________________
२१० नवमं षोडशकम
8 दशार्णभद्रपूजाविचार: * अभिगमैः युक्तेति वा कृत्वा । काचित् अष्टोपचारयुक्ता = अष्टभिरङ्गैः शीर्षोरउदरपृष्ठबाहुद्वयोरुद्धयलक्षणैरुपचारोऽस्यामिति हेतोः । अन्या ऋद्धिविशेषात् दशार्णभद्रादित्यायेन सर्वोपचारा = सर्वेः प्रकारैः अन्त:पुरहस्त्यश्व-स्थादिभिः 'सव्वबलेणं सव्वसमुदएणं 'सव्वविभूइए सव्वविभूसाए सव्वआयरेण' (औप.३१) इत्याद्यागमा
कल्याणकन्दली - [खण्ड-२] इत्येवं चतुर्विधा पूजोक्ता । सम्बोधप्रकरणेऽपि -> पुप्फामिसथुइपडिवत्तिभेएहिं भासिया चउहा । जहसत्तीए कुज्जा पूया <- [१९०] इत्युक्तम् । उपदेशतरङ्गिण्यान्तु -> पञ्चोपचारपूजा-गन्धमाल्याधिवासगन्धमाल्यादिसंस्कारविशेषधूपप्रदीपैः, अथवा पुष्पाक्षतगन्धधूपदीपैर्वा भवति <- [२/७-पृ.१७५] इत्युक्तम् । अन्यत्र च पञ्चोपचार पूजा इत्थमावेदिता -> पुष्पाद्यर्चा तदाज्ञा च तद्रव्यपरिरक्षणं । उत्सवास्तीर्थयात्रा च भक्तिः पञ्चविधा जिने ।। - 1 इति । एतद्विस्तरस्तु आत्मप्रबोधे श्रीजिनलाभसूरिभिः प्रकाश-१ पृ.४३] दर्शितस्ततोऽवसेयः ।
अभिगमैरिति । व्याख्याप्रज्ञप्तौ -> [१] सचित्ताणं दवाणं विउसरणयाए, [२] अचित्ताणं दवाणं अविउसरणयाए, [३] एगसाडिएणं उत्तरासंगकरणेणं, [४] चक्खुप्फासे अंजलिप्पगहेणं, [4] मणसो एगत्तीकरणेणं... <-२/५/१०९] इत्येवं पञ्चाभिगमोपदर्शनं कृतम् । लघु-चैत्यवन्दभाष्ये च -> सच्चित्तदवमुज्झणमचित्तमणुज्झणं मणेगत्तं । इगसाडिउत्तरासंगु अंजली सिरसि जिणदिढे ॥२०॥ इअ पंचविहाभिगमो अहवा मुच्चंति रायचिण्हाई । खग्गं छत्तोवाणह मउडं चमरे अ पंचमए ।।२१।। - इत्युक्तमित्यवधेयम् । दर्शनशुद्धिप्रकरणेऽपि -> दवाण सचित्ताणं विउसरणमचित्तदव्वपरिभोगो । मणएगत्तीकरणं अंजलिबंधो य दिट्टिपहे ॥३|तह एगसाडएणं उत्तरसंगेण जिणहरपवेसो । पंचविहोऽभिगमो इय अहवा वि य अन्नहा एस ॥३२।। अवहट्ट रायककुहाई पंचवररायककुहरूवाइं । खम्गं छत्तोवाणह मउडं तह चामराउ य ॥३३॥ <- इत्युक्तम् ।
अष्टभिः अङ्गैः इति । उपलक्षणात् गन्धमाल्याद्यष्टकमपि बोध्यम् । तदुक्तं -> गन्धैर्माल्यैः' विनिर्यबहलपरिमलैरक्षतैः२ धूप-दीपैः', सान्नाय्यैः प्राज्यभेदैः चरुभिरुपहितैः पाकपूतैः फलैश्च । “अम्भः सम्पूर्णपात्रैरिति हि जिनपतेरर्चनामष्टभेदां, कुर्वाणा वेश्मभाज: परमपदसुखस्तोममाराल्लभन्ते ॥ [ ] इति । पूजाप्रकरणे श्रीउमास्वातिवाचकैरपि -> 'गन्धधूपाऽक्षतैः स्रग्भिः प्रदीपैः बलि-वारिभिः । प्रधानैश्च “फलैः पूजा विधेया श्रीजिनेशितुः ।।१४।। - इत्युक्तम् । पुष्पमालायां सम्बोधसप्ततौ च -> वरपुप्फ'-गंध-अक्खय-पईव -फल-धूव-नीरपत्तेहि । 