________________
२०८ नवमं षोडशकम्
ॐ गृहस्थस्याऽऽपवादिकप्रवृत्तिनिमित्तोपदर्शनम् * पूजनमित्यग्ने सम्बन्धः । काले = त्रिसन्ध्यं स्ववृत्त्यविरुद्ध वा काले नियतं = सदा विधानेन = शास्त्रोक्तेन ॥७/१|| न विद्यते उपकृतं = उपकारो येभ्यः ते च ते परे च तेभ्यो हितं तस्मिन् रतः, अनुपकृतः = उपकारफलाऽभागी सन् परहितरत इति वा, नि:कारणवत्सल इत्यर्थः । शिवदः = मोक्षार्पकः, त्रिदशेशैः = इन्द्रैः पूजितो भगवान् = समग्रैश्वर्यादिसम्पन्नः पूज्य: : पूजनीयो हितकामानां = हितार्थिनां प्राणिनां इति एवंविधकुशलपरिणाम
___ कल्याणकन्दली मैर्न महीगतैः । न विशीर्णदलैः स्पष्टै शभर्नाऽविकाशिभिः || - 1 इति । गन्धद्रव्यविशेषैरिति । -> गन्धाः = कोष्ठपुटपाकादयः - इति सूत्रकृताङ्गवृत्तौ श्रीशीलाङ्काचार्यः । -> गन्धाः पटवासादयः - इति पिण्डनियुक्तिवृत्तौ श्रीमलयगिरिसूरिः । -> वासाः श्वेतवर्णाः; वासा एव ईषत् कृष्णाः गन्धाः -- [ ] इति प्रतिष्ठाकल्पेषु । सम्पदनुसारेणेति । न तु परेभ्यः चौर्यादितो धनं लब्ध्वा, तादृशपूजाया निषिद्धत्वात् । तदुक्तं -> हरिऊण य परदवं पूर्य जो कुणइ जिणवरिंदाणं । दहिऊण चंदनतरुं कुणइ इंगालवाणिज्जं ।। -[ ] इति स्वसम्पदनुसारेण पूजा कार्या । तथाविधजिनपूजनदर्शनादिना भव्यानां प्रतिबोधसम्भवात्, तदुक्तं सम्बोधप्रकरणे [१७४] चैत्यवन्दनमहाभाष्ये च -> चेईहरेण केई पसंतरूवेण केई बिंबेण । पूआइसया अन्ने बुझंति तहोवएसेण ॥१४३।। ता पुप्फ-गंध-भूसण-विचित्तवत्थेहिं पूयणं निच्चं । जह रेहइ तह सम्मं, कायव्वं सुद्धचित्तेहिं ॥१४४।। - इति । यथोक्तं पञ्चाशके -> गंधवरधूवसञ्चोसहीहिं, उदगाइएहिं चेत्तेहिं । सुरहिविलेवणवरकुसुम-दामबलिदीवएहिं च ।। सिद्धत्थयदहि-अक्खय-गोरोयणमाइएहि जहलाभं । कंचण-मोत्तियरयण-माइदामपहिं च विविहेहिं ।। - [४/१४-१५] इति । उपलक्षणात् जिनपूजायां सप्तविधा शुद्धिरपि सम्पादनीया । तदुक्तं मूलकारैरेव सम्बोधप्रकरणे -> पूयाए सत्तविहा सोही बोहि जणाण कायव्वा । धण-वत्थ-खेत्त-मण-वय-काया-पूओवगरणाणं ८-||१३०।। आचारोपदेशे चारित्रसुन्दरगणिना तु -> मनो-वाक्काय-वस्त्रेषु भू-पूजोपस्करस्थितौ । शुद्धिः सप्तविधा काय १२] इत्येवमुक्तम् । अन्यत्र अपि -> मनो-वाक्काय-वस्त्रोर्वी-पूजोपकरण-स्थितेः । शुद्धिः सप्तविधा कार्या श्रीअर्हत्पूजनक्षणे ।। <- [ ] इत्युक्तमिति ध्येयम् । त्रिसन्ध्यं = प्रातः मध्याह्ने सायंकाले च । तदुक्तं सम्बोधप्रकरणे मूलकारैः -> जो पूएइ तिसंझं जिणंदरायं सया विगयरायं । सो तइयभवे सिज्झहि अहवा सत्तट्ठमे जम्मे ॥२१५।। - इति । तद्विधिश्चैवं > प्रात: प्रपूजयेद्वासै: मध्याह्ने कुसुमैर्जिनम् । सन्ध्यायां धूपनैर्दीपै: त्रिधा देवं प्रपूजयेत् ।।