________________
ॐ ज्ञानस्य ज्ञेयदेशाऽगमनसमर्थनम्
सिद्धदर्शनस्य सर्ववस्तुज्ञानव्याप्यत्वम्
३४९
पर आनन्दोऽस्मात् अस्मिन् वेति परानन्दम् । 'परानन्द्यमिति पाठान्तरम्, तत्र परैः = उत्कृष्टैः आनन्द्यं = प्रार्थनीयं इत्यर्थः । अतीतार्थे तीतशब्दः सिद्धिविनिश्चयादिग्रन्थेषु दृश्यते । ततः तीतादीनां = अतीत वर्तमानाऽजागतकालत्रयवर्त्तिपदार्थानां परिच्छेदकं = यथावज्ज्ञातृस्वभावं अलं = समर्थ धुवं शाश्वतं चेति समयज्ञाः = आगमज्ञा अभिदधति ॥१७ /११ ||
एवं केवलज्ञानस्वरूपमभिधाय तत्र परतत्त्वयोजनामाह
एतदित्यादि ।
एतद्योगफलं तत्पराऽपरं दृश्यते परमनेन । तत्तत्त्वं यद् दृष्ट्वा निवर्तते दर्शनाकाङ्क्षा ॥ १५/१२ ॥
=
तत् एतत् प्रस्तुतं केवलज्ञानं परापरं योगफलं परयोगस्याऽपरयोगस्य च फलभूतं नान्यस्वतन्त्र - | व्यापारभूतम् । अनेन - केवलज्ञानेन तत् परं तत्त्वं परमात्मस्वरूपं दृश्यते । 'तत् किं ?' यद् दृष्ट्वा 'दर्शनाकाङ्क्षा = दर्शनेच्छा निवर्तते सिद्धस्वरूपदर्शने सर्वस्य वस्तुजो दृष्टत्वात् ॥ १५/१२ ॥
कल्याणकन्दली
+
->
| केवलस्य ज्ञेयदेशगमने आत्मनो निःस्वभावता स्यात्, तत्स्वरूपत्वादात्मनः केवलस्य चात्मधर्मत्वं न स्यात् आत्मविरहेऽपि भावादिति अष्टकवृत्तिकारः । तदुक्तं अष्टकप्रकरणे मूलकारैः आत्मस्थमात्मधर्मत्वात् संवित्त्या चैवमिष्यते । गमनादेरयोगेन नान्यथा तत्त्वमस्य तु ॥ - [३०/५] इति । धर्मसङ्ग्रहण्यादौ अपि -> केई केवलनाणं गंतूणमलोगमवगच्छती तन्नो । जम्हा ण एत्थ कस्सर दिवं अद्दव्वगुणगमणं || ३८२ || दव्वगमणंपि जुज्जइ न कहंचिवि तत्थ धम्मविरहाओ । तम्हा आतत्थं चिय सव्वं परिछिंदइ तयं पि || ३८३|| - इत्युक्तम् । वस्तुतस्तु गुणत्वादेव तस्य निष्क्रियत्वं सिध्यति । शाश्वतं द्रव्यार्थतया, केवलज्ञानत्वेन ध्वंसाप्रतियोगीत्यर्थः । अप्रतिहतमित्यपि दृष्टव्यम् । तदुक्तं प्रशमरतौ -> शाश्वतमनन्तमनतिशयमनुपममनुत्तरं निरवशेषम् । सम्पूर्णमप्रतिहतं सम्प्राप्तः केवलं ज्ञानम् || २६८ ॥ - इति ।
केवलज्ञानमेव परैः असम्प्रज्ञातसमाधिप्रभृतिशब्दैः गीयते, तदुक्तं योगविन्दौ असम्प्रज्ञात एषोऽपि समाधिर्गीयते | परैः । निरुद्धाशेषवृत्त्यादि तत्स्वरूपानुवेधतः || ४२१|| धर्ममेघोऽमृतात्मा च भवशत्रुः शिवोदयः । सत्त्वानन्दः परश्चेति योज्योऽत्रैवार्धयोगतः || ४२२|| - इति ध्येयम् ॥१५/११ ||
