________________
* कल्याणकन्दलीकृत्प्रशस्तिः
३७५ इति महोपाध्यायश्रीकल्याणविजयगणिशिष्य-मुख्यपण्डितश्रीलाभविजयगणिशिष्यपण्डित-श्रीजीतविजयगणिसतीर्थपण्डित-श्रीजयविजयगणिचरणकमलचयरिक- श्रीपद्मविजयगणिसहोदरोपाध्याय-श्रीयशोविजयगणिविरचिता योगदीपिकाजाम्नी षोडशकवृत्तिः सम्पूर्णा ॥ एषा षोडशकव्याख्या संक्षिप्तार्थावगाहिनी । सिद्धाऽक्षततृतीयायां भूयादक्षयसिद्धये ॥शा
__ कल्याणकन्दली तत्पट्टगगने जाता मृगाङ्कसमकान्तयः । प्रेमसूरीश्वराः शिष्यादिलब्धिभिस्समन्विताः ॥२॥ तत्पट्टाकाशविद्योतका भानुसमकान्तयः । भुवनभानुसूरीशा एकान्तवादनाशकाः ॥३॥ यैरिष्टफलसिद्ध्यादयः सिद्धान्ताः सुरक्षिताः । साम्प्रतं कलिकालेऽपि सझुक्याय कृतश्रमाः ।।४।। न्यायविशारदैर्यष्टोत्तरशतौलिकाः । वर्धमानाभिधानस्य तपसोऽपि कृता मुदा ॥५॥ राजन्ते साम्प्रतं धन्याः तत्पट्टगगनाङ्गणे । श्रीजयघोषसूरीशा निशेशसमकान्तयः ।।६।। सकलसङ्घमध्ये हि सूरिपदार्पणक्षणे । स्वगुरुदत्तसिद्धान्तदिवाकरपदान् स्तुवे ।।७।। प्रमादपरिकल्पितं यदि किश्चिदालोचितं तदस्ति खलु दूषणं मम हि नैव चान्यस्य तत् । यदत्र नवकल्पनाकलिततर्कवाग्वैभवं तदेव जयसुन्दरस्फुरदमोघशिक्षाफलम् ॥८॥ पञ्चविंशतिभिः सार्धं प्रव्रजितः स मे गुरुः । विजयो विश्वकल्याणः पुण्यशाली प्रभावकः ॥९॥ प्रसन्नास्याय सौम्याय चैत्योद्धारोद्यताय हि । भुवनभानुसूरीशशिष्याय गुरवे नमः ॥१०॥ अनेकशास्त्रसंवादं तत्र तत्र प्रदर्य हि । स्वपरदर्शनानां च समन्वयं प्रसाध्य वै ।।११।। अङ्गुष्ठाक्षाग्रराशिप्रमिते [२०५१] विक्रमवत्सरे । शिरुरनगरे ज्ञानपञ्चम्यां हि कृतिः कृता ।।१२।। युग्मम् । कृतिरियं सदा नन्द्याच्छ्रीयशोविजयस्य हि । अनया लभतां लोको मिथ्यात्वविजयश्रियम् ।।१३।।
इति षोडशकोपरि योगदीपिकोपरि च मुनियशोविजयकृता कल्याणकन्दलीटीका ।
આ પ્રમાણે મહોપાધ્યાય શ્રી કલ્યાણવિજય ગણિવરના શિષ્ય મુખ્ય પંડિત શ્રીવાભવિજય ગણિવરના શિષ્ય પંડિત જીતવિજય ગણિવરના ગુરુભાઈ પંડિત શ્રી નયવિજય ગણીના ચરણકમલમાં ભ્રમરતુલ્ય તેમ જ પંડિત પદ્મવિજય ગણિવરના સહોદર [ભાઈ|| ઉપાધ્યાયશ્રી યશોવિજય ગણી દ્વારા રચાયેલી યોગદીપિકા નામની ષોડશકટીકા સંપૂર્ણ થઈ.
સંક્ષિપ્ત અર્થનું અવગાહન કરનારી ષોડશકની આ વ્યાખ્યા અક્ષય તૃતીયાના દિવસે પૂર્ણ થઈ. તે અક્ષય સિદ્ધિને માટે થાવ.[૧]
સ્વ. વર્ધમાનતપોનિધિ ન્યાયવિશારદ આચાર્યશ્રી ભુવનભાનુસૂરીશ્વરજીના શિષ્યરત્ન મુનિરાજશ્રી વિશ્વકલ્યાણવિજયજીના શિષ્ય || મુનિ યશોવિજયે પડશક અને તેની યોગદીપિકા ટીકાનો ગુર્જર ભાષામાં કરેલો ભાવાનુવાદ સાનંદ સંપૂર્ણ થાય છે.
अति सुह-५, वि.सं.२०५१, शि९२.
SE कल्याणं भवतु श्रीसङ्घस्य ॐ ** शिवमस्तु सर्वजगतः ।
१. ह. प्रती -> उपाध्यायश्रीयशोविजयगणि... <- इत्यादिः पाठः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org