________________
३३८ पञ्चदशं षोडशकम्
28 रूपस्थ-पिण्डस्थादिध्यानविचारः जिषण्णं सत्त्वानां = प्राणिनां अर्थः = उपकारः तस्मिन् सम्यक् प्रवृत्तं देशनया = धर्मकथया, कान्तं = कमनीयं अत्यन्तं = अतिशयेन ॥१५/२|| 'आधीनामि'त्यादि ।
आधीनां परमौषधमव्याहतमखिलसम्पदा बीजम् । चक्रादिलक्षणयुतं सर्वोत्तमपुण्यनिर्माणम् ॥१५/३॥ आधीनां = मानसीनां पीडानां परमौषधं तदपनेतृत्वेन । अव्याहतं = अनुपहतं अखिलसम्पदां = सर्वसम्पत्तीनां बीजं = कारणम् । चक्रादीनि यानि लक्षणानि चक्र-स्वस्तिक-कमल-कुलिशादीनि तैःयुतं =
- कल्याणकन्दली. अतिशयेन कमनीयं, सर्वेषां रूपाणां ततो निकृष्टत्वात् । ततश्च सर्वोत्कृष्टत्वेन भगवद्रूपस्यैव ध्येयत्वमित्याविष्कृतम् ।।
इदञ्च पदस्थध्यानं विज्ञेयम् । तदुक्तं योगशास्त्रे श्रीहेमचन्द्रसूरिभिः -> इन्दुमण्डलसंकाशच्छत्रत्रितयशालिनः । लसद्भामण्डलाभोगविडम्बितविवस्वतः । दिव्यदुन्दुभिनिर्घोषगीतसाम्राज्यसम्पदः । रणद्विरेफझङ्कारमुखराशोकशोभिनः ॥ सिंहासननिषण्णस्य वीज्यमानस्य चामरैः । सुरासुरशिरोरत्नदीप्रपादनखातेः । दिव्यपुष्पोत्करावकीर्णासङ्कीर्णपरिषद्भवः । उत्कन्धरैमृगकुलैः पीयमानकलध्वनेः ।। शान्तवैरेभसिंहादिसमुपासितसन्निधेः । प्रभोः समवसरणस्थितस्य परमेष्ठिनः ।। सर्वातिशययुक्तस्य केवलज्ञानभास्वतः । अर्हतो रूपमालम्ब्य ध्यानं पदस्थमुच्यते ।। - [नवमप्रकाशः गा.२/३/४/५/६/७] इति । अन्यमतेनेदं रूपस्थध्यानमुच्यते, यथोक्तं -> जं पुण सपाडिहेरं समुसरणत्थं जिणं परमनाणिं । पडिमाइ समारोविय झायइ तं होइ रूवत्थं ॥ - [ ] इति । तदुक्तं रूपस्थध्याननिरूपणावसरे श्रीशुभचन्द्रेण ज्ञानार्णवे -> आर्हन्त्यमहिमोपेतं सर्वज्ञं परमेश्वरम् । ध्यायेद्देवेन्द्रचन्द्रार्कसभान्तस्थं स्वयम्भुवम् ॥ - [२९/१] इति । अन्यत्रापि -> भामण्डलादियुक्तस्य शुद्धस्फटिकभासिनः । चिन्तनं जिनरूपस्य रूपस्थं ध्येयमुच्यते ।। - [ ] इत्युक्तम् । दिगम्बर-श्रीभास्करनन्दिमते त्विदं पिण्डस्थध्यानमुच्यते, तदुक्तं ध्यानस्तवे -> सर्वातिशयसम्पूर्ण प्रातिहार्यसमन्वितम् । परमात्मानं भव्यानन्दविधायिनम् ।। दहन्तं सर्वकर्माणि शुद्धेद्धध्यानवह्निना । त्वामेव ध्यायतो देव पिण्डस्थध्यानमीडितम् ।। - [२६/२८] इति । कार्तिकेयानुप्रेक्षावृत्ती -> अथ रूपस्थध्यानमुच्यते । ध्यानी समवसरणस्थं जिनेन्द्रचन्द्रं चिन्तयेत् <- [गा.४८२ पृ.३७६] इत्येवं शुभचन्द्रेणोक्तमिति ध्येयम् ।-> पदस्थं मन्त्रवाक्यस्थं, पिण्डस्थं स्वात्मचिन्तनम् । रूपस्थं सर्वचिद्रपं रूपातीतं निरञ्जनम् ।। - [ ] इत्यपि वदन्ति ॥१५/२॥
__ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> आधीनां परमौषधं, अव्याहतं, अखिलसम्पदां बीजं, चक्रादिलक्षणयुतं, सर्वोत्तमपुण्यनिर्माणम् ॥१५/३॥ इयमपि कारिका प्रतिमाशतकवृत्त्यादौ [गा.९९] समुद्धृता ।
इह हि यो गुणप्रकर्षरूपमचिन्त्यशक्तियुक्तं भगवन्तं येन रूपेण पश्यति ध्यायति च तं प्रति भगवान् तत्तद्रूपेण फलदायी भवतीति तात्पर्य हृदि निधाय भव्यजनहिताय तत्तद्विशेषणपुरस्कारेण ध्येयं जिनेन्द्ररूपमाविष्करोति - आधीनां परमौषधमिति ।। तदपनेतृत्वेन = आधि-व्याध्युपाध्यपहर्तृत्वेन रूपेण जिनेन्द्रध्यानात् तदपनयानुकूलशक्तिलाभात् । यदपि भगवद्गीतायां -> ये यथा मां प्रपद्यन्ते तान् तथैव भजाम्यहं <- [४/११] इत्युक्तं तदपि दर्शितरीत्या उपपद्यते । अतः > एकोऽपि ह्यनेकां संज्ञां लभते कार्यान्तराणि कर्वन - [४/२२] इति चरकसंहितावचनमपि सङ्गच्छते । एतेन -> समोऽहं सर्वभूतेषु न
ઉપર બેઠેલા, [૧] જીવોના ઉપકારને વિશે સારી રીતે ધર્મદેશના દ્વારા પ્રવૃત્ત થયેલ. [૧૧] અત્યંત મનોહર તીર્થકર સ્વરૂપ ધ્યાતવ્ય छ. [१५/२]
જ સમવસરણ9 જિનશાન બને ' વિશેષાર્થ :- કલ્પવૃક્ષપદથી અહીં અશોકવૃક્ષ લેવું ઉચિત જણાય છે. સિંહાસન દેવ બનાવે છે અને તેમાં સિંહનું ચિહ્ન હોય છે. તે બેસવાનું સાધનવિશેષ છે. જીવોપકાર માટે વીતરાગ ભગવાન દેશના આપે છે તેમાં કારણ છે “સવિ જીવ કરું શાસનરસી' આવી સર્વ જીવો ઉપર કરુણાની ઉત્કૃષ્ટ પરિણતિ દ્વારા છેલ્લેથી ત્રીજા ભવમાં બંધાયેલ તીર્થંકરનામ કર્મનો ઉદય.[૧૫/૨]|
વળી, તે રૂપ કેવું હોય છે ? તે જિજ્ઞાસાને સંતોષવા ગ્રંથકારથી કહે છે કે –
ગાથાર્થ :- માનસિક પીડાઓનું તે પરમ ઔષધ છે, અવ્યાહત, સર્વ સંપત્તિઓનું બીજ, ચક્ર વગેરે લક્ષણોથી સંયુક્ત, सपोट पुश्ययी निर्मित ये तीर्थ४२२५ डोय छे. [१५/3]
ટીપાર્થ :- [૧૨] માનસિક પીડાઓને દૂર કરવાના કારણે આધિનું તે પરમ ઔષધ છે. [૧૩] ઉપઘાતથી રહિત છે. [૧૪] सर्व संपत्तिमोन श्री. छ. [१५] ५६, स्वस्ति [साथियो], उमण, १% पोरे समायोथी युति होय छे. [१६] लेना ॥२॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org