________________
88 पुण्यानुबन्धिपुण्यन्यास-प्रशान्तवाहिताविचारः
२३३
दशमं सदनुष्ठानषोडशकम 'सदनुष्ठानं लभते (७/१६) इत्युक्तम् । तत्स्वरूपमेवाऽऽह -> 'सदनुष्ठानमित्यादि ।
सदनुष्ठानमतः खलु बीजन्यासात्प्रशान्तवाहितया । सञ्जायते नियोगात् पुसां पुण्योदयसहायम् ॥१०/१॥ सदनुष्ठानं अतः खलु = उचितक्रमजनितादेव बीजन्यासात् = पुण्यानुबन्धिपुण्यनिक्षेपात्, प्रशान्तं वोढुं शीलं यस्य तद्धावस्तत्ता तया चित्तसंस्काररूपया, सआयते = जिष्पद्यते, नियोगात् = अभ
तया चित्तसंस्काररूपया, सायते = जिष्पद्यते, नियोगात् = अभ्यासात् पुंसां = मनुष्याणां पुण्योदयसहायं = 'पुण्याजुभावसहकृतम् ॥१०/१|| तदेव भेदत आह -> 'तदित्यादि ।
कल्याणकन्दली __मूलग्रन्थे दण्डान्वयस्त्वेवम् -> अतः खलु प्रशान्तवाहितया बीजन्यासात् नियोगात् पुंसां पुण्योदयसहायं सदनुष्ठानं सञ्जायते ॥१०/१॥
उचितक्रमजनितादेव = सद्धर्मक्रियाक्रमगतं यत् द्रव्य-क्षेत्र-काल-ध्वन्यवस्थाऽधिकार-स्थापनादिसम्बन्धि औचित्यं तज्जनितादेव पुण्यानुबन्धिपुण्यनिक्षेपात् । एतावता द्रव्याद्यौचित्यनिरपेक्षतायां तत्प्रतिक्षेपे वा पुण्यानुबन्धिपुण्यबन्धाऽसम्भव आवेदितः, कारणं विना कार्यानुदयात् । यद्वा उचितक्रमजनितादेव = चरमावर्तप्रवेशाऽपुनर्बन्धक-मार्गाभिमुख-मार्गपतित-सम्यग्दृष्ट्याधुचिताऽवस्थाक्रमेणैव निष्पन्नात् पुण्यानुबन्धिपुण्यनिक्षेपात् । एतेन पापानुबन्धिपाप-पापानुबन्धिपुण्य-निरनुबन्धपुण्य-मन्दशुभानुबन्धिपुण्यमध्यमपुण्यानुबन्धिपुण्य-प्रबलपुण्यानुबन्धिपुण्यबन्ध इत्येवं क्रमेण कर्मबन्धः यथाक्रमं भवाभिनन्दि-ग्रन्ध्या-सन्नाऽभव्याऽ-पुनर्बन्धक मार्गाभिमुख-मार्गपतित-सम्यग्दृष्ट्यादीनां प्रायशो भवतीति विद्योतितम् । एतावता कालाभिधानं कारणमावेदितम् । पुण्यानुबन्धिपुण्यन्यासः प्रशान्तवाहितया सआयते । प्रशान्तवाहितया = चित्तसंस्काररूपया = विशुद्धचित्त-संस्कारात्मिकया । अष्टकवृत्तिकृत्तु -> स्व-परोपकारकरणधर्मया प्रशान्तवाहितया <- [७/१] इत्याचष्टे व्यवहारनयेन । श्रीमुनिचन्द्रसूरयस्तु ललितविस्तरापञ्जिकायां -> प्रशान्तः = रागादिक्षयक्षयोपशमोपशमवान्, वहति = वर्तते, तच्छीलश्च यः स तथा तद्भावस्तत्ता - [पृ.११७] इत्याचक्षते ।
तत्त्ववैशारद्यां -> व्युत्थानसंस्कारमलरहितनिरोधसंस्कारपरम्परामात्रवाहिता = प्रशान्तवाहिता - [पा. यो. सू.३/१० त.वै.पृ.२८८] इत्याचष्टे । -> 'प्रशान्तवाहिता = निश्चल-निरोधधारया वहनं' - [यो.वा.पृ.२८८] इति योगवार्तिककारः विज्ञानभिक्षुः । भोजमते तु -> परिहृतविक्षेपतया सदृशपरिणामप्रवाहः = प्रशान्तवाहिता - [राजमार्तण्ड पृ.१२३] | भावागणेशवृत्तौ च -> प्रशान्तवाहिता = निश्चलप्रवाहः <- इति प्रोक्तम् । नागोजीभट्टवृत्तौ तु -> प्रशान्तवाहिता = व्युत्थानसंस्काररहितचिरकालवाहिता - [पा.यो.सू.३/१० ना.वृ.पृ.१२३] इत्युक्तम् । -> श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा शुभाशुभम् । न हृष्यति ग्लायति च स शान्त इति कथ्यते ।। [४/३२] इति महोपनिषद्वचनात् हर्षशोकादितरङ्गरहिता एकाग्रवृत्तिधारा = प्रशान्तवाहिता <- इत्यपि वदन्ति । तादृशप्रशान्तवाहितया अभ्यासात् = पुनः पुनः परिशीलनात् पुण्यानुभावसहकृतं = विधिवज्जिनपूजाद्युपार्जितविशुद्धपुण्यविपाकोदयलब्धबाह्यधर्मसामग्रीसाहाय्यकं सदनुष्ठानं सञ्जायते । इत्थञ्च प्रशान्तवाहिता = स्वभावाभिधानं कारणं, अभ्यासः = पुरुषार्थाख्यं कारणं, पुण्यानुभावः = कर्मनामकं
ॐ २तिहायिनी 3 ૯ માં થોડશકમાં “જિનપૂજક સદનુકાન પામે છે' આ વાત જણાવી. ૧૦ મા થોડશકમાં સદનુકાનના સ્વરૂપને મૂલકારથી | पे छे.
ગાથાર્થ :- આ રીતે જ પ્રશાંતવાહિતાથી બીજન્યાસ થવાના કારણે પુરુષોને પુણ્યોદય સહકૃત સદનુષ્ઠાન અભ્યાસ કરવાથી भणे छे. [१०/१]
ઢીકાર્ચ - ચિત્તસંસ્કાર સ્વરૂપ પ્રશાંતવાહિતાથી ઉચિત ક્રમથી ઉત્પન્ન થયેલ એવા જ પુણ્યાનુબંધી પુણ્યને વાવવાથી અભ્યાસ ધ કરવાના લીધે પુરુષોને પુણ્યના પ્રભાવથી સહકૃત એવું સદનુષ્ઠાન પ્રાપ્ત થાય છે. [૧૦/૧]
જ8 સાત પ્રકારનું અદ્ભુત એશિલ્ય વિશેષાર્થ :- આ શ્લોકમાં બે વાત વિશેષ ધ્યાન દેવા યોગ્ય છે. [૧] સદનુકાનપ્રયોજક પુણયાનુબંધી પુણ્યની વાવણી १. मुद्रितप्रतौ -> तद्भावस्त <- इति पाठः, ह.प्रतौ च 'तत्तया' इतिपाठः । २. ह.प्रतौ -> 'पुण्यानुभवसहकृतम्' <- इति पाठः सोऽपि शुद्धः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org