________________
888 उपधेयसाङ्कर्येऽप्युपाध्यसाकर्यम् 8 यत्त्वभ्यासातिशयात् सात्मीभूतमिव चेष्ट्यते सद्भिः । तदसङ्गानुष्ठानं भवति त्वेतत्तदावेधात् ॥१०/७॥ यत्तु = यत्पुजः अभ्यासातिशयात् = भूयो भूयःतदासेवनेन संस्कारविशेषात्, सात्मीभूतमिव = चन्दनगन्धज्यायेजाऽऽत्मसाद्भुतमिव चेष्ट्यते - क्रियते सद्धिः सत्पुरुषैः जिनकल्पिकादिभिः तत् = एवंविध असङ्गानुष्ठानम् । भवति तु एतत् = जायते पुजरेतत् तदावेधात् = प्राथमिकवचनसंस्कारात् ॥१०/७||
कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> यत्तु अभ्यासातिशयात् सात्मीभूतमिव सद्भिः चेष्ट्यते तत् असङ्गानुष्ठानं, एतत्तु तदावेधात् भवति ॥१०/७॥ इयमपि कारिका दीक्षाद्वात्रिंशिका-योगविंशिकावृत्त्यादौ [द्वा.द्वा.२८/८ यो.गा.१८ पृ.१७] समुद्धृता वर्तते । एतत्कारिकानुसारिणी गाथा सम्बोधप्रकरणे [१/२३६] चैत्यवन्दनमहाभाष्येऽपि -> जं पुण अब्भासरसा सुयं विणा कुणइ फलनिरासंसो । तमसंगणुट्ठाणं विनेयं निउणदंसीहिं ।।८९२।। <- इत्येवं वर्तते । भूयो भूयः तदासेवनेन = शास्त्रार्थप्रतिसन्धानपूर्वकानुष्ठानाऽऽसेवनेन सआतात् संस्कारविशेषात् = दृढतरसंस्कारात् । इदमुक्तं भवति व्यवहारकाले जिनवचनप्रतिसन्धानाऽनपेक्षं दृढतरतत्संस्कारात् चन्दनगन्धन्यायेनाऽऽत्मसाद्भूतं जिनकल्पिकादीनां क्रियासेवनं असङ्गानुष्ठानम् । एतत्तु स्वरूपमुखेन तन्निरूपणम् । जिनकल्पिकादिभिरिति आदिपदेन निष्पन्नयोगादिग्रहणम् । इदश्च शुद्धनिश्चयनमतमनुरुध्यावगन्तव्यम् । स्वभ्यस्तसूत्रोच्चारकौशल्यापेक्षया सुपरिशीलित-सत्क्रियानैपुण्यापेक्षया वा व्यवहारानुगृहीतनिश्चयनयेन स्थवीरकल्पिकादीनां व्यवहारनयमतेन च मार्गानुसार्यादीनामप्यंशतोऽसङ्गानुष्ठानमवगन्तव्यम् । नानानयाभिप्राये विरोधो नोद्भावनीयः, अन्यथा 'योगदृष्टिसमुच्चये [का.८] क्षपकश्रेण्यां प्रातिभज्ञानमुपदर्शितं योगबिन्दौ [गा.५२-५५] त्वचरमशरीरिणामपि तदावेदितमिति कथं न विरोध ?' इत्यादिशङ्काजालपतितः शब्दमात्रग्राही नानानयतात्पर्याग्राही कांदिशिकः कां दिशमाश्रयेत् ? इत्यलं प्रसङ्गेन । प्रस्तुतं प्रस्तुमः ।। योगदीपिकाकारोऽसङ्गानुष्ठानस्य कारणमाह - जायते पुनः एतत् = असङ्गनुष्ठानं प्राथमिकवचनसंस्कारात् = पूर्वकालीनवचनानुष्ठानाऽऽहितसत्संस्कारवशात् । प्रीत्यादित्रितयभिन्नानुष्ठानत्वमसङ्गानुष्ठानत्वमिति ज्ञेयम् । तदुक्तं धर्मसङ्ग्रहटिप्पणके -> एतत्त्रितयभिन्नानुष्ठानत्वं = असङ्गानुष्ठानत्वं, निर्विकल्पस्वरसवाहिप्रवृत्तिकत्वं वा <- [पृ.६] इति ।
