________________
ॐ ज्ञान-कर्मसमुच्चयस्थापनम् 8
३७३ लोच्य : 'सूक्ष्मप्रज्ञया विचार्य पुंसा = पुरुषार्थप्रवृत्तेन कुशले सदनुष्ठाने प्रवर्तितव्यं न्यायः = अविचलितमार्गः सतां = सत्पुरुषाणां एषः वर्तते, नान्यः ॥१६/१७||
अथैते भावाः कुतोऽभिहिताः किमर्थ वा ? इत्याह -> 'एत'इत्यादि । एते प्रवचनतः खलु समुद्धृता मन्दमतिहितार्थं तु । आत्मानुस्मरणाय च भावा भवविरहसिद्धिफलाः ॥१६/१६॥
एते = प्रस्तुता भावाः प्रवचनतः = द्वादशाङ्गात् खलुशब्दो वाक्यालङ्कारे समुदधताः = एकवाक्यतया पृथक् स्थापिताः, मन्दमतीनां = विस्तृतावगाहनाऽक्षमधियां हितार्थं तु = हितायैव च = पुनः आत्मनोऽनुस्मरणाय, कीदृशाः भावाः ? आदित आरभ्य भवविरहः = मोक्ष: तस्य सिद्धिः = निष्पत्तिः फलं येषां ते तथा ॥१६/१६||
कल्याणकन्दली स्याऽकिश्चित्करत्वात् । इदमेवाभिप्रेत्य उपदेशमालायां -> जहा खरो चंदणभारवाही, भारस्स भागी न हु चंदणस्स । एवं
नाणी चरणेण हीणो नाणस्स भागी न ह सुग्गईए ॥४२६।। - इत्युक्तम् । भद्रबाहस्वामिभिरपि आवश्यकनियुक्ती -> न नाणमित्तेण कन्जनिप्फती - [१५१] इत्युक्तम् । द्वात्रिंशिकाप्रकरणे श्रीसिद्धसेनदिवाकरेणाऽपि -> यथा गदपरिज्ञानं नालमामयशान्तये । अचारित्रं तथा ज्ञानं न बुद्धयध्यवसायमात्रेण ।। - [१७/२७] इत्युक्तम् । महोपनिषदि अपि -> परमं पौरुषं यत्नमास्थायाऽऽदाय सूद्यमम् । यथाशास्त्रमनुद्वेगमाचरन् को न सिद्धिभाक् ।। - [५/८८] इत्युक्तम् । भगवद्गीतायामपि -> स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः - [१८/४५] इति क्रियायोगस्योपादेयताऽऽविष्कृता । मनुस्मृतावपि -> आचारः परमो धर्मः - [१/१०८] इत्युक्तम् । तदुक्तं चाणक्यसूत्रेऽपि -> नाऽऽचरितात् शास्त्रं गरीयः - [४७१] इति । महाभारतेऽपि -> आचारप्रभवो धर्मः - [अनु.पर्व १०४-१५५] इत्युक्तम् । ___ अत्र स्थितपक्षस्तु ज्ञान-क्रियोभयसमुच्चयकारी । तदुक्तं विशेषावश्यकमहाभाष्ये हयं नाणं किरियाहीणं, हया अन्नाणओ किरिया । पासंतो पंगुलो दड्डो, धावमाणो अ अंधओ ॥११५९|| संजोगसिद्धी अ फलं वयंति, न हु एगचक्केण रहो पयाई । अंधो य पंगू य वणए समिच्चा ते संपणट्ठा नगरं पविट्ठा ॥ - [११६५] इति । मरणसमाधिप्रकीर्णकेऽपि -> नाणेण विणा करणं न होइ, णाणं पि करणहीणं तु । नाणेण य करणेण य दोहि वि दुक्खक्खयं होइ ।। - [१४७] इत्युक्तम् । तदुक्तं योगवाशिष्ठेऽपि | -> उभाभ्यामेव पक्षाभ्यां यथा खे पक्षिणां गतिः । तथैव ज्ञान-कर्मभ्यां जायते परमं पदम् ॥