________________
888 निश्चय-व्यवहाराभ्यां ध्यानविचारः 08 सामान्यतो दृष्टेऽपि विशेषदर्शनाय ध्याजोपपत्तेः परम्परयाऽऽलम्बनवत्त्वेन च सालम्बजत्वव्यपदेशात्परतत्त्वे तु केनाऽपि द्वारेण दर्शजाभावादनालम्बनत्वोपपत्तेः ॥१५/9|| 'किं पुनरनालम्बजाद्भवति ?' इत्याह -> 'द्रागि'त्यादि।
द्रागस्मात्तद्दर्शनमिषुपातज्ञातमात्रतो ज्ञेयम् । एतच्च केवलं तज्ज्ञानं यत्तत्परं ज्योतिः ॥१५/१०॥ द्राक् : शीधं अस्मात् = अनलालम्बजयोगात् तद्दर्शनं = परतत्त्वदर्शनं इषुपातस्य = बाणपतजस्य ज्ञातं = उदाहरणं तन्मात्रतो शेयम् । एतच्च परतत्वदर्शनं केवलं = सम्पूर्ण तत् = प्रसिद्धं ज्ञानं यत् = केवलज्ञानं परं
= कल्याणकन्दली द्यालम्बनद्वारा सामान्यतो दृष्टेऽपि = साक्षात्कृतेऽपि विशेषदर्शनाय = तत्तत्पर्यायविशेषाणां संवेदनाय ध्यानोपपत्तेः ‘ध्ये चिन्तायां' इति धात्वर्धाऽबाधात् । सामान्यतो दृष्टत्वेनाऽऽलम्बनत्वं विशेषदर्शनायाऽनवरतमनोव्यापारेण च ध्यानत्वमुपपद्येते इति भावः । यदि च ध्येयं जिनेन्द्ररूपं साक्षात् दृश्येत तदा तद्ध्यानानुपपत्तिः स्यात् । न चैवमत्रास्ति । न चैवं सालम्बनत्वमपि कथं स्यादिति वाच्यम्, परम्परया = ध्येयोपस्थापकप्रतिमादिविषयकत्वसम्बन्धेन दर्शनस्य आलम्बनवत्त्वेन = प्रतिमादिविशिष्टत्वेन च = हि सालम्बनत्वव्यपदेशात् । न चैवं परतत्त्वेऽपि सालम्बनत्वप्रयोगापत्तिरिति शङ्कनीयम्, यतः परतत्त्वे तु केनाऽपि प्रतिमादिना द्वारेण दर्शनाभावात् सालम्बनत्वानापत्तेः अनालम्बनत्वोपपत्तेः च । न हि प्रतिमादिद्वारा समवसरणस्थाष्टप्रातिहार्यादिसमन्वितमर्हद्रूपमपरतत्त्वाभिधानमिव परतत्त्वं मानससाक्षात्कारगोचरीभवति, अतीन्द्रियत्वात् । एतेन तीर्थकृत इव सिद्धस्याऽपि प्रतिमायां स्थापनाभ्युपगमात् प्रतिमाद्वारा तीर्थकृत इव सिद्धस्याऽपि उपस्थितत्वसम्भवात् परतत्त्वेऽपि सालम्बनत्वापत्तिरिति निरस्तम्, सांव्यवहारिकप्रत्यक्षत्वेनाभिमते मानस-चाक्षुषादौ प्रतिमादिद्वारेणाऽपि स्पष्टतया अतीन्द्रियतत्त्वस्फुरणानुपपत्तेः । परोक्षतया तद्भानन्त्वभिमतमपि न सालम्बनत्वाऽऽपादकम् । अन्यैरपि परतत्त्वस्य लौकिकप्रत्यक्षागोचरताङ्गीक्रियते । तदुक्तं तैत्तिरीयोपनिषदि -> यतो वाचो निवर्तन्तेऽप्राप्य मनसा सह - [२/४] इति । यत्तु बृहदारण्यकोपनिषदि -> मनसैवाऽनुदृष्टव्यम् -- [४/४/१९] इत्युक्तं तत्र मनःपदमात्मपरमवगन्तव्यम्, देहेन्द्रियादीनामेवैवकारेण व्यवच्छेदात् ।
