________________
२४० दशमं षोडशकम्
88 बचनाऽसङ्गानुष्ठानभेदविचारः 88 वचनाऽसमानुष्ठानयोर्विशेषमाह -> 'चक्रे 'त्यादि ।
चक्रभ्रमणं दण्डात्तदभावे चैव यत्परं भवति । वचनासङ्गानुष्ठानयोस्तु तज्ज्ञापकं ज्ञेयम् ॥१०/८॥ चक्रधमणं = कुम्भकारचक्रपरावर्त्तनं दण्डात् = दण्डसंयोगात् तदभावे चैव यत् परं = अन्यत् भवति, वचनासङ्गानुष्ठानयोः प्रस्तुतयोः तु तदेव ज्ञापकं = उदाहरणं ज्ञेयम् । यथा चक्रभ्रमणमेकं दण्डसंयोगात्प्रयत्नपूर्वकाद्भवति एवं वचनानुष्ठानमप्यागमसंयोगात् प्रवर्तते । यथा चान्यच्चक्रभ्रमणं दण्डसंयोगाभावे केवलादेव संस्काराऽपरिक्षयात् सम्भवति एवमागमसंस्कारमात्रेण वस्तुतो वचननिरपेक्षमेव स्वाभाविकत्वेन यत्प्रवर्तते तदसङ्गानुष्ठानमितीयान् भेद इति भावः ॥१०/८|| एषामेव चतुर्णामनुष्ठानानां फलविभागमाह -> 'अभ्युदयेत्यादि । अभ्युदयफले चाऽऽद्ये निःश्रेयससाधने तथा चरमे । एतदनुष्ठानानां विज्ञेये इह गतापाये ॥१०/९॥
___ कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> दण्डात् चक्रभ्रमणं, तदभावे चैव यत् परं भवति । वचनाऽसङ्गनुष्ठानयोस्तु तत् ज्ञापकं ज्ञेयम् ॥१०/८॥ इयं कारिका दीक्षाद्वात्रिंशिका-योगविंशिकावृत्त्यादौ [द्वा.द्वा.२८/८ यो.गा.१८] समुद्भुता वर्तते । एतदनुसारिणी गाथा सम्बोधप्रकरणे [१/२३७] चैत्यवन्दनमहाभाष्येऽपि -> कुंभारचक्कभमणं पढमं दंडा तओ वि तयभावे । वयणाऽसंगाणुट्टाणभेयकहणे इमं नायं ।।८९३।। - इत्येवं वर्तते ।
यथा चक्रभ्रमणं एकं = आद्यं दण्डसंयोगात् = दृढदण्डव्यापारात् प्रयत्नपूर्वकात् = प्रयत्नविशेषजनितात् भवति एवं भिक्षाटनादिविषयं वचनानुष्ठानमपि आगमसंयोगात् = सदागमव्यापारात् प्रयत्नविशेषपूर्वकात् प्रवर्तते । यथा च अन्यत् = दण्डसंयोगोत्तरकालीनं चक्रभ्रमणं दण्डसंयोगाभावे सत्यपि केवलादेव संस्काराऽपरिक्षयात् = दृढसंस्कारवशात् सम्भवति एवं आगमसंस्कारमात्रेण = केवलेन वचनाऽऽहितदृढतरसंस्कारेण वस्तुतः तदानीं वचननिरपेक्षमेव = जिनागमोक्तिस्मरणानपेक्षमेव स्वाभाविकत्वेन यत् भिक्षाटनादि प्रवर्तते तत् असङ्गानुष्ठानमिति इयान् भेदः तयोः ।। । एतेन प्रीति-भक्ति-वचनान्यतमविरहे भिक्षाटनाद्यनुष्ठानानुपपत्तिरपि प्रत्याख्याता, आज्ञासंस्कारमात्रादपि तदपा न चैवं सामायिकभङ्ग इति शङ्कनीयम्, तथाविधक्लिष्टकर्मविगमात् अभिष्वङ्गरहिततया विशुद्धभावयोगेन भिक्षाटनाऽनटनयो: समवृत्तिरेवाऽऽज्ञायोगादटतीति स्वीकारात्, तदुक्तं योगशतके -> किरिया उ दंडजोगेण चक्कभमणं व होइ एयस्स । आणाजोगा पुवाणुवेहओ चेव णवरं ति ||१९|| <- इति । इदमेवाभिप्रेत्य भगवद्गीतायां -> वासीचन्दनकल्पत्वं या कल्याणैकशीलता । चन्दनच्छेददृष्टान्तात् सद्धर्मातिशयात् मुनेः ।। - [भ.गी. ५६] इत्युक्तम् ॥१०/८॥
मूलग्रन्थे दण्डान्वयस्त्वेवम् -> इह एतदनुष्ठानानां गतापाये आद्ये अभ्युदयफले तथा चरमे च निःश्रेयससाधने विज्ञेये| ॥१०/९॥ इयं कारिका कूपदृष्टान्तविशदीकरणादौ [कू.द.गा.६] अतिदिष्टा ।
વચન અનુષ્ઠાન અને અસંગ અનુષ્ઠાનના ભેદને ગ્રંથકારશ્રી જણાવે છે કે –
ગાથાર્થ :- પ્રથમ ચક્રમમાણ દંડથી થાય છે અને અન્ય ચક્રશ્વમાગ દંડ વિના જ થાય છે. આ વચનાનુકાન અને અસંગાનુકાનનું | Eid . [१०/८]
ટીકાર્ચ :- પહેલી વાર કુંભારના ચક્રનું ભ્રમણ દંડના સંયોગથી થાય છે અને [અપેક્ષિત દૃઢ દંડસંયોગ ખસી ગયા પછી] અન્ય ચકભ્રમણ થાય છે તે દંડસંયોગનો અભાવ હોતે છતે જ થાય છે. તે જ પ્રસ્તુત વચનાનુકાન અને અસંગાનુકાનનું દટાંત જાણવું. જેમાં પ્રથમ વાર ચક્રભ્રમણ પ્રયત્નપૂર્વક દંડસંયોગથી થાય છે. એ રીતે વચનાનુકાન પણ આગમસંયોગથી પ્રવર્તે છે. જેમ અન્ય = ઉત્તરકાલીન ચક્રભ્રમણ દંડસંયોગ વિના કેવળ સંસ્કારનો = વેગનો નાશ ન થવાથી જ સંભવે છે તેમ આગમવિષયક માત્ર સંસ્કારથી જ, વાસ્તવમાં આગમનિરપેક્ષ જ, સ્વાભાવિક રૂપે જે પ્રવર્તે છે તે અસંગાનુકાન છે - આમ આટલો ભેદ १यनानुन अने असंगानु४ान पथ्ये खेलो छ - सा आशय छे. [१०/८]
આ ચારેય અનુકાનોના ફળસંબંધી વિભાગને સંથકારશ્રી જણાવે છે,
ગાથાર્થ :- પ્રસ્તુતમાં આ અનુકાનોની અંદર અપાયરહિત એવા પ્રથમ બે અનુષ્ઠાન સ્વર્ગાત્મક ફળને આપનાર તથા છેલ્લા मे अनुहान भोक्षनां सायन . [१0/-]
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org