१/७|| केवलात् कर्मणो ज्ञानान हि मोक्षोऽभिजायते । किन्तूभाभ्यां भवेन्मोक्षः साधनं तूभयं विदुः ॥१/८॥ - इति । योगशिखोपनिषदि अपि -> योगहीनं कथं ज्ञानं मोक्षदं भवतीह भोः । योगोऽपि ज्ञानहीनस्तु न क्षमो मोक्ष-कर्मणि ।। [१/१३] &- इत्युक्तम् । ईशोपनिषदि -> विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्यु ती| विद्ययाऽमृतमश्नुते ॥[११] & इत्येवं ज्ञानकर्मणोः साहित्यमुक्तम् । मुण्डकोपनिषदि अपि -> आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः - [३/४] ज्ञानक्रियासाहित्यं श्रूयते । तदुक्तं कूर्मपुराणेऽपि -> कर्मणा सहिताज्ज्ञानात् सम्यग्योगोऽभिजायते । ज्ञानश्च कर्मसहितं जायते दोषवर्जितम् ।। [३/२३] इति । विष्णुपुराणेऽपि -> तस्मात्तत्प्राप्तये यत्नः कर्तव्यः पण्डितैनरैः । तत्प्राप्तिहेतुर्विज्ञानं कर्म| चोक्तं महामते ! ॥ [ ] इत्येवं ज्ञान-क्रियासमुच्चय उक्त इति भावनीयं तत्त्वमेतद् गीतार्थगुरुसमीपे ॥१६/१५।।
मूलग्रन्थे दण्डान्वयस्त्वेवम् -> भवविरहसिद्धिफला: खलु एते मन्दमतिहितार्थं तु आत्मानुस्मरणाय च प्रवचनतः समुद्धृताः ॥१६/१६॥ योगदीपिका स्पष्टैव ॥१६/१६॥
બુદ્ધિથી વિચારીને સદનુકાનમાં પ્રવૃત્તિ કરવી જ જોઈએ.'] સજ્જન પુરુષોનો આ જ અવિચલિત માર્ગ છે, બીજે નહિ. [અર્થાત્ | જાણયા વિના પ્રવૃત્તિ ન કરવી અને જાણ્યા પછી સારી પ્રવૃત્તિ કરવી જ.] [૧૬/૧૫].
આ ભાવ ક્યાંથી કહ્યા ? અથવા શા માટે કહ્યા ? આનો જવાબ દેતા ગ્રંથકારશ્રી કહે છે કે –
ગાથાર્થ :- મોક્ષસિદ્ધિરૂપી ફળને આપનાર આ ભાવો મંદબુદ્ધિવાળા જીવોના હિત માટે અને પોતાના સ્મરણ માટે દ્વાદશાંગીમાંથી સમુદ્ધાર કરેલા છે. [૧૬/૧૬]
આ ગ્રંથરત્રના પ્રોજન ટીકાર્ચ :- વિસ્તૃત અર્થના અવગાહન માટે અસમર્થ એવા મંદબુદ્ધિવાળા જીવોના હિત માટે જ અને પોતાના સ્મરણ માટે આ પ્રસ્તુત ભાવો દ્વાદશાંગીસ્વરૂપ જિનપ્રવચનમાંથી એકવાક્યસ્વરૂપે =િ એકપ્રકરણસ્વરૂપ = પરસ્પરઅર્થસંબદ્ધવાક્યસમૂહસ્વરૂપે અલગ સ્થાપેલા છે. પહેલેથી માંડીને ભવવિરહની = મોક્ષની નિષ્પત્તિ સ્વરૂપ ફળને આ ભાવો આપે છે. [૧૬/૧૬] १. ह.प्रती -> 'सूक्ष्मेक्षया <- इति पाठः । सोऽपि शुद्धः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org