________________
२२० नवमं षोडशकम्
ॐ ग्रन्थ्यासन्नकृतपूजाया धर्ममात्रफलकत्वमीमांसा
| मात्रफलैवेयं सद्योगादिभावादनुबन्धासिद्धेश्चेत्ययं पूजाविंशिकायां विशेषः ||९/१०॥
तिसृषु अपि यद्भवति तदाह
प्रवरमित्यादि ।
प्रवरं पुष्पादि सदा चाद्यायां सेवते तु तद्दाता । आनयति चान्यतोऽपि हि नियमादेव द्वितीयायाम् ॥९/११ ॥ प्रवरं = प्रधानं पुष्पादि = पुष्प - गन्धमाल्यादि सदा च सर्वदैव आद्यायां = प्रथमपूजायां सेवते तु = | सेवत एव स्वहस्तेन ददात्येवेत्यर्थः, तद्दाता = तत्पूजाकर्ता । आनयति च वचनेन अन्यतोऽपि हि क्षेत्रान्तरात्
=
कल्याणकन्दली
| निष्फलैव सा स्यादिति शङ्कनीयम्, प्रथमकरणभेदेन = योगदृष्टिसम्मतचरमत्वविशिष्ट-यथाप्रवृत्तकरणेन ग्रन्थ्यासन्नस्य अपुनर्बन्धक| मार्गाभिमुख मार्गपतित-मार्गानुसार्यादेः च = हि धर्ममात्रफला प्राधान्येन परत्र सद्गति सद्धर्म-सद्गुर्वादिप्रापकपुण्यलक्षणधर्ममात्रफला एव इयं काययोगादिसारा पूजा । कुत: ? उच्यते सद्योगावञ्चक-क्रियाऽवञ्चक-फलावञ्चकयोगवैकल्येऽपि सद्योगादि| भावात् = परमेश्वरप्रतिकृति - देवालय - साधुजनसमागमादिसद्भावात् अनुबन्धाऽसिद्धेश्च = अमोघफलाऽऽक्षेपकमोहनीयक्षयोपशम| विशेषानुविद्धदृढसंस्कारलक्षणाऽनुबन्धानुपधानाच्च । ग्रन्ध्यासन्नत्वेन विशिष्टसद्योगादिसद्भावः अकृतग्रन्थिभेदत्वेन च विशिष्टानुबन्धाऽ| सिद्धिरिति भावः । सदनुबन्धसिद्धौ त्ववञ्चकत्वलाभेन प्रकृष्ट चित्तशुद्धि - पुष्टिफलेयं स्यात् । सद्योगादिविरहे तु धर्ममात्रफलाऽपि | न स्यादियम् । एतावता च प्रज्ञापनादिगुणोपेतानामपुनर्बन्धकादीनां चैत्यवन्दन-पूजनादिक्रियाधिकारित्वमावेदितम्, तथैव शास्त्रव्यवस्थासद्भावात् । यथोक्तं पञ्चाशके पढमकरणोवरि तहा अणहिणिविद्वाण संगया एसा - [ ३ / २८] इति । गृहीतश्रामण्यलिङ्गानामभव्यादीनान्तु विशिष्टसद्योगादिसद्भावोऽपि तत्त्वतो नाभ्युपेयते, सदनुबन्धसाधकशक्तिवैकल्यात् । चरमयथाप्रवृत्तकरणकाले ग्रन्थ्यासन्नस्य तु सद्योगादिशक्तिसद्भावेऽपि तदभिव्यक्तिविरहः, यद्वा सद्योगादिसद्भावेऽपि सदनुबन्धशक्तिविरहः, | यद्वा चरमयथाप्रवृत्तकरणवर्तितया सदनुबन्धशक्तिसत्त्वेऽपि तदभिव्यक्तिवैकल्यं, सदनुबन्धशक्त्यभिव्यक्तावेव सद्धर्मबीजादिसद्भाव | उपयुज्यत इति तावद्वयमुत्पश्यामः । दर्शितश्व पूजाविंशिकायां अयं विशेष: पढमकरणभेएणं गंधासन्नस्स धम्ममित्तफला ।