<- [ ] पूजाप्रकरणे उमास्वातिवाचकैरपि -> प्रभाते प्रथमं वासपूजा कार्या विचक्षणैः । मध्याह्ने कुसुमैः पूजा सन्ध्यायां धूपदीपयुक् ।। [९/१०] - इत्युक्तम् ।। अन्यत्रापि -> सुपभाए समणोवासगस्स पाणंपि कप्पइ न पाउं | नो जाव चेइआई साहूवि अ वंदिआ विहिणा || मज्झण्हे पुणरवि वंदिऊण नियमेण कप्पई भोत्तुं । पुण वंदिऊण ताई, पओससमयंमि तो सुअइ॥[ ] - इत्युक्तम् । उपदेशतरङ्गिण्यामुक्तं त्रिकालपूजायाः प्रातिस्विकफलञ्चेदं -> जिनस्य पूजनं हन्ति प्रातः पापं निशाभवं । आजन्मविहितं मध्ये, सप्तजन्मकृतं निशि ।। <-[पृ.१८९] इति । शत्रुञ्जयमाहात्म्ये च > यद्येकवेलं क्रियते दिवसे जिनपूजनम् । तदनेकभवाभ्यस्तं पापं नाशयति क्षणात् ।। -- [५/४८१] इत्युक्तम् । एवं कालवेलाकृता पूजा महापुण्याय स्यात्, यतः -> जलाहारौषधस्वापविद्योत्सर्गकृषिक्रियाः । सफलाः स्वस्वकाले स्युरेवं पूजा जिनेश्वरी || <- [ ] इति ।
अत्रैवापवादमाह स्ववृत्त्यविरुद्ध वा काल इति । पञ्चाशकेऽपि -> सो पुण इह विन्नेओ संझाओ तिण्णि ताव ओहेण । वित्तिकिरियाऽविरुद्धो अहवा जो जस्स जावइओ ।। - [४/५] इत्येवं यथाक्रममुत्सर्गापवादौ दर्शितौ । तदुक्तं चैत्यवन्दनमहाभाष्ये -> वित्तिकिरियाविरोहो अववायनिबंधणं गिहत्थाणं - ॥८७६।। इति । कथारत्नकोशे -> कालो य तत्थ संझातियं ति अहवा सवित्तिअणुरूवो - [प.९१-गा.३] इत्येवं तथा पञ्चाशकेऽपि -> वित्तीवोच्छेयम्मि य गिहिणो सीयंति सचकिरियाओ [[४/७] इत्युक्तम् । सदा, न तु यदाकदाचित्, तस्याः सर्वार्थसाधकत्वात्, यथोक्तं उपदेशसारे -> पूजया पूर्यते सर्वं, पूज्यो भवति पूजया । ऋद्धिवृद्धिकरी पूजा, पूजा सर्वार्थसाधनी ॥३८।। संसाराम्भोधिबेडा शिवपुरपदवी दर्गदारिद्र्यभूभृद्भङ्गे दम्भोलिभूता सुरनरविभवप्राप्तिकल्पद्रुमा । दुःखाग्नेरम्बुधारा सकलसुखकरी रूपसौभाग्यकी पूजा तीर्थेश्वराणां भवतु भवभृतां सर्वकल्याणकर्ती ।।४०॥ वस्त्रैर्वस्त्र विभूतयः शुचितरालङ्कारतोऽलङ्कतिः, पुष्पैः पूज्यपदं सुगन्धतनुता गन्धैर्जिने पूजिते । दीपैर्ज्ञान
ઈ-જુઈ વગેરે ફૂલ, કાકતુંડ વગેરે સુગંધી ધૂપ વગેરે અનેક સુગંધી દ્રવ્યોથી સુંદર રીતે પોતાના વૈભવ અનુસાર ત્રિકાલ અથવા પોતાની આજીવિકાને પ્રતિકૂળ ન હોય તેવા સમયે રોજ શાસ્ત્રોક્ત વિધિથી ભગવાનનું જે પૂજન થાય તે પૂબ કહેવાય. આ પ્રમાણે બીજા શ્લોકના ઉત્તરાર્ધનો સંબંધ જોડવો. [કેવા પ્રકારની ભક્તિથી = ભક્તિભાવનાથી પૂજા કરવી ? તે ભાવનાનો આકાર શ્રીમદ્જી બતાવે છે કે - ] “જેઓથી પોતાના વિશે ઉપકાર થયેલો નથી એવા પરજનો માટે હિત કરવાને વિશે પ્રભુજી રત = મગ્ન છે. અથવા ઉપકાર કરવાના ફલનું પોતે ભાજન બનતા નથી છતાં બીજા જીવોને હિત કરવામાં ભગવાન મગ્ન છે.
3
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org