________________
२२८ नवमं षोडशकम्
88 पूजानिषेधे तीर्थकृदाशातना 88 जापि प्रवर्तमानस्य साधोस्तत्राऽवद्यमेव चित्ते स्फुरति, उत्कृष्टगुणारूढत्वात्। न तु गृहिणः, अतथात्वादिति कर्तृपरिणामवशादधिकारानधिकारौ । अत एव सामायिकस्थस्य गृहिणोऽपि तत्राजधिकारः ।
कल्याणकन्दली वाच्यम्, ज्ञानादिगुणवृद्धेः सद्भावात् शुद्धिप्रर्कषात् । तदुक्तं पञ्चवस्तुके -> आरंभ-चाएणं णाणाइगुणेसु बड्ढमाणेसु । दचट्ठयहाणीवि हु न होइ दोसाय परिसुद्धा - ॥१३०६।। युक्तश्चैतत् । न हि यदाद्यभूमिकावस्थस्य गुणकरं तदुत्तरभूमिकावस्थस्यापि तथा, रोगचिकित्सावद्धर्मस्य शास्त्रे व्यवस्थितत्वात् । तदुक्तं मूलकारैरपि अष्टकप्रकरणे -> अधिकारिवशात् शास्त्रे धर्मसाधनसंस्थितिः । व्याधिप्रतिक्रियातुल्या विज्ञेया गुणदोषयोः <- | जीवानुशासने देवसूरिभिरपि -> किं चहिगारवसाउ धम्माणुट्ठाणवित्ति सत्थेसु । वाहिपडिक्कियतुल्ला दोसगुणेहि य समणुनेया ।।२८०॥ ८- इत्युक्तम् । तदुक्तं श्रावकधर्मविधिप्रकरणेऽपि -> अहिगारिणा खु धम्मो, कायञ्चो अणहिगारिणो दोसो । आणाभंगाओ च्चिय, धम्मो आणाए पडिबद्धो ॥३॥ ८- इति ।
> अनधिकारिणो हि विराधनानिबन्धनोऽनर्थ एव । अत एवोक्तं 'अविधिकृताद् वरमकृतमेव' <- [गा.३ वृ. ] इति व्यक्तमुक्तं मानदेवसूरिभिः श्रावकधर्मविधिवृत्तौ [२/५]। तथा पूजायाः द्रव्यस्तवरूपत्वात्तस्य च भावस्तवहेतुत्वात् भावस्तवाऽऽरूढस्य यते: न द्रव्यस्तवेऽधिकारः, निष्प्रयोजनत्वात् । न हि यानारूढो ग्रामप्राप्ती यानं न मुञ्चति, न वा तन्मोचने तत्र द्वेषप्रसङ्गः, तथाऽननुभवात् । दृश्यते हि प्रयोजनाधिकारव्याप्ता शिष्टानां प्रवृत्तिः । इदमेवाभिप्रेत्य महानिशीथेऽपि -> भावच्चणमुग्गविहारया य दव्यच्चणं तु जिणपूआ । पढमा जईण, दुण्ह वि गिहीण ।। - [अध्य.३] इत्युक्तम् । टीकाकृताऽपि ज्ञानसारे -> द्रव्यपूजोचिता भेदोपासना गृहमेधिनाम् | भावपूजा तु साधूनामभेदोपासनात्मिका ।। - [२९/८] इत्युक्तम् । भक्तिद्वात्रिंशिकायामपि -> यतिरप्यधिकारी स्यान्न चैवं तस्य सर्वथा । भावस्तवाधिरूढत्वादा-भावादमूदशा ॥२८|| - इत्युक्तम् । परेषामपि द्रव्यस्तवाद्भावस्तवस्याभ्यर्हितताऽभिमता, तदुक्तं भगवद्गीतायां -> श्रेयान् द्रव्यमयाद्यज्ञात् ज्ञानयज्ञः परंतप ! - [४/३३]] तथापि द्रव्यस्तवकरणे तु स्वच्छन्दचारित्वादिकं यतेः स्यात्, यथोक्तं महानिशीथसूत्रे -> जे णं केइ साहू वा साहुणी वा
