________________
श्रीशङ्गेश्वरपार्श्वनाथाय नमः ।
याकिनीमहत्तरासूलु-सूरिपुरन्दर-श्रीहरिभद्रसूरीश्वरप्रणीतम् न्यायविशारद-न्यायाचार्य-महोपाध्याय-श्रीयशोविजयगणिवरविरचित-योगदीपिकावृत्तिसमेतम्
मुनि-यशोविजयकृत-कल्याणकन्दली-रतिदायिनीव्याख्याभ्यां विभूषितम्
षोडशकप्रकरणम्
नवमं पूजाषोडशकम् पूजाऽविच्छेदतोऽस्य कर्तव्या' इत्युक्तम् । सैव स्वरूपतोऽभिधीयते -> 'स्नाने त्यादिकारिकायुग्मेन । स्नान-विलेपन-सुसुगन्धिपुष्प-धूपादिभिः शुभैः कान्तम् । विभवानुसारतो यत्काले नियतं विधानेन ॥९/१॥ अनुपकृतपरहितरतः शिवदस्त्रिदशेशपूजितो भगवान् । पूज्यो हितकामानामिति भक्त्या पूजनं पूजा ॥९/२॥
स्नानं = गन्धद्रव्यसंयोजितं स्नात्रं, विलेपनं चन्दन-कुङ्कमादिभिः सुष्ठु सुगन्धिपुष्पाणि जात्यादीनि सुगन्धिधूप: काकतुण्डादि तदादिभिरपरैरपि शुभैः गन्धद्रव्यविशेषैः कान्तं = मजोहारि विभवानुसारतः = सम्पदनुसारेण यत्
- कल्याणकन्दलीशान्तिनाथं प्रणम्याऽद्य स्वगुरुं शारदां तथा । कल्याणकन्दली वृत्तिरग्रे वितन्यते मया ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> विभवानुसारतः यत् काले नियतं शुभैः स्नान-विलेपन-सुसुगन्धिपुष्प-धूपादिभिः कान्तं विधानेन ॥९/१॥ ‘अनुपकृतपरहितरतः शिवदः त्रिदशेशपूजितो भगवान् हितकामानां पूज्य' इति भक्त्या पूजनं = पूजा ॥९/२॥ इयं द्वितीयकारिका सागरानन्दसूरिभिः अधिकारविंशिकावृत्तौ समुद्भूता । स्नानेति । तदुक्तं अष्टविधपूजाप्रदर्शनावसरे श्राद्धदिनकृत्ये श्रीदेवेन्द्रसूरिभिरपि -> गंधोदएण पहावित्ता जिणे तेलोक्कबांधवे । गोसीसचंदणाईहिं विलंपित्ता य पूयए ॥२५॥ पुप्फेहिं गंधेहिं सुगंधएहिं धूवेहिं दीवेहि य अक्खएहिं । नाणाफलेहिं च घणेहि निचं पाणीयपुण्णेहि य भायणेहिं ॥२६।। तदुक्तं सम्बोधप्रकरणेऽपि -> न्हवण-विलेवण-आहरण-वत्थ-फल-गंध-धूव-पुप्फेहिं । कीरइ जिणंगपूया <- [१६९] ।
सर्वतः प्रथमं विधिवत् जिनगृहं प्रविश्य प्रदक्षिणत्रिकं दद्यात् ततः स्नान-विलेपन-पुष्पादिभिरर्चनं ततः सुचारुस्तवस्तोत्रभणितिरिति क्रमः । तदुक्तं योगशास्त्रे > प्रविश्य विधिना तत्र त्रि:प्रदक्षिणयेज्जिनम् । पुष्पादिभिस्तमभ्यर्च्य स्तवनैरुत्तमैः स्तुयात् ॥ ८- [३/१२३] इति । सुसुगन्धिपुष्पाणीति । अष्टकप्रकरणे मूलकारैरेव -> शुद्धागमैर्यथालाभं, प्रत्यग्रैः शुचिभाजनैः । स्तोकैर्वा बहुभिर्वाऽपि पुष्पैर्जात्यादिसम्भवैः ।। अष्टापायविनिर्मुक्ततदुत्थगुणभूतये । दीयते देवदेवाय या सा शुद्धत्युदाहृता ।। - [३/२-३] इत्युक्तम् । उच्छिष्टपुष्पादितस्त्वशुभकर्मबन्धो देशितः, यथोक्तं > उच्छिट्टे फल-कुसुमं नेविज्जं वा जिणस्स जो देइ । सो नीअगोअकम्मं बंधइ पायनजम्मंमि ॥ -[ ] इति । एतेन -> आलमाल-बिल्वीपत्राद्यपवित्रपुष्पप्रस्खलितपुष्पादिप्रतिषेधः कृतः । तदुक्तं पूजाप्रकरणे श्रीउमास्वातिवाचकैः -> हस्तात्प्रस्खलितं क्षितौ निपतितं लग्नं क्वचित् पादयोः यन्मूर्नोर्ध्वगतं धृतं कुवसनै भेरधो यद्गतं । स्पृष्टं दुष्टजनैर्घनैरभिहतं यदूषितं कीटकैस्त्याज्यं तत्कुसुमदलं फलमथो || भक्तैर्जिनप्रीतये ।।१२।। नैकं पुष्पं द्विधा कुर्याद् न च्छिन्द्यात् कलिकामपि । चम्पकोत्पलभेदेन भवेद्दोषो विशेषत: -।१३।। पद्मपुराणेऽपि -> कीटकेशापविद्धानि शीर्णपर्युषितानि च । वर्जयेदर्णनाभेन वासितं यदि शोभनम् ।। ] - इत्युक्तम् । आचारोपदेशे चारित्रसुन्दरगणिनाऽपि -> नैकपुष्पं द्विधा कुर्यात्र च्छिन्द्यात्कलिकामपि पत्र-पङ्कजभेदेन हस्तात् प्रस्खलितं पुष्पं लग्नं पादेऽथवा भुवि शीर्षोपरिगतं यच्च तत्पूजाहँ न कर्हिचित् ॥ स्पृष्टं नीचजनैर्दष्टं कीटैः कुवसने धृतम् । निर्गन्धमुग्रगन्धं च तत् त्याज्यं कुसुमं समम् ॥ - [२/३१-३२-३३] इत्युक्तम् । विष्णुरहस्येऽपि प्रोक्तं ->
तिहायिनी* પ્રતિષ્ઠિત પ્રતિમાની પૂબ નિરંતર = રોજ કરવી જોઈએ. આ વાત આઠમા ષોડશકમાં જણાવી. તે પૂજનું જ સ્વરૂપ બે ગાથાથી મૂલકારથી જણાવે છે.
ગાથાર્થ :- વૈભવ અનુસારે નિયત સમયે રોજ સુંદર સ્નાન, વિલેપન, અત્યંત સુગંધી પુષ્પ, ધૂપ, વિગેરેથી મનોહર શાસ્ત્રોક્ત વિધિથી ‘ઉ૫કાર નહિ કરનાર ઉપર ઉપકાર કરનાર, મોક્ષદાયક, દેવેન્દ્રથી પૂજિત તથા હિતકામીઓને ભગવાન પૂજ્ય છે' એવી ભક્તિથી જે પૂજન કરવું તે પૂજા કહેવાય. [૯/૧-૨]
पूजाविधिEA ટીકાર્ય :- વાસક્ષેપથી મિશ્રિત પાણીથી સ્નાન સ્નિાત્ર-અભિષેક, ચંદન = કેશર વગેરેથી વિલેપન કરવું, અત્યંત સુગંધી
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org