________________
३४२ पञ्चदशं षोडशकम्
8 प्रातिभज्ञानविचार:
चरमाऽवञ्चकयोगात् फलावञ्चकयोगात् प्रागुक्तात् प्रतिभैव प्रातिभं अदृष्टार्थविषयो मतिज्ञानविशेषः तेज सञ्जाता तत्त्व (सं) दृष्टिः यस्य स तथा भवतीति सर्वविशेषणसङ्गता क्रियाऽध्याहार्या । इदं = अनुपदोक्तफलं | सालम्बनध्यानद्वारा प्रत्यक्षीकृतं जिनेन्द्ररूपं अपरं परस्मादन्यत् अर्वाग्भागवर्त्ति तत्त्वं परमार्थरूपं ध्येयं तत् | वर्तते यद्वशतस्तु यदपरतत्त्वसामर्थ्यात् ' ( अतोऽपि ? ) अस्ति = जायते अतोऽपि = 'अपरतत्त्वादपि अन्यत् =
कल्याणकन्दली
=
मूलग्रन्थे दण्डान्वयस्त्वेवम् -> चरमावञ्चकयोगात् प्रातिभसआततत्त्वसंदृष्टिः । इदं तत् अपरं तत्त्वं यद्वशतः तु अतोऽपि अन्यत् अस्ति ॥ १५ / ६ || प्रागुक्तात् = अष्टमषोडशके त्रयोदशकारिकायां व्याख्यातात् फलावञ्चकयोगात् ।
प्रतिभैव प्रातिभं अदृष्टार्थविषयो मतिज्ञानविशेष इति । वस्तुतस्तु मार्गानुसारिप्रकृष्टोहाऽऽख्यज्ञानमेव प्रातिभज्ञानं, नैतच्छ्रुतं, न केवलज्ञानं, न च ज्ञानान्तरमिति रात्रिन्दिवारुणोदयवत् । अरुणोदयो हि न रात्रिन्दिवातिरिक्तो न च तयोरेकोऽपि वक्तुं पार्यते । एवं प्रातिभमप्येतन केवलज्ञानादिरूपं न वा तदतिरिक्तमपि वक्तुं शक्यते, तत्काल एव तथोत्कृष्टक्षयोपशमवतो | भावात् । श्रुतत्वेन तत्त्वतोऽसंव्यवहार्यत्वान्न श्रुतं, क्षायोशमिकत्वादशेषद्रव्यपर्यायाऽविषयत्वान्न केवलमिति । इष्टञ्चैतत्तारकनिरीक्षणादि| ज्ञान- शन्दवाच्यमपरैरपीत्यादिकं व्यक्तं योगदृष्टिसमुच्चयवृत्तौ [गा. ८ वृ. पृ. ७२] - प्रातिभात् सूक्ष्म-व्यवहितविप्रकृष्टातीतानागतज्ञानम् <~ [३/३६ पृ.३५४] इति योगसूत्रभाष्यकारः । - प्रतिभा = उपदेशादिनैरपेक्ष्येण सूक्ष्मादीनां मानसं यथार्थज्ञानं, | तत्सामर्थ्यं = प्रातिभम् <- [यो.सू. ३/३६ वा. पृ.३५५] इति योगवार्तिककृत् । अर्वाग्भागवर्ति = योगप्राथम्यकालीनं तत्त्वं | वर्तते । अपरतत्त्वसामर्थ्यात् = सालम्बनयोग- शक्त्युद्रेकात् परतत्त्वं जायते । तदुक्तं सम्बोधप्रकरणे - सालंबणझाणाओ झाणमणालंबणं हविज्ज सया - [ १२६ ] | योगशास्त्रेऽपि स्थूलात्सूक्ष्मं विचिन्तयेत्, सालम्बाच्च निरालम्बम् <- [ १० / ५] | इत्युक्तम् । इदमेवाभिप्रेत्य ज्ञानार्णवे शुभचन्द्रेण -> अलक्ष्यं लक्ष्यसम्बन्धात् स्थूलात् सूक्ष्मं विचिन्तयेत् । सालम्बाच्च निरालम्बे तत्त्ववित्तत्त्वमअसा ||[३३ / ४] अथ रूपे स्थिरीभूतचित्तः प्रक्षीणविभ्रमः । अमूर्त्तजमव्यक्तं ध्यातुं प्रक्रमते ततः ॥ ← [ ४० / १५] इत्युक्तम् । तदुक्तं योगशास्त्रेऽपि एवं क्रमशोऽभ्यासाssवेशाद् ध्यानं भजेन्निरालम्बम् । समरसभावं यातः परमानन्दं ततोऽनुभवेत् ॥ <[ १२ / ५ ] इति । प्रेक्षावतामपि प्रथमं परतत्त्वध्यानं दुःशकमिति तत्प्राथम्येनाऽपरतत्त्वं ध्येयमिति भावः । तदुक्तं तत्त्वानुशासने इदं हि दुःशकं ध्यातुं सूक्ष्मज्ञानावलम्बनात् । बोध्यमानमपि प्राज्ञैर्न च द्रागवलोक्यते । तस्मालक्ष्यं च शक्यञ्च दृष्टादृष्टफलञ्च यत् । स्थूलं वितर्कमालम्ब्य तदभ्यसन्तु धीधनाः ॥ ← [५/४०-४१] इति । गरुडपुराणे योगारम्भे मूर्त्तहरिममूर्त्तमथ चिन्तयेत् । स्थूले विनिर्जितं चित्तं ततः सूक्ष्मे शनैर्नयेत् ॥ <← [१/२२९/२५] इति यदुक्तं तदप्यत्रानुसन्धेयम् । भगवद्गीतायामपि शनैःशनैरुपरमेद् बुद्ध्या धृतिगृहीतया । आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् || - [६/२५] इत्युक्तम् । यदपि परैः योगेन योगो ज्ञातव्यो योगो योगात् प्रवर्तते । योऽप्रमत्तस्तु योगेन स योगे रमते चिरम् ॥ - [ ] इत्युच्यते तदपि 'योगेन = उपयोगेन यद्वा मनोयोगेन यद्वाऽऽद्यकालीनयोगेन योग उत्तरकालीनो ज्ञातव्यो, निरालम्बनो योगो सालम्बनात् योगात् प्रवर्तते । योऽप्रमत्तस्तु योगेन मनोवाक्काययोगत्रितयेन स मोक्षयोजनभावेन योगे रमते चिरम्' इत्यादिरूपेण सम्यगवसेयम् ।
->
->
->
यत्तु
-> णयरम्मि वण्णिदे जह ण वि रण्णो वण्णणा कदा होदि । देहगुणे धुव्वंते ण केवलिगुणा धुदा होंति ||३०||
=
Jain Education International
-
ગાથાર્થ :- ચરમ અવચંક યોગના લીધે પ્રાતિભ જ્ઞાનથી જેને તત્ત્વવિષયક સમ્યક્ દૃષ્ટિ ઉત્પન્ન થઈ છે તેવો ધ્યાતા થાય છે. આ તે અપર તત્ત્વ છે કે જેના સામર્થ્યથી અન્ય = પરતત્ત્વ પણ પ્રગટ થાય છે. [૧૫/૬]
टीडार्थ :પૂર્વોક્ત [પૃ.૨૦૧] ફલાવંચક નામના છેલ્લા અવંચકયોગના કારણે પ્રાતિભ જ્ઞાનથી જેને તત્ત્વદષ્ટિ ઉત્પન્ન થઈ છે તેવો તે ધ્યાતા જીવ બને છે. પ્રતિભા એ જ પ્રાતિભ જ્ઞાન. અર્થાત્ અષ્ટઅર્થવિષયક = અતીન્દ્રિયગોચર મતિજ્ઞાન વિશેષ थे प्रति पहार्थ छे तेना सीधे ध्याता पुरुषने तत्त्वविषय दृष्टि-जोष उत्पन्न थाय छे. हे भूण गाथामा 'भवति' खेषु ક્રિયાપદ નથી. છતાં બધા જ વિશેષણો સાથે સંબંધિત ક્રિયાનો અધ્યાહાર કરવાનો છે. [એમ ટીકાકાર ઉપાધ્યાયજી મહારાજ જણાવે छे. भूण गायामां प्रातिभस आततत्त्वसंदृष्टिः ५६ छे ते बहुव्रीहिसमासगर्भित होवाथी तेनो अर्थ छे- 'प्रतिलची उत्पन्न थर्ध छे જેને તત્ત્વદષ્ટિ એવો ધ્યાતા પુરુષ' થાય છે. - આમ છેલ્લે ‘થાય છે’ આવી ક્રિયા અધ્યાત સમજવી પડે.] આ હમણાં જણાવેલ ફળ જિનેંદ્રરૂપ સાલંબન ધ્યાન દ્વારા પ્રત્યક્ષ કર્યું. આ અપર તત્ત્વ છે. અર્થાત્ પરતત્ત્વ કરતાં પૂર્વભાગવર્તી છે. તે પારમાર્થિક ધ્યેય १. 'अतोऽपि' इति पदमत्राधिकं भाति । २ मुद्रितप्रती 'अपरत्त्वादि'ति त्रुटितः पाठः ।
For Private & Personal Use Only
www.jainelibrary.org