एतेन -> पिण्डस्थं च पदस्थं च रूपस्थं रूपवर्जितम् । चतुर्धा ध्येयमाम्नातं ध्यानस्याऽऽलम्बनं बुधैः ।।[७/८] - इति योगशास्त्रवचनमपि व्याख्यातम्, रूपवर्जिते परतत्त्वे ध्यातेऽपि चाक्षुषाद्यगोचरत्वेन परमार्थतोऽनालम्बनत्वादेव तद्ध्यानस्य । एतेन -> ध्येयं पदस्थ-पिण्डस्थ-रूपस्थाऽरूपभेदतः । ध्यानस्यालम्बनं प्राश्चतुर्विधमुदाहृतम् ।। - [१५/३०] इति श्रावकाचारे अमितगतिवचनमपि व्याख्यातम्, अतीन्द्रियस्य परोक्षतयाऽऽलम्बनत्वेऽपि तत्त्वतोऽनालम्बनतैव । न हि कपर्दिकामात्रेण धनवानिति प्रयुज्यते । इदमपि परतत्त्वध्यानं व्यवहारतो ज्ञेयम् । निश्चयतस्तु स्वात्मानमेव विशुद्धं ध्यायतः परतत्त्वध्यानं स्यात् । तदुक्तं गुणस्थानकक्रमारोहे श्रीरत्नशेखरसूरिभिः -> आत्मानमात्मनाऽऽत्मैव, ध्याता ध्यायति तत्त्वतः । उपचारस्तदन्यो हि व्यवहारनयाश्रितः ॥११०|| - इति भावनीयमेतत्तत्त्वम् ॥१५/१।। ___मूलग्रन्थे दण्डान्वयस्त्वेवम् -> अस्मात् द्राक् तद्दर्शनं इषुपातज्ञातमात्रतो ज्ञेयम् । एतच्च केवलं तत् ज्ञानं यत् परं ज्योतिः ॥१५/१०।। इयं कारिका योगविंशिका-प्रतिमाशतकवृत्त्यादी [यो.१९ प्र.श.गा.९९] समुद्भता ।
અપરતત્ત્વદર્શનના ઉદ્દેશથી પ્રવર્તેલું સ્થાન પામે અપરતત્ત્વનું દર્શન નથી થયું ત્યાં સુધી અપરતમાં પ્રતિષ્ઠિત થયેલ નથી. તો પછી તેને તમે અનાલંબન ધ્યાનયોગ કેમ નથી કહેતાં ? અને જે કહો કે અપરતત્વનું દર્શન થઈ ગયું છે તો પછી ધ્યાન કરવા જેવું કશું નહિ રહે. તર્ક તો બન્ને પક્ષે સમાન જ છે.]
સમાઘાન :- આ દલીલ બરાબર નથી. આનું કારણ એ છે કે અપર તત્ત્વનું પ્રતિમા વગેરે આલંબન દ્વારા સામાન્યરૂપે દર્શન થવા છતાં પણ વિશેષરૂપે દર્શન કરવા માટે ધ્યાનની પ્રવૃત્તિ યોગ્ય = જરૂરી છે. પ્રતિમામાં અપરતન્ય જિનેન્દ્રદેહની આકૃતિરૂપે સમાનતા હોવાથી પ્રતિમા દ્વારા પરંપરાએ અપર તત્ત્વનું આલંબન રહેલું છે. તેથી એ ધ્યાન સાલંબન છે. જ્યારે નિરાલંબન ધ્યાનયોગ તો અરૂપી પરતત્ત્વદર્શનની આકાંક્ષાથી પ્રવૃત્ત થયેલ છે અને અરૂપી જ્ઞાનમય શુદ્ધ સિદ્ધ પરમાત્માસ્વરૂપ પરતત્વની કોઈ પણ સમાનતા રૂપી એવી પ્રતિમામાં ન હોવાથી એ ધ્યાનમાં સાક્ષાત તો શું પરંપરાએ પણ પરતત્ત્વ દષ્ટ બનતું नथी. माटेने निराजन यानयोग जनी ७. [५५/-]
અનાલંબનયોગથી શું થાય છે ? આ જિજ્ઞાસાને સંતોષવા ગ્રંથકારશ્રી કહે છે કે –
ગાગાર્ચ :- અનાલંબન યોગથી તરત પરતત્વનો સાક્ષાત્કાર થાય છે. બાણપતનના ઉદાહરણથી જ આ જાણવું. આ પરતવદર્શન એ તે કેવલજ્ઞાન છે કે જે પ્રકુટજ્યોતિ સ્વરૂપ છે. [૧૫/૧૦]. १. मुद्रितप्रती ह.प्रती न 'दृष्टोऽपि इत्यशुद्धः पाठो वर्तते ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org