________________
३४१
8 अप्रमत्तगुणस्थानकेंऽशतःशुक्लध्यानस्वीकारः ॐ परिणते - प्रकर्षप्राप्ते एतस्मिन् = प्रस्तुते सद्ध्याने = शोभनध्याने सति क्षीणकिल्बिषः = क्षीणपापो जीवः = आत्मा निर्वाणपदस्य आसन्नः = निकटवर्ती शुक्लाभोगः = शुक्लज्ञानोपयोगः विगतमोहः = अपगतमोहनीयः ॥१५/५|| 'चरमे'त्यादि। ___ चरमाऽवश्चकयोगात् प्रातिभसञ्जाततत्त्वसंदृष्टिः । इदमपरं तत्त्वं तद्यद्वशतस्त्वस्त्यतोऽप्यन्यत् ॥१५/६॥
__ कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> एतस्मिन् सद्ध्याने परिणते सति जीवः क्षीणकिल्बिषः निर्वाणपदासन्नः शुक्लाऽऽभोगो विगतमोहो भवतीति शेषः ॥१५/५॥
प्रकर्षप्राप्ते = प्रागुक्त [१४/७] सुलीनत्वावस्थावति शोभनध्याने क्षीणपापः निर्वाणपदस्य निकटवर्ती इति । ततश्च सध्यानपरिणामप्रकर्षस्य पापक्षयद्वारा मुक्तिप्रापकत्वमिति फलितम् । इदश्चान्वयमुखेनोक्तम् । व्यतिरेकमुखेन च तदभावे कदापि मुक्तिर्न सम्भवति, स्वाध्याय-संयमादिसद्योगानामपि एतत्यापकत्वेनैव तत्त्वतः साफल्यम् । इदञ्चात्रावधेयम् - प्राक्तनदशायां जिनरूपध्यानमेवोत्तरकाले समापत्तिद्वारा निजरूपध्यानं भवति । इयं समरसापत्तिरेव समरसलय-सहजानन्दताऽऽत्मारामतोन्मनीकरणपदेनोच्यते । तदक्तं योगसारे -> सहजानन्दता सेयं सैवात्मारामता मता । उन्मनीकरणं तत् यत् मुनेः शमरसे लयः ।।
- [३/१५] इति । सैव चोपादेया परमार्थतः । यदपि -> रूवं झाणं दविहं सगयं तह परगयं च जं भणियं । सगयं नियअप्पाणं परगयं च जाण परमेट्ठी ।। - [ ] इत्येवं रूपस्थं सालम्बनध्यानं द्विविधं दर्शितं तत्रापि परगतध्यानमुत्तरकाले स्वगतध्यानतया परिणमत्येवेत्यवधेयम् । एतावता साधुनाऽन्तरङ्गपुरुषार्थे एव प्रयतितव्यमित्युपदिष्टं भवति । इदमेवाभिप्रेत्याऽन्यत्र 'कुणउ तवं पालउ संजमं पढउ सयलसत्थाई । जाव न झायइ अप्पा ताव न मुक्खो जिणो भणइ ।। - [ ] इत्युक्तम् -> तरति शोकमात्मवित् <- [७/१/३] इति छान्दोग्योपनिषद्वचनमप्यत्र स्मर्तव्यम् ।
अपरतत्त्वध्यानप्रकर्षे सति ध्येयप्रकाशो भवति । तदक्तं नागसेनेन तत्त्वानुशासने -> ध्याने हि बिभ्रति स्थैर्य ध्येयरूपं परिस्फुटम् । आलेखितमिवाऽऽभाति ध्येयस्याऽसन्निधावपि ।। - [४/४४] इति । शुक्लज्ञानोपयोग इति । शुक्लध्यानौपयि
