________________
३५६ षोडशं षोडशकम्
ॐ परमानन्दप्रकाशनम् ॐ
षोडशं समरसषोडशकम् एवं परतत्त्वमभिधाय तद्दर्शनानन्तरं यद्धवति तदाऽऽह -> 'एतदित्यादि ।
एतद्दृष्ट्वा तत्त्वं परममनेनैव समरसापत्तिः । सञ्जायतेऽस्य परमा परमानन्द इति यामाहुः ॥१६/१॥ एतत् = प्रस्तुतं परमं तत्त्वं दृष्ट्वा अनेनैव = परतत्त्वेज समरसापत्तिः = एकता सआयते अस्य = दृष्टुः केवलिनः, परमा : प्रधाना, परमानन्द इति यां = समरसापत्तिं आहुः वेदान्तवादिजः ॥१६/१|| परतत्त्वस्यैव शब्दान्तराभिधेयतामाह -> 'सेत्यादि ।
सैषाऽविद्यारहितावस्था परमात्मशब्दवाच्येति । एषैव च विज्ञेया रागादिविवर्जिता तथता ॥१६/२॥ अविद्यया = परतन्त्रप्रसिद्धाऽज्ञानरूपया रहिताऽवस्था सा एषा या परतत्त्वरूपा परमात्मशब्देन वाच्या, इति
__कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> एतत् परमं तत्त्वं दृष्ट्वा अनेनैव अस्य परमा समरसापत्तिः सञ्जायते यां ‘परमानन्द' इति आहुः ॥१६/१॥ समरसापत्तिः = एकता = जीव-ब्रह्मणोरभेदः । इदश्चात्रावधेयम्- द्वितीयषोडशके [गाथा-१५] नवमषोडशके [गाथा-८] एकादशषोडशके गाथा-११] अत्र च समरसापत्तिशब्दः मूलकृत्प्रयुक्तः तथापि योगदीपिकाकृता सर्वत्र सन्दर्भाद्यनुसारेण विभिन्ना व्याख्या कृता । ततश्च कदाग्रहं विमुच्य शब्ददराग्रहं त्यक्त्वा मुमुक्षुभिः सर्वत्र तात्पर्यार्थपरतया भाव्यमित्युपदेशो लभ्यते । समरसापत्तिं = जीवब्रह्मैक्यं 'परमानन्द' इति वेदान्तवादिन आहुः । यथोच्यते वेदान्तिभिः -> स्वयंज्योतिः आत्मैष परमानन्दः । स एष सुखस्य पराकाष्ठा ।। -[ ] इति । -> यो वै भूमा तत्सुखम् <- [७/२३/१] इति छान्दोग्योपनिषद्वचनस्याऽप्यत्रैव तात्पर्यम्, 'भूमा = निरतिशयमहान्' इति वासुदेवशास्त्री [सि.बिं.वृत्ति. पृ.१४४] । यथोक्तं नादबिन्दपनिषदि -> तेनैव ब्रह्मभावेन परमानन्दमश्नुते -२०] । बृहदारण्यकोपनिषदि अपि -> एष एव परमानन्दः -- [४/३/३३] इत्युक्तम् । यदपि जाबालोपनिषदि -> यदा पश्यति चात्मानं केवलं परमार्थतः । मायामानं जगत् कृत्स्नं तदा भवति निवृत्तिः ।। - [९/१२] इत्युक्तं तत्रापि निवृत्तिपदेन परमानन्द एव तदभिमतः । मधुसूदनेनाऽपि भक्तिरसायने -> भगवान् परमानन्दस्वरूपः स्वयमेव हि -[१/१०] इति वदता मुक्तिस्वरूपमेवाऽऽवेदितमिति ध्येयम् । तदुक्तं सिद्धान्तबिन्दी अपि मधुसूदनेनैव -> विद्यया अविद्यानिवृत्तौ स्वप्रकाशतया स्वयमेव परमानन्दरूपेण प्रकाशते -- [श्लो.९ पृ.१४६] इति । अष्टकप्रकरणे मूलकारैरपि -> परमानन्दरूपं तद् गीयतेऽन्यैर्विचक्षणैः । इत्थं सकलकल्याणरूपत्वात् साम्प्रतं ह्यदः ।। - [३२/८] इत्युक्त्या अन्यपदेन वेदान्तिग्रहणमकारि । जन्मादिविरहेण परमानन्दः व्याप्तः, तदुक्तं शास्त्रवार्तासमुच्चये -> जन्माभावे जरामृत्योरभावो हेत्वभावतः । तदभावे च निःशेषदःखाभाव: सदैव हि ॥ परमानन्दभावश्च तदभावे हि शाश्वतः । व्याबाधाभावसंसिद्धः सिद्धानां सुखमुच्यते ।। - [११/५१-५२] 'तदभावे = निःशेषदःखाभावे' ॥१६/१॥
__ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> सा एषा अविद्यारहितावस्था परमात्मशब्दवाच्या इति । एषा एव च रागादिविवर्जिता तथता विज्ञेया ॥१६/२॥ परतन्त्रप्रसिद्धाऽज्ञानरूपया = वेदान्ति-बौद्धादिदर्शनप्रसिद्धाऽज्ञान-मायादिस्वरूपया रहितावस्था ॥१६/२॥
* २लायिनी * આ રીતે ૧૫ માં પડશકમાં પરતત્વને જણાવીને પરતવના દર્શન પછી જે થાય છે તેને ગ્રંથકારશ્રી જણાવે છે. ગાથાર્થ :- આ ચેક પરતત્વને જોઈને તેનાથી જ આ કેવલીને શ્રેષ્ઠ સમરસપ્રાપ્તિ થાય છે, જેને “પરમાનંદ' કહે છે.
1 ટીકાર્ય :- આ પ્રસ્તુત શ્રેષ્ઠ પરતત્ત્વને જોઈને આ જ પરતવ વડે તેના દટા કેવલીને પ્રધાન એવી સમરસપ્રાપ્તિ = જીવ અને બ્રહ્મતત્વની એકતા ઉત્પન્ન થાય છે કે જે સમરસાપત્તિને વેદાંતીઓ પરમાનંદ કહે છે. [૧૬/૧]
પરતત્વ જે અન્ય શબ્દ વડે વાચ્યું છે તેને ગ્રંથકારશ્રી જણાવે છે. માથાર્થ :- પરતત્વ એ જ અવિઘારહિત અવસ્થા છે. પરમાત્મશબ્દથી વાચ્ય છે. આ જ અવસ્થા રાગાદિરહિત થતા रावी. [१६/२]
પરત્વના પર્યાય શબ્દો છે ટીડાઈ :- અન્ય દર્શનમાં પ્રસિદ્ધ અજ્ઞાન સ્વરૂપ અવિદ્યાથી રહિત અવસ્થા તે આ પરતવસ્વરૂપ છે. તે પરમાત્મશબ્દથી
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org