'नेवज्जविहाणेहि य जिणपूया अट्टहा भणिया।। <-पु.मा.४६७ सं.७१] इत्येवमष्टप्रकारपूजनमुपदर्शितम् । सम्बोधप्रकरणेऽपि -> तहियं पंचुवयारा कुसुमक्खयगंधधूवदीवहिं । नेविज्ज-फल जलेहिं जुत्ता अट्ठोवयारा वि ।।१८७|| - इत्युक्तम् । दर्शनशुद्धिप्रकरणे च -> कुसुमक्खयधूवेहिं दीवयवासेहिं सुंदरफलेहिं । पूआ घयसलिलेहिं अट्ठविहा तस्स कायब्वा ।।२४|| <- इत्येवमष्टविधपूजोपदर्शिता । प्रकृते पुष्पपूजायां कीरयुगलमुदाहरणं गन्धपूजादौ तु विमलाद्युदाहरणानि । तदुक्तं पुष्पमालायामेव -> पुष्फेसु 'कीरजुयलं, गंधाइसु विमल-संख'वरसेणा'। ५सिव-वरूण-"सुजस-'सुब्बय कमेण पूयाइ आहरणा ॥४६९।। <- इति । अष्टकर्ममुक्तिर्हि निश्चयेन तत्फलं, यदुक्तं सम्बोधप्रकरणे -> कुसुम-क्खय-गंध-पईव-धूव-नेवज्ज-फल-जलेहिं पुणो । अट्ठविहकम्महणणी अट्ठोवयारा हवइ पूआ॥ -[४५] इति । अन्यत्र तु व्यवहारतः -> ये तवाष्टविधां पूजां कुर्वन्ति परमेश्वर !। अष्टापि सिद्धयस्तेषां करस्था अणिमादयः ॥ - [ ] इत्युक्तम् । चैत्यवन्दनमहाभाष्यकृतस्तु -> तहियं पंचुवयारा कुसुमऽक्खय-गंध-धूव-दीवेहिं । फल-जल-नेवज्जेहिं सहऽट्ठरूवा भवे सा उ ॥२१०।। अन्ने अट्टवयारं भणंति अटुंगमेव पणिवायं । सो पुण सुए न दीसइ, न य आइन्नो जिणमयम्मि ॥२११|| -इत्याहः । 'शिर्ष उरः उदरः पृष्ठः द्वौ बाहू द्वे उरुणी' इत्येवमष्टस्वङ्गेष एकैकपुष्पदानादष्टपुष्पी कर्माष्टकनाशिनीत्यपि प्रसिद्धम् । तदुक्तं श्रीवर्धमानसूरिभिः धर्मरत्नकरण्डके -> अष्टस्वङ्गेषु वा पूजा पुष्पैरष्टभिरर्हतः । विशुद्धप्रणिधानेन कर्माष्टकक्षयङ्करी ॥६०।। अष्टकर्मविनिर्मुक्तपूज्यसद्गुणसूचिका । अष्टपुष्पी समाख्याता फलं भावनिबन्धनम् ॥६१।। <- इति ।
दशार्णभद्रादिन्यायेन = दशार्णभद्रनृप-कूणिकभूपादिदृष्टान्तेन । तथाहि - 'श्रीमहावीरं तथाऽहं वन्दे यथा प्राक् केनाऽपि
યુકત હોવાના લીધે પૂજા પંચોપચાર યુકત કહેવાય છે. બીજી રીતે માથું, છાતી, પેટ, પીઠ, બે હાથ, બે પગ- એમ કુલ આઠ અંગોથી જે પૂજામાં ઉપચાર થાય તે પૂજ અટોપચારયુક્ત કહેવાય છે. તથા વિશેષ પ્રકારની અદ્ધિથી એટલે કે દશાર્ણભદ્ર વગેરેના
शान्तथी - सर्व मरथी, सर्वसमुहयथी, सविभूतिथी, सर्व विभूपाथी, सर्वाना माथी... - त्याहि [ोति सूत्र વગેરે) આગમને આશ્રયીને અંતઃપુર, હાથી ઘોડા, રથ વગેરે સર્વ પ્રકારથી વિનય જેમાં છે એ હેતુથી તે પૂબ સર્વોપચાર પૂજા वायेख छ. [४/3]|
વિશેષાર્થ :- [૧] પંચાગ પ્રણિપાત નમસ્કાર એ પંચોપચાર પૂબ કહેવાય. અથવા સચિત્ત દ્રવ્યનો ત્યાગ, અચિત્ત પૂજયોગ્ય १ इदं पदं मुद्रितप्रतौ नास्ति ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org