________________
३३२ चतुर्दशं षोडशकम्
ॐ ध्यानविधितत्सिद्धिहेतुप्रभृतिद्योतनम्
सर्वकायचेष्टस्य कायोत्सर्गेण ऊर्ध्वस्थानरूपेण ढं = अत्यर्थं यद्वा पर्यङ्कबन्धेन आसनविशेषरूपेण ॥१४/१५|| 'साध्वित्यादि ।
कल्याणकन्दली
->
1
->
->
| इत्युक्तम् । अभ्यस्तयोगानां निर्मलज्ञानादिसामर्थ्यात् जनाकुलदेशेऽपि विपरीतेऽपि काले ध्यानं लब्धात्मलाभमेव । इदमेवाभिप्रेत्य योगदृष्टिसमुच्चये -> ध्यानञ्च निर्मले बोधे सदैव हि महात्मनाम् । क्षीणप्रायमलं हेम सदा कल्याणमेव हि ॥ १७४ | इत्युक्तम् । तदुक्तं ध्यानशतके निचं चिय जुवइ - पसू - नपुंसंग - कुसीलवज्जियं जइगो । ठाणं वियणं भणियं विसेसओ | झाणकालंमि ||३५|| धिरकयजोगाणं पुण मुणीण झाणे सुनिच्चलमणाणं । गामंमि जणाइण्णे सुण्णे रण्णे व न विससो || ३६ || कायोत्सर्गेण ऊर्ध्वस्थानरूपेण यदुक्तं तल्लक्षणं योगशास्त्रे प्रलम्बितभुजद्वन्द्वमूर्ध्वस्थस्याऽऽसितस्य वा । स्थानं | कायानपेक्षं यत् कायोत्सर्गः स कीर्त्तितः ॥ - [४ / १३३] । पर्यङ्कबन्धेनेति, तल्लक्षणञ्च योगशास्त्रे -> • स्याज्जङ्घयोरधोभागे, | पादोपरि कृते सति । पर्यङ्को नाभिगोत्तानदक्षिणोत्तरपाणिकः ॥ - [ ४ / १२५] इत्थमुक्तम् । उपलक्षणात् वीरासन वज्रासन| पद्मासन-भद्रासन - दण्डासन - गोदोहिकासनादीन्यासनानि योगशास्त्रोक्तानि बोध्यानि । परतन्त्रानुसारेण पर्यङ्कासनादिस्वरूपं योगप्रदीपादिग्रन्थेषु बोध्यम् । येनाऽऽसनेन विहितेन मनः स्थिरं भवति तदङ्गीकर्तव्यमिति हृदयम् । इदमेवाभिप्रेत्य साङ्ख्यसूत्रे स्थिरसुखमासनमिति न नियमः - [६ / २४] इत्युक्तम् । योगसूत्रेऽपि स्थिरसुखमासनम् - [२/४६] इत्युक्तम् । -> संवरियासवदारा अव्वाबाहे अकंटए देसे । काऊण थिरं ठाणं ठिओ निसन्नो निवन्नो वा ॥ चेयणमचेयणं वा वत्युं अवलंबिऊं घणं मणसा । झायइ सुयमत्थं वा दवियं तप्पज्जए वा वि । <- [१४६५-६६] इति आवश्यकनिर्युक्तिवचनमप्यत्र स्मर्तव्यम् । तदुक्तं गुणस्थानकक्रमारोहेऽपि -> निष्प्रकम्पं विधायाथ दृढं पर्यङ्कमासनम् । नासाग्रदत्तसनेत्रः किञ्चिदुन्मीलिते| क्षणः ||५२ || विकल्पवागुराजालाद् दूरोत्सारितमानसः । संसारोच्छेदनोत्साहो योगीन्द्रो ध्यातुमर्हति ॥ ५३ ॥ - इति । इदञ्चात्रावधेयम् -> निष्पन्नध्यानस्य ध्यानसिद्धिसन्मुखस्य वा देश - कालासनादिनियमो नास्त्येव । तदुक्तं सम्बोधप्रकरणे मूलकारैरेव -> तो जत्थ समाहाणं होइ मणो वयण - काय - जोगाणं । भूओवरोहरहिओ सो देसो झायमाणस्स || कालो वि सुच्चिय जहिं जोगसमाहाणमुत्तमं लहइ । न उ दिवस - निसावेलाइ नियमणं झाइणो भणियं ।। जच्चिय देहावत्था जियाण झाणोवरोहिणी होइ । झाइज्जा तयवत्थो ठिओ निसण्णो निविन्नो वा ॥ सव्वासु वट्टमाणासु णओ जं देस-काल- चिट्ठासु । वरकेवलाइलाभं | पत्ता बहुसो समियपावा ॥ - [ धर्मध्यान- ३७ ४०] इति । अध्यात्मसारेऽपि -> स्थिरयोगस्य तु ग्रामेऽविशेषः कानने वने । | तेन यत्र समाधानं स देशो ध्यायतो मतः ॥ यत्र योगसमाधानं कालोऽपीष्टः स एव हि । दिन-रात्रिक्षणादीनां ध्यायिनो | नियमस्तु न || यैवावस्था जिता जातु न स्याद् ध्यानोपघातिनी । तया ध्यायेन्निषण्णो वा स्थितो वा शयितोऽथवा ।। सर्वासु | मुनयो देश - कालावस्थासु केवलम् । प्राप्तास्तन्नियमो नासां नियता योगसुस्थता || <- [१६ / २७-३०] इत्युक्तम् । मण्डलब्राह्म| णोपनिषदि तु सुखासनवृत्तिश्विरवासश्चैवाऽऽसननियमो भवति - [१ / १] इत्युक्तम् । तदुक्तं ज्ञानार्णवे शुभचन्द्रेणाऽपि -> येन येन सुखासीना विदध्युर्निश्चलं मनः । तत्तदेव विधेयं स्यान्मुनिभिर्बन्धुराऽऽसनम् ||[ २८ / ११] संविग्नः संवृतो धीरः | स्थिरात्मा निर्मलाशयः । सर्वावस्थासु सर्वत्र सर्वदा ध्यातुमर्हति ॥ <- - [ २८/२१] इति । अध्यात्मतत्त्वालोके न्यायविजयेनापि -> ध्यानाय कालोऽपि मतो न कोऽपि यस्मिन् समाधिः समयः स शस्यः । ध्यायेन्निषण्णः शयितः स्थितो वाऽवस्था
=
->
जिता कापि मतानुकूला ॥ - [६/१३] इति कालासनानियमः प्रदर्शितः । सङ्गत्यागादिकं तु ध्यानस्याऽऽन्तरसामग्री । तदुक्तं | तत्त्वानुशासने सङ्गत्यागः कषायाणां निग्रहो व्रतधारणम् । मनोऽक्षाणां जयश्चेति सामग्रीध्यानजन्मने || ← [३ / १] इति । | नागसेनेनैव बाह्याभ्यन्तरहेतुचतुष्टयं ध्यानसामग्ग्रन्तर्भूतभावेदितम् । तदुक्तं तत्त्वानुशासने - -> ध्यानस्य च पुनर्मुख्यो हेतुरेतच्चतुष्टयम् ।। गुरूपदेश श्रद्धानं सदाऽभ्यासः स्थिरं मनः || [ ६ / ३६] ध्यानविधिश्व -> सुखासनसमासीनः सुश्लिष्टाधरपल्लवः । नासा|ग्रन्यस्तदृग्द्वन्द्वो दन्तैर्दन्तानसंस्पृशन् || प्रसन्नवदनः पूर्वाभिमुखो वाप्युदङ्मुखः । अप्रमत्तः सुसंस्थानो ध्याता ध्यानोद्यतो भवेत् ॥ |<- [४/१३५-१३६] इत्येवं योगशास्त्रे गदितः । तत्त्वानुशासनेऽपि [ ४ / १-६] प्राय एवंरूपो विशदो ध्यानविधिरुक्तः ।
ટીડાર્થ :- પવિત્ર અને નિર્જન સ્થાનમાં કાઉસગ્ગ વડે અથવા પર્યંકબંધ આસન વડે સમ્યક્ રીતે કાયાની સંપૂર્ણ ચેષ્ટાઓને સંયમિત કરીને ધ્યાન ધરવું જોઈએ. [૧૪/૧૫]
વિશેષાર્થ :- જ્યાં પવિત્રતા ન હોય તે સ્થાનમાં દૃઢતાથી તથા માણસોનો કોલાહલ થતો હોય તેવા સ્થાનમાં ધ્યાન સિદ્ધ થવામાં અડચણ-મુશ્કેલી ઊભી થાય છે. સૂતાં-સૂતાં કે બીજી કોઈ અયોગ્ય અવસ્થામાં કાયા રાખવાથી ધ્યાનની સિદ્ધિમાં મુશ્કેલી થાય છે. માટે ઉપરોક્ત ૩ વાતની કાળજી રાખવી. ધ્યાનાભ્યાસ કરનાર માટે આ વાત છે. બાકી જેણે ધ્યાનને સિદ્ધ ॐ चिह्नद्वयान्तर्गतः पाठः मुद्रितप्रती नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org