्तश्रवणकालेऽपि आस्तामन्यदा, यः संवेगं मोक्षाभिलाषं न प्राप्नोति सोऽचिकित्स्य इति = चिकित्साजहः, निरुपक्रमदोषवत्त्वादिति भावः
=
=
कल्याणकन्दली
| भावनाज्ञानविकलोऽप्यभव्यः श्रुतादिसामथ्यात् पूर्वकोटिसंवत्सरकालीनं द्रव्यचारित्रं सुनिर्मलं परिपाल्य ग्रैवेयके उपजायत इत्यप्युपपद्यते, विधिवत्गृहीतस्य श्रुतस्याऽपि तदानीं विषयविलासविनायकत्वात् । वस्तुतस्तु प्रतिगुणमनन्तपापपरमाण्वपगमं | विना जायमानत्वेन तस्य श्रुताभासत्वमेव, बाह्याऽऽकृतिसाम्येऽपि भिन्नजातीयत्वात् फलभेदोपपत्तिः । तदुक्तं ललितविस्तरायां -> विषयतृडपहार्येव हि ज्ञानं विशिष्टकर्मक्षयोपशमजं, नान्यद्, अभक्ष्याऽस्पर्शनीयन्यायेनाऽज्ञानत्वात् < [पृ. ४७] । तदुक्तं | चाणक्यसूत्रेऽपि -> इन्द्रियाणां प्रशमः शास्त्रम् - [चा. सू. ३०० ] । यस्तु सुबहु श्रुतमधीयानोऽपि महामोहमोहितमतिः | भोगजम्बालनिमग्नः तस्मिन्न तत्त्वतः श्रुतपरिणतिरस्तीति व्यतिरेकमुखेनापि विभावनीयम् ॥१०/१३॥
सः =
अनुपशान्तविषयाभिलाषः फलाभावात्
सम्यग्ज्ञानफलविरहात् अज्ञानी = मिथ्याज्ञानी एव । निश्चयतो ज्ञानफलं सर्वपापविरतिः व्यवहारतश्च ज्ञानफलं विषयवैमुख्योपधायिका तत्त्वरुचिः । सम्यग्ज्ञानं निश्चयतः षष्ठादिगुणस्थानके | सद्भूतव्यवहारतः चतुर्थादिगुणस्थानके असद्भूतव्यवहारतश्चाऽपुनर्बन्धादौ । विषय-कषायादिविपाकप्रमुखतत्त्वज्ञानश्रवणेऽपि |विषयपिपासावशः सन् संवेगशून्यो नात्र कुत्राप्यवतरतीति तदयोग्यत्वप्रतिपादनाय आह - श्रुण्वन्निति ।
=
मूलग्रन्थे दण्डान्वयस्त्वेवम् -> यः पापः सिद्धान्तं श्रुण्वन्नपि तदापि विषयपिपासातिरेकतः संवेगं न प्राप्नोति सः | अचिकित्स्य इति ॥ १० / १४ || इयं कारिका योगविंशिकावृत्त्यादौ [ यो. विं. १५] उद्धृता ।
=
सः = विषयवासनाविडम्बितत्वेन सिद्धान्तश्रवणकालेऽपि मोक्षाभिलाषविकलः चिकित्साऽनर्हः, निरुपक्रमदोषवत्त्वात् सिद्धान्तश्रवणानुपक्रम्यदोषोपेतत्वात् । अत एव व्याख्यानविधौ संवेगद्वारं पार्थक्येनोपदर्शितम् । यथोक्तं उपदेशपदे -> मंडलि णिसिज्ज अक्खा किइकम्मुस्सग्ग बंदणं जेठ्ठे । उवओगो संवेगो पसिणुत्तरसंगयत्थ त्ति - ||८५७|| सिद्धान्तार्थश्रवणेऽप्यनापन्नसंवेगो हि श्रोता श्रुताऽश्रुतयोरविशेषात् भवहेतुपक्षपातित्वात् ज्ञानफलविरहाच्च मिथ्यादृष्टिरेवाऽवगन्तव्यः । यथोक्तं विशेषावश्यकमहाभाष्ये -> सदसदविसेसणाओ भवहेउजहिच्छिओवलंभाओ । णाणफलाभावाओ मिच्छद्दिट्टिस्स अन्नाणं || - [ वि. आ.भा. उप पद. ४४४ ] इति । अत एव स तत्त्वतः सिद्धान्तश्रवणसौख्यं जात्यन्ध इव रूपं नोपलभते । तदुक्तं मूलकारैरेव उपदेशपदे जह चेवोवहयणयणो सम्मं रूवं न पासई पुरिसो । तह चेव मिच्छदिट्ठी विउलं सोक्खं न | पावेइ - ||४४१ ॥ प्रत्युत सिद्धान्तश्रवणमपि तदपायकारि, मिथ्याहङ्कारजननात् । तदुक्तं निशीथभाष्ये -> मद्दवकरणं णाणं | तेणेव य जे मदं समुचियंति । ऊणगभायणसरिसा अगदो वि विसायते तेसिं← ||६२२२|| अत एव प्रकृतिकुटिलाद् विद्याभ्यासः खलत्वविवृद्धये ← [ वल्लभदेवकृत सुभाषितावली - ३६४] इति मुरारिकथनमपि संवदति । तदुक्तं साङ्ख्यसूत्रेऽपि -> न मलिनचेतस्युपदेशबीजप्ररोहोऽजवत् [ ४/२९] इति । प्रकृतेऽजाभिधानो भार्यामृत्युशोकमलिनचित्तो वशिष्ठेनोपदिश्यमानो | नृपो बोध्यः । याज्ञवल्क्यस्मृतौ अपि मलिनो हि यथाऽऽदर्शो रूपालोकस्य न क्षमः । तथाऽविपक्वकरण आत्मज्ञानस्य
જેની વિષયતૃષ્ણા શાંત થતી નથી [અથવા મહા મુશ્કેલીથી અલ્પ કાળ માટે જ શાંત થાય છે.] તે જીવ પાસે જ્ઞાનનું ફળ ન હોવાથી અજ્ઞાની જ છે. માટે તે જ્ઞાન માટે અયોગ્ય છે- એમ બતાવવા માટે ગ્રંથકારથી જણાવે છે કે F
ગાથાર્થ :- જે પાપી જીવ સિદ્ધાન્તને સાંભળવા છતાં પણ તે સમયે પણ વિષયતૃષ્ણાના અતિરેકથી સંવેગને પામતો नधी ते अभिहित्स्य छे. [१०/१४]
Jain Education International
સભ્યજ્ઞાન લેવાને અઑઅને ઑળખીએ
ઢીકાર્થ :- અર્થથી તીર્થંકરે કહેલ અને સૂત્રથી ગણધરે રચેલ સિદ્ધાન્તને સાંભળવા છતાં રૂપ, રસ, ગંધ, સ્પર્શ, શબ્દસ્વરૂપ પાંચેય વિષયોની આસક્તિના ઉદ્રેકથી સંક્લિષ્ટ અધ્યવસાયવાળો જે પાપી જીવ સિદ્ધાન્ત સાંભળવાના સમયે પણ, બીજા સમયની વાત તો જવા દો, મોક્ષાભિલાષાસ્વરૂપ સંવેગને પ્રાપ્ત નથી કરતો તે નિરુપક્રમ = અસાધ્ય દોષવાળો હોવાથી [સિદ્ધાન્તશ્રવણાદિસ્વરૂપ ભાવરોગસંબંધી] ચિકિત્સા માટે અયોગ્ય છે. [૧૦/૧૪]
For Private & Personal Use Only
www.jainelibrary.org