रे दव्वत्थयं कुज्जा से णं अजएइ वा असंजए वा देवभोइए वा देवगचेइ वा जाव णं उम्मग्गपइट्ठिएइ वा दुरुज्झियसीले वा कुसीलेइ वा सच्छंदयारिएइ वा आलवेज्जा <- [८] । ___ अत एव = कर्तृपरिणामवशादधिकारानधिकारयोर्व्यवस्थितत्वादेव सामायिकस्थस्य गृहिणोऽपि मुनेरिव तत्र = जिनपूजायां अनधिकारः, तस्यापि तदानीं सावधनिवृत्ततया भावस्तवाऽऽरूढत्वेन च श्रमणकल्पत्वात्, तदवाप्तिपूर्तिकालं यावत्सचित्तादिस्पर्शरहितस्यैव व्रतपालकत्वात् । जिनपूजां चिकीर्षुस्तु सचित्तपुष्पादिवस्तूनि समुपादायैव तां करोति, तद्विना पूजाया एवाऽसम्भवात्, प्रतिकार्यं कारणस्य भिन्नत्वादिति व्यक्तं प्रतिमाशतकवृत्तौ गा.३६] । तदुक्तं कथारत्नकोशेऽपि -> जइ पुण पोसहनिरया सच्चित्तविवजया जइसरिच्छा । उत्तरपडिमासु ठिया पुप्फाई ता विवजंतु ।। - [पृ.१००/गा.१०] | इति । किञ्च पूजाया विहितत्वे तदङ्गस्य पुष्पग्रहणादेरप्यनुमतत्वमनाविलमेव । इदमेवाभिप्रेत्य पञ्चाशके -> कज्जं इच्छंतेण अणंतरं कारणंपि इ8 तु । जहआहारज-तित्तिं, इच्छंतेणेह आहारो || - [६/३४] इति मूलकारैरुक्तम् । यस्तु सर्वथैव पुष्पपूजादिकमपलपति स तीर्थकृदाशातनाकारी, तदुक्तं जीतकल्पभाष्ये -> अण्णं वा एवमादी अवि पडिमासु वि तिलोगमहियाणं । जति भणति कीस कीरति मल्लालंकारमादीयं ॥ जो वि पडिरूवविणयो तं सव्वं अवितहं अक्कूव्वंता । वंदण-थइमादीयं तित्थगरासायणा एसा ॥ - [२४६५-२४६६] પ્રવૃત્તિ કરે તો પાગ સર્વસાવઘનિવૃત્ત એવા સાધુ ઉત્કૃષ્ટ ગુણોમાં આરૂઢ હોવાથી સ્નાનાદિ સમયે તેમના મનમાં પાપ = જીવવિરાધના જ ફુરે છે. જ્યારે ગૃહસ્થ જિનપૂજા કરે ત્યારે તેના મનમાં વિરાધનાનો ભાવ નથી આવતો પણ ભક્તિનો જ ભાવ જાગે છે. આથી પૂજકના પરિણામના આધારે જિનપૂજાનો અધિકાર અને અધિકાર છે. [સાધુ કાચા પાણી કે વનસ્પતિને અડતા ન હોવાથી પૂજા માટે સ્નાન કરે કે ફૂલપૂજા કરે ત્યારે તેના મનમાં ભક્તિના બદલે જીવવિરાધનાનો પરિણામ જાગતો હોવાથી સાધુને જિનપૂજાનો અધિકાર નથી. ગૃહસ્થ તો રોજ સ્નાનાદિ કરતા જ હોય છે. ગૃહસ્થ જીવવિરાધનામાં સ્વતઃ પ્રવૃત્ત હોવાથી જિનપૂજમાં તેને વિરાધનાનો નહિ પણ ભક્તિનો ભાવ જાગે છે. માટે ગૃહસ્થને જિનપૂજાનો અધિકાર છે.] કર્તાના પરિણામના આધારે જિનપૂરના અધિકાર અને અનધિકારની વ્યવસ્થા હોવાથી જ સામાયિકમાં રહેલા ગૃહસ્થને પણ જિનપૂજા કરવાના વિશે અધિકાર નથી. સામાયિકમાં ન રહેલો હોય એવા પણ જે શ્રાવક પૃથ્વી વગેરે જીવોની વિરાધનાના ડરવાળો હોય, યતનાવળ હોય, સાવદ્ય ક્રિયાઓને ઘટાડવાની રુચિવાળો હોય તથા સાધુધર્મનો અનુરાગી હોય [સાધુ થવાની ભાવનાવાળો હોય તેવા શ્રાવકને પણ ધર્મ માટે સાવદ્યપ્રવૃત્તિ
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org