________________
संयमस्य मोक्षकारणतामीमांसा
२४१
अभ्युदयः = स्वर्ग:, तत्फले एव आद्ये प्रीति - भवत्यनुष्ठाने । निःश्रेयसं = मोक्षः तत्साधने तथा चरमे = | वचनाऽसङ्गानुष्ठाने । एतेषां अनुष्ठानानां मध्ये विज्ञेये इह = प्रक्रमे गतापाये = विघ्नरहिते । अत एव पूर्वसंयमः स्वर्गहितुः अपूर्वसंयमश्च मोक्षहेतुरिति सिद्धान्तनयः ॥१०/९||
कल्याणकन्दली
प्रीति - भक्त्यनुष्ठाने विघ्नरहिते विघ्नरहिते
->
नरकाद्यायुर्बन्धादिशून्ये अभ्युदयफले = स्वर्गफलके विज्ञेये तथा वचनासङ्गानुष्ठाने आयुर्बन्ध-निदानाऽऽसङ्गाऽतिचारादिशून्ये निःश्रेयससाध = मोक्षफले विज्ञेये, तथाविधसामर्थ्ययुक्तत्वात् । अत एव = तथाविधसामर्थ्येन विघ्नरहितयोः प्रीति-भक्त्यनुष्ठानयोरभ्युदयफलकत्वात् वचनासङ्गानुष्ठानयोश्चापवर्गजनकत्वादेव पूर्वसंयमः = सरागसंयमः स्वर्गहेतुः अपूर्वसंयमश्च = वीतरागसंयमो हि मोक्षहेतुः इति सिद्धान्तनयः । तदुक्तं व्याख्याप्रज्ञप्ती • पुब्वतवेणं पुव्यसंजमेणं कम्मियाए संगियाए अज्जो ! देवा देवलोएसु उववज्जंति - [ २/५/११०] । अत्र अभयदेवसूरि| वरकृतव्याख्या -> पूर्वतप: सरागावस्थाभावितपस्या, वीतरागापेक्षया सरागावस्थायाः पूर्वकालभावित्वात् । एवं संयमोऽपि | अयथाख्यातचारित्रमित्यर्थः । ततश्च सरागकृतेन संयमेन तपसा च देवत्वावाप्तिः, रागांशस्य कर्मबन्धहेतुत्वात् । 'कम्मियाए' त्ति कर्म विद्यते यस्यासौ कर्मी, तद्भावस्तत्ता तया । अन्ये त्वाहुः कर्मणां विकार: कार्मिका तयाऽक्षीणेन कर्मशेषेण देवत्वावाप्तिरि| त्यर्थ: । 'संगियाए 'त्ति सङ्गो यस्यास्ति स सङ्गी, तद्भावस्तत्ता तया । ससङ्गो हि द्रव्यादिषु संयमादियुक्तोऽपि कर्म बध्नाति, ततः सङ्गितया देवत्वावाप्तिरिति <- । तदुक्तं निशीथभाष्येऽपि -> पुव्वतवसंजमा होंति रागिणो, पच्छिमा अरागस्स । | रागो संगो वृत्तो संगा कम्मं भवो तेणं ||३३३२ || - इति । समरादित्यकथायां मूलकारैरपि -> सरागसंजमेण संजमासंजमेण | बालतवोकम्मेणं अकामनिज्जराए देवाउयं कम्मं बंधइ <- [भव. ९ पृ. ९४६ ] इत्युक्तम् ।
->
=
इयञ्च साक्षात्सम्भविफलापेक्षया व्यवस्था बोध्या । परम्परया तु चतुर्णामपि निःश्रेयसफलकत्वमेव, अन्यथा सदनुष्ठानत्वव्याहते:, तदुक्तं श्रीहरिभद्रसूरिभिरेव पञ्चसूत्रवृत्तौ 'सदनुष्ठानं हि मोक्षफलमेव - [४/२ पृ. १२] इति । तदुक्तं सम्बोधप्रकरणे |[१/२३९] चैत्यवन्दनमहाभाष्येऽपि तम्हा चउव्विहंपि हु नेयमिणं पढमरूवगसमाणं | जम्हा मुणीहिं सव्वं परमपयनिबंधणं भणियं <- ||८९५ ।। प्रथमरूपकसमानं शुद्धरूप-समाहताक्षरोपेतरूपकसमम् । प्रकृतमूलग्रन्थेऽपि -> परमपदसाधनं सर्वमेवैतत् <- [१० / २] इति प्रागुक्तम् । एतेन -> ध्यायतोऽर्हत्सिद्धरूपेण चरमाङ्गस्य मुक्तये । तद्ध्यानोपात्तपुण्यस्य स एवान्यस्य भुक्तये ।। [६ / १६ ] ध्यानाभ्यासप्रकर्षेण त्रुट्यन्मोहस्य योगिनः । चरमाङ्गस्य मुक्तिः स्यात् तदन्यस्य च क्रमात् ॥ |<- [ ६ / ४२] इति तत्त्वानुशासनस्य कारिके व्याख्याते । वस्तुतस्तु घृतं दहती 'तिवदुपचारेणैव पूर्वतप: संयमयोः स्वर्गहेतुता, तदुक्तं अध्यात्मसारे तपः संयमयोः संयमहेतुत्वं यच्च पूर्वयोः । उपचारेण तदुक्तं स्याद् घृतं दहतीतिवत् ॥ <- [१८ / | १४७] इति ध्येयम् । सदुज्जु - सुयाणं निव्वाणं संजमो चेव <- [ ७८९ ] इति आवश्यकनिर्युक्तिवचनादपि संयमस्य | मोक्षकारणत्वं लक्ष्यते । परे तु तपस्त्वचारित्रत्वाभ्यामेव मोक्षहेतुता, सङ्कोचे मानाभावात्, सरागताकालीनप्रशस्तसङ्गादेव स्वर्गोत्पत्तेः । वस्तुतः सरागतपसः स्वर्गहेतुत्वं 'सविशेषणौ हि विधिनिषेधौ विशेषणमुपसङ्क्रामतः सति विशेष्यबाधे' इति न्यायेन रागमात्र एव पर्यवस्यति - इत्याहुः ।
->
अपरे तु मोक्षोद्देशेन क्रियमाणयोस्तप: संयमयोर्मोक्षहेतुत्वमेव, स्वर्गस्य चानुद्देश्यत्वान्न तत्फलत्वम् । कर्मांशप्रतिबन्धाच्च
=
=
=
Jain Education International
= ચારેય અનુષ્ઠાનોના કુળની વિચારણા
ટીડાર્થ :- પ્રસ્તુતમાં ચારેય અનુષ્ઠાનોની અંદર નરકાયુષ્યબંધ વગેરે વિઘ્ન(થી)રહિત એવા પ્રથમ બે = પ્રીતિઅનુષ્ઠાન અને ભક્તિઅનુષ્ઠાન સ્વર્ગસ્વરૂપ ફળને આપનારા છે. તથા આયુષ્યબંધ, નિયાણું, આસંગદોષ, અતિચાર વગેરે વિઘ્નથી રહિત એવા છેલ્લા બે = વચનાનુષ્ઠાન અને અસંગાનુષ્ઠાન મોક્ષના સાધન છે-એમ જાણવું. આથી જ પૂર્વ સંયમ સ્વર્ગનો હેતુ છે અને અપૂર્વ संयम मोक्षनो हेतु छे आ प्रभागे सिद्धान्तनीति छे. [10 / ७]
વિશેષાર્થ :- ભગવતીસૂત્રમાં જણાવેલ છે કે પૂર્વ સંયમ = સરાગ સંયમ અને સરાગ તપ સ્વર્ગને આપનારા છે. તેમ જ અપૂર્વ સંયમ = વીતરાગ સંયમ અને વીતરાગ તપ મોક્ષને આપનારા છે. પ્રીતિઅનુષ્ઠાન અને ભક્તિઅનુષ્ઠાન રાગ = પૂર્વઅનુષ્ઠાનસ્વરૂપ હોવાથી સ્વર્ગદાયી છે. વચનઅનુષ્ઠાન અને અસંગઅનુષ્ઠાન એ અપૂર્વઅનુષ્ઠાન -વીતરાગઅનુષ્ઠાનસ્વરૂપ હોવાથી મોક્ષદાયક છે - આ વાત બરાબર જ છે. અહીં સ્વર્ગદાયક તરીકે તેનો ઉલ્લેખ સાક્ષાત્ ફળની અપેક્ષાએ કરવામાં આવેલ છે. આથી પૂર્વે १. 'सिद्धान्तनयेन' इत्यन्यत्र पाठः ।
For Private & Personal Use Only
www.jainelibrary.org