SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ 8 समन्तभद्रादिपूजाविचारः 88 २१९ अभ्युदयप्रसाधनी च अन्या = अपरा = वाग्योगप्रधाजा । निर्वाणं साधयतीति (निर्वाणसाधनी) च मनोयोगसारा । फलदा तु = 'फलदैव एकैका यथार्थसंज्ञाभिः = अन्वर्थाभिधानैः, एतासां -> समन्तभद्रा, सर्वमङ्गला, सर्वसिद्धिफला <- इत्येतान्यप्यन्वर्थजामानि गीयन्ते । तथेह प्रथमा प्रथमाऽवश्वकयोगात् सम्यग्दृष्टेर्भवति, द्वितीया तु द्वितीयावञ्चकयोगादुत्तरगुणधारिणः. तृतीया च तृतीयावञ्चकयोगात् परमश्रावकस्यैव । प्रथमकरणभेदेन ग्रन्थ्यासन्नस्य च धर्म = कल्याणकन्दली । एतासां तिसृणां जिनपूजानां यथाक्रमं [१] समन्तभद्रा, [२] सर्वमङ्गला [३] सर्वसिद्धिफला इत्येतानि अपि अन्वर्थनामानि = गुणनिष्पन्नानि नामानि गीयन्ते, यथोक्तं मूलकारैरेव पूजाविंशिकायां -> पूआ देवस्स दहा विनेया दव्वभावभेएणं । इयरेयरजुत्ता वि ह तत्तेण पहाण-गुणभावा || पढमा गिहिणो सा वि ह तहा तहा भावभेयओ तिविहा । काय-वय-मणविसुद्भिसंभूओगरणपरिभेया ।। सव्वगुणाहिगविसया नियमुत्तमवत्थुदाणपरिओसा । कायकिरियप्पहाणा समंतभद्दा पढमपूया ।। बीया उ सव्वमंगलनामा वायकिरियापहाणेसा । पुबुत्तविसयवत्थुसु ओचित्ताणयणभेएण ।। तइया परतत्तगया सवुत्तमवत्थुमाणसनिओगा । सुद्धमणजोगसारा विन्नेया सव्वसिद्धिफला ॥ - [८/१-५] इति । प्रथमा = विघ्नोपशमनी समन्तभद्राभिधाना काययोगसारा जिनपूजा प्रथमावञ्चकयोगात् = प्राग्व्यावर्णितात् [८/ १३ पृ.२००] सद्योगावञ्चकाभिधानयोगात् सम्यग्दृष्टेः भवति । न च पूजाविधावभगुरार्हद्भक्तिलक्षणं वैयावृत्त्याभिधानं तपः सम्यग्दशः कथं सङ्गच्छेत ? इति शङ्कनीयम, 'सस्सूस-धम्मराओ गुरुदेवाणं जहासमाहीए । वेयावच्चे णियमो वयपडिवत्ति अ भयणाओ || - [१/४] इति पश्चाशकवचनादिना प्रसिद्धस्य सम्यक्त्वलक्षणीभूतस्य वैयावृत्त्यस्य चारित्रमोहनीयभेदानन्तानुबन्धिव्यये जायमानस्याऽविरतसम्यग्दृशोऽपि सम्भवे बाधकाभावात् । न चैवं चारित्रलेशसम्भवेऽविरतत्वानुपपत्तिबोधिकेति शङ्कनीयम्, यतो दर्शनश्रावकाणां तपसो गौणतया भगवद्भक्तिः सम्यक्त्वाङ्गतया सम्यक्त्वफलेनैव फलवती, फलवत्सन्निधावफलं तदङ्गमिति न्यायात् । तथा च तावता नाविरतत्वहानिः । न हि कार्षापणमात्रधनेन धनवान्, एकगोमात्रेण गोमानिति पञ्चाशकवृत्तिकारः । अधिकमत्रत्यं तत्त्वं प्रतिमाशतकवृत्त्यादितोऽवसेयम् [प्र.श.गा.