| साहुज्जुगाइभावो जायइ तह नाणुबंधुत्ति ॥८॥ इत्यादिना । सम्प्राप्तबीजानां भगवदर्चाया भावमार्गप्रापकत्वस्य महापथविशोधकत्वस्य च तत्रैव भवठिइभंगो एसो तह य महापहविसोहणो परमो । नियविरियसमुल्लासो जायइ संपत्तबीयस्स ||९|| | संलग्गमाणसमओ धम्मट्ठापि बिंति समयण्णू । अवगारिणोऽवि इत्थसाहणाओ य सम्मति ॥ १० ॥ - इत्यादिनोक्तत्वात् । ग्रन्ध्यासन्नस्य शिवजनन्यपि सर्वेयं पूजा भवाभिनन्दिनां भवजननीति ध्येयम् । तदुक्तं सम्बोधप्रकरणे मूलकारैरेव -> पदमा | समंतभद्दा संपइभद्दाऽऽगमेसिभद्दा य । बीया पुण सव्वमंगलनामा किरियापहाणा सा ॥ ५२ ॥ पढमा पुण सुहजोगाऽवंचकवत्ता य परिभवावत्ता । चरिमा अज्झप्पधम्मफलमित्ता सन्वमित्तीणं [? सव्वसिद्धी] ||५३ || सम्मद्दिट्ठीणमिणमा चरिमावत्ताण मिच्छदिट्ठीणं । अडगुणत्रीयमुहाणं सिवजणणी परेसिं भवजणणी ॥ ५४ ॥ - ॥९/१०॥
->
मूलग्रन्थे दण्डान्वयस्त्वेवम् • आद्यायां तु तद्दाता सदा च प्रवरं पुष्पादि सेवते तु । द्वितीयायां चान्यतोऽपि हि नियमादेव आनयति ॥९ / ११ ॥ भक्तिद्वात्रिंशिकाया [गा. २६]मियं कारिका समुद्धृता तथा इयमेव कारिका प्राकृतभाषया परावर्त्य चैत्यवन्दनमहाभाष्ये -> पवरं पुप्फाईयं पढमाए ढोयए उ तक्कारी । आणेइ अन्नओ वि निओगओ बीयपूजाए || २१४ || < इत्येवमुद्धृता वर्तते । प्रवरमिति । तत एव प्रायः 'मदीयोत्तमद्रव्यसमर्पणेन तदीयमुत्तममात्मगुणवैभवमहमाप्नुयामि' त्येवं प्रवरभावोदयसम्भवः । तदुक्तं सम्बोधप्रकरणे • पवरेहिं साहणेहिं पायं भावो वि जायए पवरो <- [१६७] । पुष्पगन्धमाल्या
I
-->
=
પ્રભુપ્રતિમા, દેવાલય, સાધુ વગેરેનો સમાગમ હોવાના કારણે તેને ધર્મની પ્રાપ્તિ થાય છે. પરંતુ અમોઘ ફળ લાવે તેવા મોહનીય કર્મના ક્ષયોપશમથી ગૂંથાયેલ દૃઢ સંસ્કાર સ્વરૂપ ગુણનો અનુબંધ સિદ્ધ ન થયેલ હોવાથી સાનુબંધ ધર્મસિદ્ધિ નથી થતી. તેમ જ તે મંદિર-પ્રભુપ્રતિમા-સાધુસમાગમ તેને માટે સત્યોગાવંચક નામનો યોગ પણ બની શકતો નથી. આનાથી સૂચિત થાય છે કે સમ્યગ્દર્શનની ગેરહાજરીમાં વિશિષ્ટ ગુણાનુબંધ સિદ્ધ થઈ ન શકે. પ્રસ્તુત પ્રભુપૂજા સાધુસમાગમથી ગ્રંથિઆસન્ન જીવને ધર્મમાત્રની સિદ્ધિ થાય છે. એનો અર્થ એ છે કે સદ્ગતિ, સદ્ગુરુ, સદ્ધર્મ વગેરેના પ્રાપક પુણ્યની નિષ્પત્તિ થાય છે. धर्मय पुण्यो छे [ ८/१० ]
ત્રણેય પૂજામાં જે થાય છે તેને જણાવતાં મૂલકારથી કહે છે કે
ગાથાર્થ :- પ્રથમ પૂજામાં પૂજક હંમેશા શ્રેષ્ઠ પુષ્પોનું સેવન [= અર્પણ] કરે છે જ. બીજી પૂજામાં અન્ય ક્ષેત્રમાંથી પણ નિયમા શ્રેષ્ઠ પુષ્પો મંગાવે છે. [૯/૧૧] સર્વ ગુણોમાં અધિક અને સત્યોગના સારભૂત એવા સત્ બ્રહ્મતત્ત્વની પૂજામાં તત્પર
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org