मूलग्रन्थे दण्डान्वयस्त्वेवम् -> तत् एतत् परापरं योगफलम् । अनेन तत् परं तत्त्वं दृश्यते यद् दृष्ट्वा दर्शनाकाङ्क्षा निवर्तते || १५ / १२ || यद् = परतत्त्वं दृष्ट्वा दर्शनेच्छा परतत्त्वप्रत्यक्षाभिलाषो निवर्तते । न हि सिद्धे इच्छा सम्भवति । | एतावता केवलिनि अनालम्बनयोगाभावः प्रदर्शितः पूर्ववद् भावनीयः । एवमेव ज्ञेयमात्रदर्शनाकाङ्क्षाऽपि तस्य तत्त्वतो निवर्तते एव, सिद्धस्वरूपदर्शने सर्वस्य वस्तुनो दृष्टत्वात्
सिद्धत्वावच्छिन्नप्रकारतानिरूपितपारमार्थिकसाक्षात्कारीयप्रकारितायाः
| सकलज्ञेयनिरूपित पारमार्थिकप्रत्यक्षविषयताकत्वव्याप्यत्वात् । मतिज्ञानादिव्यवच्छेदार्थं पारमार्थिकेति । अनुमानादिव्यवच्छेदार्थं | साक्षात्कारेति विभावनीयम् ।।१५ / १२॥
=
=
=
Jain Education International
ઉત્કૃષ્ટ ચીજો વડે તે કેવળજ્ઞાનની પ્રાર્થના કરવા જેવી છે. મૂળ ગાથામાં તીત પદ છે તે અતીત ભૂતકાળના અર્થમાં સિદ્ધિવિનિશ્ચય વગેરે ગ્રંથોમાં દેખાય છે. આદિ શબ્દથી બાકીના બે કાળ લેવા. તેથી ભૂતકાળ, વર્તમાન અને અનાગત એમ ત્રણ કાલમાં રહેનારા પદાર્થો. તેઓનો નિશ્ચય કરાવનાર કેવલજ્ઞાન યથાર્થ જાણવાના સ્વભાવવાળું છે. તે સમર્થ છે. તથા શાશ્વત છે - એમ आगमवेत्ताओ उसे छे. [१५ / ११ ]
આ રીતે કેવલજ્ઞાનના સ્વરૂપને જણાવીને તેને વિશે પરતત્ત્વનો સંબંધ ગ્રંથકારશ્રી જણાવે છે.
માથાર્થ :- તે આ કેવલજ્ઞાન પરયોગનું અને અપરયોગનું ફળ છે. આનાથી તે પરતત્ત્વ દેખાય છે, જેને જોઈને દર્શનની आांक्षा नीडणी अय छे. [१५ / १२]
=
ટીડાર્થ :- આ પ્રસ્તુત કેવળજ્ઞાન પરયોગ અને અપરયોગના ફળ સ્વરૂપ છે, નહિ કે અન્યના સ્વતંત્ર વ્યાપારસ્વરૂપ. આ કેવળજ્ઞાનથી તે પરમાત્માસ્વરૂપ પરતત્ત્વ દેખાય છે કે જેને જોઈને દર્શનની આકાંક્ષા ઈચ્છા નિવૃત્ત થાય છે; કારણ કે સિદ્ધ પરમાત્માનું સ્વરૂપ દેખાય એટલે સર્વ વસ્તુ જોવાઈ જ જાય છે. [૧૫ ૧૨]
=
પરતત્ત્વનું સ્વરૂપ ચાર ગાથા દ્વારા મૂલકારથી જણાવે છે.
१. मुद्रितप्रती --> 'परापरयोगफलं' इति पाठ: मूलग्रन्धेन सह न सङ्गच्छते । २ मुद्रितप्रती 'परमात्मरूपं ' इति पाठ: । ३. मुद्रितप्रतौ इदं पदं नास्ति ।
For Private & Personal Use Only
www.jainelibrary.org