क्तिम् । केचित्तु शुक्लज्ञानं = रजस्तमोवृत्तिनिरासपूर्व सत्त्वैकवृत्त्यन्वितं विज्ञानमिति व्याचक्षते । अन्ये तु --> शुक्लज्ञानं = ज्ञानसामान्यं = निराकारज्ञानं = निर्विकल्पकज्ञानमिति यावदिति - वदन्ति । वस्तुतोऽनालम्बनध्यानमप्रमत्तगुणस्थानके परिणमति, तत्रैव चांशतः शुक्लज्ञानोपयोगः, तदुक्तं गुणस्थानकक्रमारोहे -> धर्मध्यानं भवत्यत्र मुख्यवृत्त्या जिनोदितम् । रूपातीततया शुक्लमपि स्यादंशमात्रतः ||३५|| - इति तथापि प्रकृते गौणवृत्त्या तन्त्र विरुध्यत इति ध्येयम् । विगतमोहं ध्यायन् अपगतमोहनीयः भगवत्तुल्यरूपो भवति । तदुक्तं अध्यात्मसारे -> उपास्ते ज्ञानवान् देवं यो निरञ्जनमव्ययं । स तु तन्मयतां याति ध्याननिषूतकल्मषः || - [१५/६२] इति । यथोक्तं मुण्डकोपनिषदि अपि -> निरञ्जनः परमं साम्यमुपैति - [३/१/३] इति । नारदपरिखाजकोपनिषदि अपि -> लाभालाभौ समौ भूत्वा = ज्ञात्वा] निर्ममः शुक्लध्यानपरायणोऽध्यात्मनिष्ठः शुभाशुभकर्मनिर्मूलनपरः संयम्य पूर्णानन्दैकबोधः 'तद् ब्रह्माऽहमस्मी' ति ब्रह्मप्रणवमनुस्मरन् भ्रमरकीटन्यायेन शरीरत्रयमुत्सृज्य संन्यासेनैव देहत्यागं करोति स कृतकृत्यो भवति - [३/९२] इत्युक्तम् । __इदमप्यत्रावधेयं प्राक् [१४/७ पृ.३२४] ये विक्षिप्त-यातायात-श्लिष्ट-सुलीनाभिधानाः चत्वारः चेतःप्रकारा उपदर्शिताः ततो विक्षिप्तादि त्रितयमपरतत्त्वे सुलीनञ्च परतत्त्वेऽवसेयम् । अन्यमते गतागतत्वादयः चत्वारः ध्यानप्रकाराः रूप परतत्त्वे भवन्ति, तदुक्तं श्रीमालिनीविजयोत्तरतन्त्रे -> गतागतं सुबिक्षिप्तं सङ्गतं सुसमाहितम् । चतुर्धा रूपसंस्थं तु ज्ञातव्यं योगचिन्तकैः ।। - [अधिकार-२, गा.४४-पृ.१२] इति । यदपि पातञ्जलयोगदर्शनानुसारेण अध्यात्मसारे -> सुविदितयोगैरिष्टं 'क्षिप्तं मूढं तथैव विक्षिप्तम् । “एकाग्रं च "निरुद्धं चेतः पञ्चप्रकारमिति ।। - २०/३] इति पञ्चविधं चित्तमुक्तं तत्र चतुर्थमेकाग्रं चित्तमत्रा परतत्त्वविचारे परमप्रकर्षप्राप्तमवसेयम् ॥१५/५।।
જ્ઞાનના ઉપયોગવાળો અને મોહશૂન્ય બને છે. [૧૫/૫]
માનપરિણમનના ૪ ફળ છે ઢીકાર્ચ :- આ પ્રસ્તુત સુંદર ધ્યાન પરિણમે - પ્રર્ષને પામે ત્યારે જીવના પાપો ક્ષીણ થાય છે. જીવ મોક્ષપદની નિકટ વર્તે છે. શુક્લ જ્ઞાનનો ઉપયોગ આવે છે. જીવનું મોહનીય કર્મ ચાલ્યું જાય છે. [૧૫/૫]
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org