५१] । ___द्वितीया अभ्युदयप्रसाधनी सर्वमङ्गलाभिधाना वचनयोगसारा पूजा तु द्वितीयाऽवञ्चकयोगात् = पूर्वं [८/१३ पृ.२००] निरुक्तात् क्रियाऽवञ्चकयोगात् उत्तरगुणधारिणः श्रावकस्य विज्ञेया । यथोक्तं पूजाविशिकायां -> पढमाऽवंचकजोगा सम्मदिट्ठिस्स होइ पढमत्ति । इयरेयरजोगेणं उत्तरगुणधारिणो नेया ।। -[८/६] इति । तृतीया च निर्वाणसाधनी सर्वसिद्धिफलाभिधाना मनोयोगसारा पूजा तृतीयावञ्चकयोगात् = प्राग्व्याख्यात-फलावञ्चकयोगप्रभावात् परमश्रावकस्यैव विज्ञेया । सा च साधुपदलाभद्वारा निर्वाणसाधनीति ध्येयम् । यथोक्तं मूलकारैरेव पूजाविंशिकायां -> तइया तइयावंचकजोगेणं परमसावगस्सेव । जोगा य समाहीहिं साहुजुगकिरियफलकरणा ।। ८-[८/७] इति । न चैवं सत्यपुनर्बन्धकस्य पूजायामनधिकार: स्यात् करणेऽपि वा પ્રકૃઢ રીતે સાધે છે. તથા મનોયોગપ્રધાન પૂ મોક્ષને સાધે છે - નિર્વાણને સાધે છે. આ દરેક પૂજા પોતાની અર્થાનુસારી સંજ્ઞાથી ફળ આપે છે. પ્રસ્તુત ત્રણેય પૂજાઓનું ક્રમશઃ સમન્તભદ્રા, સર્વમંગલા, સર્વસિદ્ધિફલા - આમ પણ સાર્થક નામ કહેવાય છે છે. તે આ રીતે-પ્રસ્તૃતમાં સોગાવંચક નામના યોગથી કાયયોગપ્રધાન વિનોપશમની પૂજા સમ્યગ્દષ્ટિને હોય છે. કિયાઅવંચક નામના બીજા યોગથી ઉત્તરગુણધારી શ્રાવકને વચનયોગપ્રધાન અભ્યદયપ્રસાધની પૂજા હોય છે. ફલાવંચક નામના તૃતીય યોગથી પરમ થાવકને જ મનોયોગપ્રધાન નિર્વાણસાધની પૂજા હોય છે. પ્રથમ કરણવિશેષ અર્થાત્ ચરમ યથાપ્રવૃત્તકરણ દ્વારા ગ્રન્વિદેશસમીપવર્તી એવા જીવને આ પૂજ ધર્મમાત્રફલક જ હોય છે; કારણ કે તેને સત્ યોગ વગેરેનો સદ્ભાવ છે અને અનુબંધપ્રાપ્તિનો અભાવ छ - माम मा विशेषता पूनविशिswiru छ. [४/१०] ॐ योग-पूला-प्रधान-अधि808 विशेषार्थ :યોગ પ્રધાન ફળ અધિકારી સોગાવંચક કાયયોગપ્રધાન વિનોપશમન અવિરત સમકિતી કિયાઅવંચક વચનયોગપ્રધાન અભ્યદય ઉત્તરગુણધારી શ્રાવક ફલાવંચક મનોયોગપ્રધાન નિર્વાણ પરમ શ્રાવક યથાપ્રવૃત્તકરણ દ્વારા ગ્રંથિદેશની નજીક આવેલ ચરમાવર્તી જીવ જે પ્રભુપૂજા કરે છે તેનું ફળ માત્ર ધર્મપ્રાપ્તિ છે. સત્યોગ १. 'सैवैकैका' इति मुद्रितप्रती । अन्यत्र च 'फलदैवैका' इति पाठः । पाठद्वितयमिदमशुद्धमिति ध्येयम् । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.004834
Book TitleShokshaka Prakarana Part 2
Original Sutra AuthorHaribhadrasuri
AuthorYashovijay of Jayaghoshsuri
PublisherDivya Darshan Trust
Publication Year2000
Total Pages250
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy