________________
ॐ अवस्थाभेदेन ध्यानासनदेश-कालादिस्वरूपप्रकाशनम् 88
३३१ नुष्ठानसमूहस्य योगिनः शस्तं = प्रशस्तं ध्यानमपि प्रागुक्तं अस्य तु = अस्यैव अधिकृतं = सम्पन्नाधिकारं इत्याहुः आचार्याः = योगाचार्याः ॥१४/१४|| 'कथं पुजस्तध्यानं देशाद्यपेक्षया भवतीत्याह -> 'शुद्ध' इत्यादि।
शुद्धे विविक्तदेशे सम्यक्संयमितकाययोगस्य । कायोत्सर्गेण दृढं यद्वा पर्यबन्धेन ॥१४/१५॥ शुद्धे = शुचौ विविक्ते = जनाऽजाकीर्णे देशे सम्यग् = अवैपरीत्येन संयमितकाययोगस्य = नियमित
= कल्याणकन्दली - प्राधान्येन, ध्यानादियोगस्त्वभ्यासरूपतयैव । स इत्थमेव तत्कल्याणमश्नुते, ध्यानमात्रपरायणत्वे तु स विनश्येदेव । गोत्रयोगिनस्तु ध्यानाधिकार एव नास्ति । स्वसमयेऽपि चारित्रिण एव ध्यानादियोगोऽभिहितः प्राक् [प्र.२९०] । न च चारित्रिणो ध्यानादिपरायणत्वाभिधानात् भिक्षाटनादिका क्रिया ध्यानव्याघातकत्वाद्वर्जनीया स्यादिति वाच्यम्, असङ्गत्वेन तस्या ध्यानाऽबाधकत्वात् । तदुक्तं अध्यात्मसारे -> देहनिर्वाहमात्रार्था याऽपि भिक्षाटनादिका । क्रिया सा ज्ञानिनोऽसङ्गान्नैव ध्यानविघातिनी ॥ - [१५/११] इति भावनीयम् ॥१४/१४।।
मूलग्रन्थे दण्डान्वयस्त्वेवम् -> शुद्धे विविक्तदेशे दृढं कायोत्सर्गेण यद्वा पर्यङ्कबन्धेन सम्यक् संयमितकाययोगस्य | ॥१४/१५॥
जनानाकीर्णे देशे ध्यानस्य व्याघातो न भवति, विक्षेपनिमित्तविरहात् । तदक्तं योगशास्त्रे -> 'तीर्थं वा स्वस्थताहेत यत्तद्वा ध्यानसिद्धये । कृतासनजयो योगी, विविक्तं स्थानमाश्रयेत् ।। [९४/१२३] । विविक्तस्थानादेः ध्यानात्मकयोगसिद्धचै उपयोगः, यथोक्तं मूलकारैरेव योगबिन्दी -> उत्साहान्निश्चयाद्धैर्यात् सन्तोषात्तत्त्वदर्शनात् । मुनेर्जनपदत्यागात् षड्भिर्योगः प्रसिद्धयति ॥४११|| - इति । इयञ्च कारिका ज्ञानार्णवे शुभचन्द्रेण [प्रक.२२/१] समुद्भता । एवमेव तदनुवादरूपेण अमितगतिनाऽपि योगसारप्राभृते > उत्साहो निश्चयो धैर्य संतोषस्तत्त्वदर्शनम् । जनपदात्ययः षोढा सामग्रीयं बहिर्भवा ।। - [७/४१] इत्युक्तम् । इदश्चानभ्यस्तयोगानां जीवानामपेक्षया बोध्यम्, तदुक्तं योगशतके -> पइरिक्के वाघाओ न होइ पाएण, जोगवसिया य । जायइ तहा पसत्था, हंदि अणब्भत्थजोगाणं ।।७५।। - इति । निशीथचूर्णी अपि -> इमे झाणवाघायठाणा- गंधवणट्टसाला, सञ्चाउज्जसाला, चकिजंतादिसालाओ, तुरगगवसालाओ, रायपहो य <-नि.भा.- ३८१५-भा.३, पृ.२९७] इत्युक्तम् । अध्यात्मसारे च -> स्त्रीपशुक्लीबद:शीलवर्जितं स्थानमागमे । सदा यतीनामाज्ञप्तं ध्यानकाले विशेषतः ॥ [१६/२६] इत्युक्तम् । उपलक्षणाज्जनसंसर्गो योगिना त्याज्य इत्युपदेशः । तदुक्तं समाधिशतके -> जनेभ्यो वाक् ततः स्पन्दो मनसश्चित्तविभ्रमाः । भवन्ति तस्मात्संसर्ग जनैः योगी ततः त्यजेत् ।।७२|| <- इति । एतेन -> अरण्यगुहापुलिनादिषु योगाभ्यासोपदेश: - [४/२/४२] इति न्यायसूत्रमपि व्याख्यातम् । अध्यात्मगीतायामपि -> स्थातव्यं निर्जने स्थाने प्रथमाभ्याससाधकैः -[८६] इत्युक्तम् । ज्ञानार्णवे -> यत्र रागादयो दोषा अजस्रं यान्ति लाघवम् । तत्रैव वसतिः साध्वी ध्यानकाले विशेषतः ।। [२८/८] संविग्नः संवृतो धीरः स्थिरात्मा निर्मलाशयः । सर्वावस्थासु सर्वत्र सर्वदा ध्यातुमर्हति ।।२८/२१] विजने जनसङ्कीर्णे सुस्थिते दुःस्थितेऽपि वा । यदि धत्ते स्थिरं चित्तं न तदाऽस्ति निषेधनम् ।। - [२८/२२] इत्युक्तम् । तदुक्तं साङ्ख्यसूत्रेऽपि -> न स्थाननियमश्चित्तप्रसादात् <- [६/३१] इति । -> यत्रैकाग्रता तत्राऽविशेषात् <- [४/१/११] इति वेदान्तसूत्रमप्यत्र संवादि । तत्त्वानुशासने नागसेनाचार्येणापि -> देशः कालश्च सोऽन्वेष्यः सा चावस्थाऽनुगम्यताम् । यदा यत्र यथा ध्यानमपविघ्नं प्रसिध्यति ।।३९।। <- इत्युक्तम् । गरुडपुराणेऽपि -> आसनस्थानविधयो न योगस्य प्रसाधकाः - [२२७/४४] ' વિશેષાર્થ :- યોગારંભક અને આરબ્ધયોગ એવા બે યોગી પ્રાથમિક કક્ષામાં હોવાથી યોગીચિત્તના જે વિશેષણો બતાવ્યા તે હોય જ એવો નિયમ નથી, પણ અલ્પ પ્રમાણમાં કે વિકાસશીલ અવસ્થામાં તે હોય. પણ પ્રવૃત્તચયોગી વિકસિત ચિત્તવાળા હોવાથી તેનામાં ઉપરોક્ત ૭ વિશેષાણો અવશ્ય હોય છે. પ્રાથમિક યોગઅવસ્થાવાળા ચિત્તમાં પ્રબળ શુદ્ધિ અને પુષ્ટિ ન હોવાથી પ્રશસ્ત આલંબન કે નિરાલંબન ધ્યાનમાં પ્રવૃત્તિ કરે તો તેનું મન તેમાં જ કરે એવું બનવાના બદલે આડા અવળા સંકલ્પ-વિકલ્પમાં ગરકાવ થઈ જાય તેવી શક્યતા વધારે છે. જ્યારે પ્રવૃત્તચકયોગીનું મન પૂર્ણ સ્વસ્થ હોય છે. પ્રબળ શુદ્ધિ અને પુષ્ટિવાનું હોય છે. માટે તે સુંદર એવા આલંબન ધ્યાન અને નિરાલંબને ધ્યાનમાં પૂર્ણતયા એકાકાર થઈને પરમાત્મમય બનવાનું સામર્થ્ય ધરાવે છે. માટે પ્રવૃત્તચયોગીને જ મોટા ભાગે અધિકારથી પ્રાપ્ત થયેલ સુંદર ધ્યાન હોય છે. આવું યોગાચાર્યોનું તાત્પર્ય છે.[૧૪/૧૪] કેવી રીતે તે ધ્યાન દેશાદિની અપેક્ષાએ થાય ? તેવી જિજ્ઞાસાને સંતોષવા ગ્રંથકારથી જણાવે છે કે –
HE $થાન કેવી રીતે કરશો ? " ગાથાર્થ :- શુદ્ધ અને માણસોથી રહિત એવા સ્થાનમાં દૃઢતાથી કાઉસગ્ગ દ્વારા કે પર્યકબંધ આસનથી સારી રીતે કાયયોગને સંયમિત કરીને ધ્યાન ધરવું [૧૪/૧૫]
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org