यथासम्भवं प्रीति-भक्त्यनुष्ठानयोरिच्छायोगस्य वचनानुष्ठाने शास्त्रयोगस्याऽसङ्गानुष्ठाने च सामर्थ्ययोगस्य समावेश: कर्तव्यः ।
इदश्चाऽसङ्गानुष्ठानं सत्प्रवृत्तिपदादिभिरभिधीयते, यथोक्तं योगदृष्टिसमुच्चये -> सत्प्रवृत्तिपदं चेहाऽसङ्गानुष्ठानसंज्ञितम् । महापंथप्रयाणं यदनागामिपदाऽऽवहम् ।।१७५।। प्रशान्तवाहितासंज्ञं विसभागपरिक्षयः । शिववर्त्म ध्रुवाध्वेति, योगिभिर्गीयते ह्यदः ।।१७६।। प्रभायां दृष्टौ सत् असङ्गानुष्ठानं परायां दृष्टौ प्रकृष्यते । एतेन -> समाधिनिष्ठा तु परा तदाऽऽसङ्गविवर्जिता । सात्मीकृतप्रवृत्तिश्च तदुत्तीर्णाशयेति च ॥१७८।। इति योगदृष्टिसमुच्चयवचनमपि ब्याख्यातम् । न चैवं तयोरभेदः शङ्कनीयः, उपधेयसाङ्कर्येऽप्युपाध्यसाकादिति दिक् ॥१०/७॥
ચોથા અસંગ અનુમાનનું સ્વરૂપ ગ્રંથકારથી જણાવે છે.
ગાશાસ્ત્ર :- વળી જે અતિશય અભ્યાસથી આત્મસાન થયેલ હોય તેમ પુરુ વડે કરાય તે અસંગ અનુષ્ઠાન જાણવું. आसारामसंसारथी उत्पन्न थाय छ. [१०/७]
* असंगमनुष्ठान * ટીકાર્ય :- વળી, વારંવાર અનુષ્ઠાનનું સેવન કરવાથી જે વિશિષ્ટ સંસ્કાર ઉત્પન્ન થાય તેના લીધે, જાણે કે ચંદન-ગંધ દાંતથી, આત્મસાન થયેલ હોય તેમ, જિનકલ્પી વગેરે દ્વારા જે [અનુકાન] કરાય તે અસંગ અનુષ્ઠાન જાણવું. આ અસંગ અનુષ્ઠાન પ્રાથમિક = પૂર્વકાલીન આગમસ્મરણના સંસ્કારથી ઉત્પન્ન થાય છે.
વિશેષાર્થ :- જેમ ચંદન ગંધને આત્મસાત કરે છે. તેમ જિનવચનસ્મરણપૂર્વક વારંવાર અનુષ્ઠાન કરવાથી એવા પ્રકારના આત્મસાન થયેલ સંસ્કાર દ્વારા જિનકલ્પીઓની ધર્મક્રિયાઓ સ્વાભાવિક થાય છે. આ અસંગ અનુષ્ઠાન જાણવું. અસંગ અનુષ્ઠાન જિનાજ્ઞાસ્મરણપૂર્વક નથી થતું પરંતુ પૂર્વકાલીન = અભ્યાસકાલિક જિનાજ્ઞાસ્મરણ દ્વારા ઉત્પન્ન થયેલ સદનુષ્ઠાનવિષયક આત્મસંસ્કારથી ઉત્પન્ન થાય છે. વીર કલ્પ અવસ્થામાં પરમાત્માપ્રકાશિત પ્રવચનગર્ભિત પ્રણિધાનપૂર્વક પડિલેહણ, પ્રમાર્જન, પ્રતિક્રમણ, પ્રભુભક્તિ, પ્રવચન વગેરે કરવાના લીધે જિનાજ્ઞાવિષયક દૃઢ સંસ્કાર ઉત્પન્ન થાય છે. જેમ ચંદનમાં ગંધ એક-મેક થાય છે તેમ જિનવચનવિષયક સુસંસ્કારે આત્મસાન થાય છે. ત્યાર બાદ જિનકલ્પને સ્વીકારવાથી જિનકલ્પીઓની પ્રવૃત્તિ પૂર્વકાલીન સંસ્કાર દ્વારા જ થાય છે; નહિ કે પ્રત્યેક પ્રવૃત્તિમાં જિનાજ્ઞાસ્મરણપૂર્વક. માટે જિનકલ્પીની ધર્મક્રિયા અસંગ અનુષ્ઠાન કહેવાય છે. [૧૦/૭].
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org